सञ्जयः-
अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः
तस्य चानुचरैश्शूरैस् त्रिगर्तानां महारथैः
द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः
तथेतरान् महेष्वासान् द्वाभ्यां द्वाभ्यां समाच्छिनत्
भूयश्चैतान् महाबाहुस् शरवर्षैरवाकिरत्
शरकण्टकिनस्ते तु तावका भरतर्षभ
न जहुस्समरे पार्थं वध्यमानाश्शिलीमुखैः
अर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः
अयोधयन्त समरे परिवार्य महारथम्
तैस्तु क्षिप्ताश्शरा राजन् कार्तस्वरविभूषिताः
अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम्
शरैर्वीक्ष्य वितुन्नाङ्गौ प्रहृष्टो युद्धदुर्मदौ
कूबरं रथचक्राणि ईषान् योक्त्राणि चाभि भो
युगं चैवानुकर्षं च शरभूतमभूत् तदा
न तादृशं दृष्टपूर्वं राजन् नैव च मे श्रुतम्
यादृशं तस्य पार्थस्य तावकास्सम्प्रचक्रिरे
स रथस्सर्वतो भाति रुक्मपुङ्खैश्शिलाशितैः
उल्काशतैस्सम्प्रदीप्तं विमानमिव भूतले
ततोऽर्जुनो महाराज शरैस्सन्नतपर्वभिः
अवाकिरत्तां पृतनां मेघो वृष्ट्या यथाऽचलम्
ते वध्यमानास्समरे पार्थनामाङ्कितैश्शरैः
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम्
कोपोद्धूतशरज्वालो धनुश्शब्दानिलो महान्
सेनेन्धनं ददाहाशु तावकं पार्थपावकः
चक्राणां पततां चैव युगानां च धरातले
तूणीराणां पताकानां ध्वजानां च रथैस्सह
ईषाणामनुकर्षाणां विवेणूनां च भारत
अक्षाणामथ योक्त्राणां प्रतोदानां च राशयः
शिरसां पततां चैव कुण्डलोष्णीषधारिणाम्
भुजानां च महाभाग सुस्कन्धानां समन्ततः
छत्राणां व्यजनैस्सार्धं मकुटानां च राशयः
समदृश्यन्त पार्थस्य रथमार्गेषु सर्वशः
ततः क्रुद्धस्य पार्थस्य रथमार्गे विशां पते
अगम्यरूपा पृथिवी मांसशोणितकर्दमा
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा
भीरूणां त्रासजननी शूराणां हर्षवर्धनी
हत्वा तु समरे पार्थस् सहस्रे द्वे परन्तपः
रथानां सवरूथानं विधूमोऽग्निरिव ज्वलन्
यथा हि भगवानग् वह्निर् जगद्दग्ध्वा चराचरम्
विधूमो दृश्यते राजन् वलमानस्तथाऽर्जुनः
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम्
रथेनातिपताकेन पाण्डवं पर्यवारयत्
तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ
समीयतुस्तदा तूर्णं परस्परवधैषिणौ
तयोरासीन्महाराज बाणवर्षं सुदारुणम्
जीमूतयोर्यथा वृष्टिस् तपान्ते भरतर्षभ
अन्योन्यस्पर्धिनौ तौ तु शरैस्सन्नतपर्वभिः
ततक्षतुर्मृधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव
तयोर्युद्धं महाराज चिरं सममिवाभवत्
अस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत् पुनः
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खै्स्सुतेजनैः
वासुदेवं च दशभिर् द्रौणिर्विव्याध भारत
ततः प्रहस्य बीभत्सुर् विक्षिपन् गाण्डिवं धनुः
मानयित्वा मुहूर्तं तु गुरुपुत्रं महारथम्
व्यश्वसूतरथं चक्रे सव्यसाची महाहवे
मृदुपूर्वं ततश्चैनं त्रिभिर्विव्याध सायकैः
हताश्वे तु रथे तिष्ठन् द्रोणपुत्रोऽव्यविस्मयन्
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम्
तमापतन्तं सहसा हेमपट्टविभूषितम्
चिच्छेद सप्तधा वीरः पार्थश्शत्रुनिबर्हणः
सञ्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः
आददे परिघं घोरं नगेन्द्रशिखरोपमम्
चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः
तमन्तकमिव क्रुद्दं परिघं प्रेक्ष्य पाण्डवः
अर्जुनस्त्वरितो जघ्ने पञ्चभिस्सायकोत्तमैः
स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे
दारयन् पृथिवीन्द्राणां मनश्शब्देन भारत
ततोऽपरैस्त्रिभिर्बाणैर् द्रौणिं विव्याध पाण्डवः
सोऽतिविद्धो बलवता पार्थेन सुमहाबलः
न मुमोह तदा द्रौणिः पौरुषे स्वे व्यवस्थितः
सुरथं च महाराज भारद्वाजो महारथः
अवाकिरच्छरशतैस् सर्वक्षत्रस्य पश्यतः
ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः
रथेन मेघघोषेण द्रौणिमेवाभ्यधावत
विकर्षन्वै धनुश्श्रेष्ठं सर्वभारसहं दृढम्
ज्वलदाशीविषसभैश् शरैश्चैनमवाकिरत्
सुरथं तं ततः क्रुद्धम् आपतन्तं महारथम्
चुकोप समरे द्रौणिर् दण्डाहत इवोरगः
त्रिशिखां भ्रुकुटीं कृत्वा सृक्विणी परिलेलिहन्
उद्वीक्ष्य सुरथं रोषाद् धनुर्ज्यामवमृज्य च
मुमोच तीक्ष्णं नाराचं यमदण्डसमप्रभम्
स तस्य हृदयं भित्त्वा प्रविवेशातिवेगितः
शक्राशनिरिवोत्सृष्टो विदार्य धरणीतलम्
ततस्तं निहतं दृष्ट्वा नाराचेन समाहतम्
वज्रेणेव महाशृङ्गं पर्वतस्य महावने
तस्मिंस्तु निहते शूरे द्रोणपुत्रः प्रतापवान्
आरुरोह रथं तूर्णं तमेव रथिनां वरः
ततस्सद्यो महाराज द्रौणिराहवदुर्मदः
अर्जुनं योधयामास संशप्तकवृतो रणे
तत्र युद्धं महच्चासीद् अर्जुनस्य परैस्सह
विमर्दश्च महानासीद् एकस्य बहुभिस्सह
मध्यन्दिनगते सूर्ये यमराष्ट्रविवर्धनम्
शतक्रतोर्यथा पूर्वं महत्या दैत्यसेनया
तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम्
यदेको युगपद्वीरान् समयोघयदर्जुनः