सञ्जयः-
ततस्सेना तव विभो मद्रराजपुरस्कृता
पुनरभ्यद्रवत् पार्थान् वेगेन महता रणे
पीडितास्तावकास्सर्वे प्रधावन्तो रणोत्कटाः
क्षणेन चैव पार्थास्ते बहुत्वात् समलोलयन्
तैर्वध्यमानाःकुरुभिः पाण्डवानावतस्थिरे
निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थयोः
ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः
अवारयच्छरौघेण कृतवर्माणमेव च
शकुनिं सहदेवश्च सहसैन्यमवाकिरत्
नकुलः पार्श्वतस्स्थित्वा मद्रराजमयोधयत्
द्रौपदेया नरेन्द्रांश्च भूयिष्ठं समवारयन्
द्रोणपुत्रं च पाञ्चाल्यश् शिखण्डी समवारयत्
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः
भीमसेनस्तु राजानं गदापाणिरवारयत्
ततस्समभवद्युद्धं संसक्तं तत्र तत्र ह
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम्
तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे
यदेकस्सर्वसैन्यानि पाण्डवानामयुध्यत
व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः
क्रूरश्चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः
पीडयित्वा तु राजानं शरैराशीविषोपमैः
अभ्यधावत् पुनर्भीमं शरवर्षैरवाकिरत्
तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम्
अपूजयन्ननीकानि परेषां तावकानि च
पीड्यमानास्तु शल्येन पाण्डवा भृशविक्षताः
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे
वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः
ततः पौरुषमास्थाय मद्रराजमताडयत्
जयो वाऽस्तु वधो वेति कृतबुद्धिर्महारथः
समाहूयाब्रवीत् सर्वान् भ्रातॄन् कृष्णं च पाण्डवः
युधिष्ठिरः-
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः
कौरवार्थे पराक्रान्तास् सङ्ग्रामे निधनं गताः
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः
भागोऽवशिष्ट एवायं मम शल्यो महारथः
सोऽहमद्य युधा जेतुम् आशंसे मद्रकेश्वरम्
अत्र यन्मानसं सर्वं तद्धितं निगदामि वः
चक्ररक्षाविमौ शूरौ मम माद्रवतीसुतौ
अजय्यौ वासवेनापि समरे वीरसम्मतौ
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ
मदर्थे प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ
मां वा शल्यो रणे हन्ता तं वाऽहं भद्रमस्तु वः
इति सत्यामिमां वाचं लोकवीरा निबोधत
योत्स्येऽहं मातुलेनाद्य क्षात्रधर्मेण पार्थिवाः
स्वमंशमभिसन्धाय विजयायेतराय वा
तस्य ह्यम्यधिकं शस्त्रं सर्वोपकरणानि च
संयुज्यन्तां रथे क्षिप्रं शास्त्रवद्रथयोजकैः
शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम्
पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः
पुरस्सरो ममाद्यास्तु भीमश्शस्त्रभृतां वरः
एवमभ्यधिकश्शल्याद् भविष्यामि महामृधे
सञ्जयः-
एवमुक्तास्तथा चक्रुस् ततो राज्ञः प्रियैषिणः
ततः प्रहर्षस्सैन्यानां पुनरासीत् तदा नृप
पाञ्चालानां सोमकानां मात्स्यानां च महात्मनाम्
प्रतिज्ञातं च सङ्ग्रामे धर्मराजस्य पूजयन्
ततश्शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान्
अवादयन्त पाञ्चालास् सिंहनादांश्च नेदिरे
तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनम्
महता हर्षजेनाथ नादेन कुरुनन्दन
ह्रादेन गजघण्टानां शङ्खानां निनदेन च
तूर्यशब्देन महता नादयन्तश्च मेदिनीम्
तान् प्रत्यगृह्णात् पुत्रस्ते मद्रराजश्च वीर्यवान्
महामेघानिव बहून् शैलौ द्वौ तोयदागमे
शल्यस्तु समरश्लाघी धर्मराजमरिन्दमम्
ववर्ष शरवर्षेण मघवानिव पर्वतम्
तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः
द्रोणोपदेशान् विविधान् दर्शयानो महामनाः
ववर्ष शरवर्षेण चित्रं लघु च सुष्ठु च
न चास्य विवरं कश्चिद् ददर्श चरतो रणे
तावुभौ विविधैर्बाणैस् ततक्षाते परस्परम्
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे
भीमस्तु रणशौण्डेन तव पुत्रेण सङ्गतः
पाञ्चाल्यस्सात्यकिश्चैव तथा माद्रीसुतौवुभौ
शकुनिप्रमुखान् वीरान् प्रत्यगृह्णन् समन्ततः
तदाऽऽसीत् तुमुलं युद्धं पुनरेव जयैषिणाम्
तावकानां परेषां च राजन् दुर्मन्त्रिते तव
दुर्योधनस्तु भीमस्य शरेणानतपर्वणा
चिच्छेदोद्दिश्य सङ्ग्रामे ध्वजं हेमविभूषितम्
सकिङ्किणीकजालेन महता चारुदर्शनः
पपात रुचिरस्सिंहो भीमसेनस्य नादयन्
पुनश्चास्य धनुश्चित्रं गजराजकरोपमम्
क्षुरेण शितधारेण प्रचकर्त नराधिपः
सञ्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव
बिभेदोरसि विक्रम्य रथोपस्थ उपाविशत्
तस्मिन् मोहमनुप्राप्ते पुनरेव वृकोदरः
यन्तुरेव शिरः कायात् क्षुरप्रेणाहरत् तदा
हतसूता हयास्तस्य रथमादाय भारत
व्यद्रवन्त दिशो राजन् हाहाकारस्ततोऽभवत्
तमभ्यधावंस्त्राणार्थं द्रोणपुत्रो महारथः
कृपश्च कृतवर्मा च पुत्रं चेऽभिपरीप्सवः
तस्मिन् विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः
गाण्डीवधन्वा विष्फार्य धनुस्तानहनच्छरैः
युधिष्ठिरस्तु मद्रेशम् अभ्यधावदमर्षितः
स्वयं सञ्चोदयन्नश्वान् दन्तवर्णान् मनोजवान्
तत्राद्भुतमपश्याम कुन्तीपुत्रे युधिष्ठिरः
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत्
विवृताक्षस्तु कौन्तेयो दीप्यमानस्तु मन्युना
चिच्छेद योधान् निशितैश् शरैश्शतसहस्रशः
यां यां प्रत्युद्ययौ सेनां तान्तां ज्येष्ठः स पाण्डवः
शरैरपातयद्राजन् गिरीन् वज्रैरिवोत्तमैः
साश्वसूतध्वजवरान् रथानोऽपातयद्बहून्
अक्रीडदेको बलवान् पवनस्तोयदैरिव
साश्वारोहांश्च तुरगान् पत्तीन् नैकसहस्रशः
व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव
शून्यमायोधनं कृत्वा शरवर्षैस्समन्ततः
अभ्यधावत मद्रेशं तिष्ठ तिष्ठोति चाब्रवीत्
तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे भीमकर्मणः
वित्रेसुस्तावकास्सर्वे शल्यस्त्वेनं समभ्ययात्
ततस्तु तौ सुसंरब्धौ प्रध्माय सलिलोद्भवौ
समाहूय तदाऽन्योन्यं भर्त्सयन्तौ समीयतुः
शल्यस्तु शरवर्षेण युधिष्ठिरमपीडयत्
मद्रराजं च कौन्तेयश् शरवर्षैरवाकिरत्
व्यदृश्येतां तदा राजन् कङ्कपत्रिभिराहवेस
उद्भिन्नरुधिरौ तत्र मद्रराजयुधिष्ठिरौ
पुष्पिताविव रेजान्तौ वने शाल्मलिकिंशुकौ
दीव्यमानौ महात्मानौ प्राणद्यूतेषु दुर्मदौ
दृष्ट्वा सैन्यानि सर्वाणि नाध्यवस्यंस्तयोर्जयम्
हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम्
शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम्
इति वा निश्चयो नाभूद् योधानां तत्र भारत
प्रदक्षिणमभूत् सर्वं धर्मराजस्य युध्यतः
ततश्शरशतं शल्यो मुमोचाशु युधिष्ठिरे
धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत
सोऽन्यत् कार्मुकमादाय शल्यं शरशतैस्त्रिभिः
अविध्यत् कार्मुकं चास्य क्षुरग्रेण न्यकृन्तत
अथास्य निजघानाश्वांश् चतुरो नतपर्वभिः
द्वाभ्यामथ शिताग्राभ्याम् उभौ वै पार्ष्णिसारथी
ततोऽस्य दीप्यमानेन पीतेन निशितेन च
प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम्
ततः प्रभग्नं तत् सैन्यं धार्तराष्ट्रमरिन्दम
ततो मद्राधिपं द्रौणिर् अभ्यधावत् तथा कृतम्
आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे
मुहूर्तमिव तान् हत्वा नर्दमाने युधिष्ठिरे
स्थित्वा ततो मद्रपतिर् अन्यं स्यन्दनमास्थितः
विधिवत् कल्पितं शुभ्रं महाम्बुदनिनादिनम्
न्यस्तयन्त्रोपकरणं द्विषतां रोमहर्षणम्
सुकूबरं सुचक्राक्षं विधेयाश्वं सुसारथिम्
अथान्यद्धनुरादाय बलवद्वेगवत्तरम्
युधिष्ठिरं मद्रपतिर् विद्ध्वा सिंह इवानदत्
ततस्स शरवर्षेण पर्जन्य इव वृष्टिमान्
अभ्यवर्षदमेयात्मा क्षत्रियान् क्षत्रियर्षभः
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिश्शरैः
सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत्
तांस्तानन्यान् महेष्वासान् साश्वान् सरथकुञ्जरान्
अर्दयामास विशिखैर् मद्रराजः प्रतापवान्
कुञ्जरान् कुञ्जरारोहान् अश्वानश्वप्रधाविनः
रथांश्च रथिभिस्सार्धं जघान रथिनां वरः
बाहूंश्च चिच्छेद तदा सायुधान् केतनानि च
चकार च महीं योधैस् तीर्णां वेदीं कुशैरिव
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम्
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः