सञ्जयः-
पीडिते धर्मराजे तु मद्रराजेन मारिष
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च दुर्जयौ
परिवार्य रथैश्शल्यं पीडयामासुराहवे
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः
साधुवादो महाञ्जज्ञे सिद्धाश्चासन् प्रहर्षिताः
आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया
मद्रेश्वरमवाकीर्य सिंहनादमथानदत्
नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिः
विद्ध्वा तत्र ततस्तूर्णं पुनर्विव्याध सप्तभिः
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः
विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम्
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष
भीमसेनं त्रिसप्तत्या नकुलं पञ्चभिस्तथा
सम्यक् सविशिखं चापं सहदेवस्य धन्विनः
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः
सहदेवस्तु समरे मातुलं भूरिवर्चसम्
सज्जमन्यद्धनुः कृत्वा पञ्चभिस्समताडयत्
शरैराशीविषाकारैर् अर्कज्वलनसन्निभैः
विव्याध भृशसङ्क्रुद्धस् तं च भूयस्त्रिभिश्शरैः
भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिश्शरैः
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समार्पयत्
ततश्शल्यो महाराज निर्विद्धस्तैर्महारथैः
सुस्राव रुधिरं गात्रैर् गैरिकं पर्वतो यथा
तांश्च सर्वान् महेष्वासान् पञ्चभिः पञ्चभिश्शरैः
विव्याध तरसा राजंस् तदद्भुतमिवाभवत्
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष
चिच्छेद समरे सज्ज्यं धनुस्तस्य महात्मनः
अथान्यद्धनुरादाय धर्मपुत्रो महारथः
साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः
प्रच्छाद्यमानस्समरे धर्मपुत्रस्य सायकैः
युधिष्ठिरमथाविध्यद् दशभिर्निशितैश्शरैः
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते
मद्राणामधिपं शूरं शरैर्विव्याध पञ्चभिः
स सात्यकेश्च चिच्छेद क्षुरप्रेण महद्धनुः
भीमसेनमुखांस्तांस्तान् त्रिभिस्त्रिभिरताडयत्
ततः क्रुद्धो महाराज सात्यकिस्सत्यविक्रमः
तोमरं प्रेषयामास स्वर्णदण्डं महारणे
भीमसेनश्शरं घोरं कार्तस्वरविभूषितम्
नकुलस्समरे शक्तिं सहदेवो गदां शुभाम्
धर्मराजश्शतघ्नीं तु जिघांसुश्शल्यमाहवे
तानापतत एवाशु पञ्चानां वै भुजच्युतान्
सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम्
वृकोदरेण प्रहितं शरं कनकभूषणम्
द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान्
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम्
गदां च सहदेवेन शरौघैस्समवारयत्
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत
पश्यतां पाण्डुपुत्राणां सिंहनादमनादयत्
नामृष्यत् तत्तु शैनेयश् शत्रोर्विजयलक्षणम्
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्च्छितः
द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिश्शरैः
ततश्शल्यो रणे राजन् सर्वांस्तान् दशभिश्शरैः
विव्याध सुभृशं क्रुद्धस् तोत्रैरिव महाद्विपान्
ते वार्यमाणास्समरे मद्रराजेन धीमता
न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम्
निहतान् पाण्डवान् मेने पाञ्चालांश्च ससृञ्जयान्
तथाविधं महाराज मद्रराजस्य विक्रमम्
असह्यं मानवैर्युद्धे तद्बभूव नरर्षभ
ततो राजन् महाबाहुर् भीमसेनः प्रतापवान्
सन्त्यज्य मनसा प्राणान् मद्रराजमयोधयत्
नकुलस्सहदेवश्च सात्यकिश्च महारथः
परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्छरैः
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः
वृतस्तान् योधयामास मद्रराजः प्रतापवान्
तस्य धर्मसुतो राजन् क्षुरप्रेण महाहवे
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिवः
तस्मिंस्तु निहते वीरे चक्ररक्षे महाबले
मद्रराजोऽपिबलवान् सैनिकानावृणोच्छरैः
समाच्छन्नांस्ततस्तांस्तु राजन् वीक्ष्य स्वसैनिकान्
चिन्तयामास समरे धर्मपुत्रो युधिष्ठिरः
युधिष्ठिरः-
कथं नु न भवेत् सत्यं माधवस्य वचो महत्
अभिक्रुद्धो महाराज क्षपयेत बलं मम
अहं मद्भ्रातरश्चैव सात्यकिश्च महारथः
पाञ्चालास्सृञ्जयाश्चैव न शक्तास्स्म हि मद्रपम्
निहनिष्यति चैवाद्य मातुलोऽस्मान् महाबलः
गोविन्दवचनं सत्यं कथं भवति किन्त्विदम्
सञ्जयः-
ततस्सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज
मद्रेश्वरं समासेदुः पीडयन्तस्समन्ततः
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम्
व्यधमत् समरे राजन् महाभ्राणीव मारुतः
ततः कनकपुङ्खान्तां शल्यक्षिप्तां वियद्गताम्
शरवृष्टिमपश्याम शलभानामिवायतिम्
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि
सम्पतन्तस्स्म दृश्यन्ते शलभानां व्रजा इव
मद्रराजधनुर्मुक्तैश् शरैः कनकभूषणैः
निरन्तरमिवाकाशं सम्बभूव जनाधिप
न पाण्डवानां नास्माकं तत्र किञ्चिद्व्यदृश्यत
बाणान्धकारे महति कृते तत्र महाहवे
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः
लोड्यमानं तदा दृष्ट्वा पाण्डवानां बलार्णवम्
विस्मयं परमं जग्मुर् देवगन्धर्वदानवाः
स तु तान् सर्वतो यत्ताञ् छरैस्सम्पीड्य मारिष
धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः
ते च्छन्नास्समरे तेन पाण्डवानां महारथाः
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः
न शेकुस्ते तदा युद्धे प्रत्युद्यातुं महारथाः
निजघ्नुस्समरे शूरं शल्यमाहवशोभिनम्