सञ्जयः-
तं भीमसेनश्च शिनेश्च नप्ता माद्र्याश्च पुत्रौ पुरुषप्रवीरौ
समापतन् भीमबलेन राजन् पर्यापुरन्योन्यमथाह्वयन्त
ततस्तु शूरास्समरे नरेन्द्र मद्रेश्वरं प्राप्य युधां वरिष्ठम्
आवार्य चैनं समरे नृवीरा जघ्नुश्शितैः पत्रिभिरुग्रवेगैः
संरक्षितो भीमसेनेन राजा माद्रीसुताभ्यामथ माधवेन
मद्राधिपं पत्रिभिरुग्रवेगैस् स्तनान्तरे धर्मसुतो निजघ्ने
ततो रणे तावकानां रथौघास् समीक्ष्य मद्राधिपतिं शरार्तम्
पर्यावव्रुः प्रवरास्सर्वयोधा दुर्योधनस्यानुमते समन्तात्
ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिः प्रत्यविध्यत्
तं चापि पार्थो नवभिः पृषत्कैर् विव्याध राजंस्तुमुले महात्मा
आकर्णपूर्णायतसम्प्रयुक्तैश् शरैस्तदा संयति तैलधौतैः
अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च
ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ
शरैर्भृशं विव्यधतुर्नृपोत्तमौ महबलौ शत्रुभिरप्रधृष्यौ
ततो र्धनुर्ज्यातलनिस्स्वनो महान् महेन्द्रवज्राशनितुल्यनिस्स्वनः
परस्परं बाणशतैर्महात्मनोः प्रवर्षतोर्मद्रपपाण्डवाग्र्ययोः
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महाहवेष्वामिषगर्धिनाविव
विषाणिनौ नागवराविवोल्बणौ ततक्षतुस्संयुगजातदर्पौ
ततश्च मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्य
विव्याध गाढं हृदि संशितेन शरेण सूर्याग्निसमप्रभेण
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसम्प्रयुक्तेन शरेण राजन्
जघान मद्राधिपतिं महात्मा मुदं च लेभे वृषभः कुरूणाम्
ततो मुहूर्तादिव पार्थिवेन्द्रो लब्ध्वा सञ्ज्ञां क्रोधसंरक्तनेत्रः
शरेण पार्थं त्वरितो जघान सहस्रनेत्रप्रतिमप्रभावः
त्वरंस्ततो धर्मसुतो महात्मा शल्यस्य रुष्ठो नवभिः पृषत्कैः
भित्वा ह्युरस्तपनीयं च वर्म जघान षड्भिस्त्वपरैः पृषत्कैः
ततस्तु मद्राधिपतिः प्रहृष्टो धनुः प्रगृह्य व्यसृजत् पृषत्कान्
द्वाभ्यां शराभ्यां च तथैव राज्ञश् चिच्छेद चापं कुरुपुङ्गवस्य
नवं ततोऽन्यत् समरे प्रगृह्य राजा धनुर्धोरतरं महात्मा
शल्यं तु विव्याध शरैस्समन्ताद् यथा महेन्द्रो नमुचिं शिताग्रैः
ततस्तु शल्यो नवभिः पृषत्कैर् भीमस्य राज्ञश्च युधिष्ठिरस्य
निकृत्य रौक्मे वरवर्मणी तयोर् विदारयामास च तौ महात्मा
ततोऽपरेण ज्वलनोग्रतेजसा क्षुरेण राज्ञो धनुरुन्ममाथ
कृपश्च तस्यैव जघान सूतम् षड्भिश्शरैस्सोऽभिमुखः पपात
मद्राधिपश्चापि युधिष्ठिरस्य शरैश्चतुर्भिर्निजघान वाहान्
वाहांश्च हत्वाऽप्यकरोन्महात्मा योधक्षयं धर्मसुतस्य राज्ञः
यदद्भुतं कर्म न शक्यमन्यैर् सुदुस्सहं तत् कृतवन्तमेकम्
शल्यो नरेन्द्रस्य विषण्णभावाद् विचिन्तयामास मृदङ्गकेतुः
किमेतदिन्द्रावरजस्य वाक्यं मोघं भवत्यद्य विधेर्बलेन
जहीति शल्यं ह्यवदत्तदाजौ न लोकनाथस्य वचोऽन्यथा स्यात्
तथाऽऽतुरे राजनि भीमसेनो मद्राधिपस्याशु ततो महात्मा
छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत् सुभृशं नरेन्द्रम्
तथाऽपरेणास्य जहार यन्तुः कायाच्छिरस्सन्नहनीयमुर्व्याम्
जघान चाश्वांश्चतुरस्सुशीघ्रांस् तथा ध्वजं वै कुपितो वृकोदरः
तमग्रणीस्सर्वधनुर्धराणाम् एकं चरन्तं समरेऽतिवेगम्
भीमश्शतेनाविकिरच्छराणां माद्रीपुत्रस्सहदेवस्तथैव
तैस्सायकैर्मोहितं वीक्ष्य शल्यं भीमश्शरैरस्य चकर्त वर्म
स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्मसहस्रधारम्
प्रगृह्य खड्गेन रथान्महात्मा प्रस्कन्द्य कुन्तीसुतमभ्यधावत्
छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत्
तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम्
धृष्टद्युम्नो द्रौपदेयाश्शिखण्डी शिनेश्च नप्ता सहसा परीयुः
अथास्य चर्माप्रतिमं न्यकृन्तद् भीमो महात्मा दशभिः पृषत्कैः
खड्गं च भल्लेन निकृत्य मुष्टौ नदन् प्रहृष्टस्तव सैन्यमध्ये
तत् कर्म भीमस्य समीक्ष्य हृष्टास् ते पाण्डवानां प्रवरा रथौघाः
नादं प्रचक्रुर्भृशमुत्स्मयन्तश् शङ्खांश्च दध्मुश्शशिसन्निकाशान्
तेनाथ शब्देन सुभीषणेन तवाभितप्तं बलमप्रधृष्यम्
स्वेदाभिभूतं रुधिरोक्षिताङ्गं विसञ्ज्ञकल्पं च तथा विषण्णम्
स मद्रराजस्सहसा विकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः
युधिष्ठिरस्याभिमुखो जवेन सिंहो यथा मृगहेतोः प्रयातः
स धर्मराजो निहताश्वसूतः क्रोधेन दीप्तज्वलनप्रकाशः
दृष्ट्वा च मद्राधिपतिं सतूर्णं समभ्यधावत् तमरिं बलेन
गोविन्दवाक्यं त्वरितो विचिन्त्य दध्रे मतिं शल्यविनाशनाय
स धर्मराजो निहताश्वसूतो रथेऽतिष्ठच्छक्तिमेवाभिकाङ्क्षन्
तच्चापि शल्यस्य निशाम्य कर्म तमात्मनो भागमथावशिष्टम्
कृत्वा मनश्शत्रुवधे महात्मा यथोक्तमिन्द्रावरजस्य चक्रे
स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं ज्वलनप्रकाशाम्
नेत्रे च दीप्ते सहसा विवृत्य मद्राधिपं क्रुद्धमना निरैक्षत्
निरीक्षितो धर्मसुतेन राज्ञा पूतात्मना निर्हृतकल्मषेण
आभून्न यद्भस्म स मद्रराजस् तदद्भुतं मे प्रतिभाति राजन्
ततस्तु शक्तिं रचिरोग्रदण्डां मणिप्रबद्धां ज्वलितां प्रदीप्ताम्
चिक्षेप वेगात् सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम्
दीप्तामथैनां महता बलेन सविष्फुलिङ्गां सहसा पतन्तीम्
प्रैक्षन्त सर्वे कुरवस्समेता यथा युगान्ते महतीमिवोल्काम्
तां कालरात्रीमिव पाशहस्तां यमस्य धात्रीमिव चोग्ररूपाम्
सब्रह्मदण्डप्रतिमाममोघां ससर्ज यत्तो युधि धर्मराजः
गन्धस्रगग्र्याशनपानभक्षैर् अभ्यर्चितां पाण्डुसुतैः प्रयत्नात्
सांवर्तकाग्निप्रतिमां ज्वलन्तीं कृत्यामथर्वाङ्गिरसीमिवोग्राम्
ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्षाम्
भूम्यन्तरिक्षद्रजलाश्रयाणि प्रसह्य भूतानि निहन्तुमीशाम्
घण्टापताकामणिवज्रभूषितां वैडूर्यचित्रां तपनीयदण्डाम्
त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां ब्रह्मद्विषामन्तकरीममाोघाम्
बलप्रयत्नादनिरोधवेगां मन्त्रैश्च घोरैरभिमन्त्र्य यत्नात्
ससर्ज मार्गेण स चाम्बरेण वधाय मद्राधिपतेस्तदानीम्
हतो ह्यसावित्यभिगर्जमानो रुद्रोऽन्धकायान्तकरं यथेषुम्
प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव दर्पहन्ता
स्फुरत्प्रभामण्डलमंशुजालैर् धर्मात्मनो मद्रविनाशकाले
पुरत्रयप्रोत्सरणे पुरस्तान्माहेश्वरं रूपमभूत् तदानीम्
आवर्तनाकुञ्चितबाहुदण्डस् सन्ध्याविहारी तनुवृत्तमध्यः
विशालवक्षा भगवान् हरो यथा सुदुर्निरीक्ष्योऽभवदर्जुनाग्रजः
तां सर्वशक्त्या प्रहितां सुशक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्याम्
प्रतिग्रहायाभिननन्द शल्यस् सम्यग्घुतामग्निरिवाज्य धाराम्
सा तस्य मर्माणि विदार्य शुभ्रम् उरो विशालं च तथैव मर्म
विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्हरन्ती
नासाक्षिकर्णास्यविनिस्सृतेन प्रस्यन्दता च व्रणसम्भवेन
संसिक्तगात्रो रुधिरेण सोऽभूत् क्रौञ्चो यथा स्कन्दहतो महाद्रिः
प्रसार्य बाहू च रथाद्गतो गां सञ्छिन्नवर्मा कुरुनन्दनेन
महेन्द्रवाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य