सञ्जयः-
दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः
चक्रतुस्सुमहद्युद्धं शरशक्तिसमाकुलम्
ततो राजन् समापेतश् शरधारास्सहस्रशः
अम्बुदानां यथा काले जलधारास्समन्ततः
राजा तु पार्षतं विद्ध्वा शरैस्सन्नतपर्वभिः
द्रोणहन्तारमुग्रैस्तु पुनर्विव्याध सप्तभिः
धृष्टद्युम्नस्तु समरे बलवान् दृढविक्रमः
सप्तत्या विशिखानां वै दुर्योधनमपीडयत्
पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ
महत्या सेनया सार्धं परिवव्रुक्ष पार्षतम्
स तैः परिवृतश्शूरैस् सर्वतोऽतिरथैर्भृशम्
व्यचरत् समरे राजन् दर्शयन् हस्तलाघवम्
शिखण्डी कृतवर्माणं गौतमं च महारथम्
प्रभद्रकैस्समायुक्तो योधयामास धन्विनौ
तत्रासीत् सुमहद्युद्धं घोररूपं विशां पते
प्राणान् सन्त्यजतोर्युद्धे प्राणद्यूताभिदेविनोः
शल्यस्तु शरवर्षाणि विमुञ्चन् सर्वतो दिशम्
पाण्डवान् पीडयामास ससात्यकिवृकोदरान्
तथोमौ च यमौ युद्धे यमतुल्यपराक्रमौ
योधयामास समरे वीर्येणास्त्रबलेन च
शल्यसायकभिन्नानां पाण्डवानां महामृधे
त्रातारं नाध्यगच्छन्त तत्र केचिन्महारथाः
ततस्तु नकुलश्शूरो धर्मराजे प्रपीडिते
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः
सञ्छाद्य समरे शल्यं नकुलः परवीरहा
विव्याध चैनं दशभिस् स्मयमानस्स्तनान्तरे
सर्वपारशवैर्बाणैः कर्मारपरिमार्जितैः
सुवर्णपुङ्खैर्विशिखैर् धनुर्यन्त्रप्रचोदितैः
शल्यस्तु पीडितस्तेन स्वस्रीयेण तु मातुलः
नकुलं पीडयामास शरैस्सन्नतपर्वभिः
ततो युधिष्ठिरो राजा भीमसेनश्च सात्यकिः
सहदेवश्च माद्रेणो मद्रराजमुपाद्रवन्
तानापतत एवाशु पूरयाणान् रथस्वनैः
दिशश्च विदिशश्चैव कम्पयानांश्च मेदिनीम्
प्रतिजग्राह समरे सेनापतिरमित्रजित्
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च पञ्चभिः
सात्यकिं च शतेनाजौ सहदेवं त्रिभिश्शरैः
ततस्तु सशरं चापं नकुलस्य महात्मनः
मद्रेश्वरः क्षुरप्रेण मध्ये चिच्छेद मारिष
तदपास्य धनुश्छिन्नं ततश्शल्यस्य सायकैः
अथान्यद्धनुरादाय माद्रीपुत्रो महाबलः
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः
युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष
दशभिर्दशभिर्भल्लैस् तदा तूर्णमविध्यताम्
भीमसेनस्तथा षष्ट्या सात्यकिर्नवभिश्शरैः
मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः
मद्रराजस्ततः क्रुद्धस् सात्यकिं दशभिश्शरैः
विव्याध भूयस्सप्तत्या शराणां नतपर्वणाम्
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष
हयांश्च चतुरस्सङ्ख्ये प्रेषयामास मृत्यवे
विरथं सात्यकिं कृत्वा मद्रराजो महाबलः
विशिखानां शतेनैनम् आजघान समन्ततः
माद्रीपुत्रौ च संरब्धो भीमसेनं च पाण्डवम्
युधिष्ठिरं च कौरव्य विव्याध निशितैश्शरैः
तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम्
यदेनं सहिताः पार्थान् अभ्यवर्तन्त संयुगे
अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः
पीडितान् पाण्डवान् दृष्ट्वा मद्रराजवशं गतान्
अभिदुद्राव वेगेन मद्राणामधिपं बली
आपतन्तं रथं तस्य शल्यस्समितिशोभनः
प्रत्युद्ययौ रथेनैनं मत्तो मत्तमिव द्विपम्
स सन्निपातस्तुमुलो बभूवाद्भुतदर्शनः
सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च
यादृशो वै पुरा वृत्तश् शम्बरामरराजयोः
सात्यकिः प्रेक्ष्य समरे मद्रराजमवस्थितम्
विव्याध दशभिर्बाणैस् तिष्ठ तिष्ठेति चाब्रवीत्
मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना
सात्यकिं प्रतिविव्याध विंशत्या निशितैश्शरैः
ततः पार्था महेष्वासास् सात्वताभिमुखं नृपम्
अभ्यवर्तन् रथैस्तूर्णं मातुलं वधकाम्यया
तत आसीत् परामर्दस् तुमुलश्शोणितोदकः
शूराणां युध्यमानानां सिंहानामिव गर्जताम्
तेषामासीन्महाराज व्यतिक्षेपः परस्परम्
सिंहानामामिषेप्सूनां गर्जतामिव संयुगे
ततो बाणसहस्रौघैर् आकीर्णा वसुधाऽभवत्
अन्तरिक्षं च सहसा बाणभूतमभूत् तदा
शरान्धकारे महति कृते तत्र समन्ततः
अभ्रच्छायेव सञ्जज्ञे शरैः पूर्णैर्महात्मभिः
तत्र राजन् शरैर्मुक्तैर् निर्मुक्तैरिव पन्नगैः
रुक्मपुङ्खैः प्रकाशद्भिर् व्यराजन्त दिशस्तदा
तत्राद्भुतं परं चक्रे शल्यश्शत्रुनिबर्हणः
तत्र शल्यरथं घोरं विचरन्तं महाहवे
यदेकस्समरे शूरोऽयोधयद्वै तथा बहून्
अपश्याम यथापूर्वं शक्रस्यासुरसङ्क्षये
मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः
सम्पतद्भिश्शरैर्घोरैर् अवाकीर्यत मेदिनी