सञ्जयः-
पतितं प्रेक्ष्य यन्तारं शल्यश्शैक्यायसीं गदाम्
आदाय तरसा राजंस् तस्थौ गिरिरिवाचलः
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम्
सशृङ्गमिव कैलासं सवज्रमिव वासवम्
सशूलमिव हि त्र्यक्षं सचक्रमिव चक्रिणम्
सशक्तिमिव सेनान्यं वने मत्तमिव द्विपम्
जवेनाभ्यपतद्भीमं प्रगृह्य महतीं गदाम्
ततश्शङ्खप्रणादश्च तूर्याणां च सहस्रशः
सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः
प्रैक्षन्ते सर्वतस्ते हि योधा मत्ताविव द्विपौ
तावकाश्च परे चैव साधु साध्वित्यपूजयन्
न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात्
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे
तथा मद्राधिपस्यापि गदावेगं महात्मनः
सोढुमुत्सहते नान्यः पुमान् युधि वृकोदरात्
गोवृषाविव नर्दन्तौ मण्डलानि विचेरतुः
आवल्गन्तौ गदाहस्तौ मद्रराजवृकोदरौ
मण्डलावर्तमार्गेषु गदाविहरणेषु च
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः
तप्तहेममयैश्शुभ्रैर् बभूव भयवर्धिनी
अग्निज्वालैरिवाविद्धा पट्टैश्शल्यस्य सा गदा
तथैव चरतो मार्गान् मण्डलेषु महात्मनः
विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा
ताडिता मद्रराजस्य भीमस्य गदया गदा
दीप्यमानेव खे राजन् ससृजे पावकार्चिषः
तथा भीमेन शल्यस्य ताडिता गदया गदा
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत्
दन्तैरिव महानागौ शृङ्गैरिव महावृषौ
तौ विरेजतुरन्योन्यं गदाभ्यां सुपरिक्षतौ
तौ गदाभिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ
प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ
गदया मद्रराजेन सव्यं दक्षिणमाहतः
भीमसेनो महाबाहुर् न चचालाचलो यथा
तथा भीमगदावेगैस् ताड्यमानो मुहुर्मुहुः
शल्यो न विव्यधे धीमान् दन्तिनेव हतो गिरिः
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः
गदानिपातसंह्रादो वज्रयोरिव निस्वनः
निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः
तदाऽभ्येत्य पदान्यष्टौ सन्निपातोऽभवत् तयोः
उद्यम्य बाहुदण्डाभ्याम् अतिमानुषकर्मणोः
प्रार्थयानौ तदाऽन्योन्यं मण्डलानि विचेरतुः
क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा
अभ्युद्यतगदौ वीरौ सशृङ्गाविव पर्वतौ
तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ
तौ परस्परसंवेगाद् गदाभ्यां च भृशाहतौ
युगपत् पेततुर्वीरावुभाविन्द्रबली इव
उभयोस्सेनयोश्शब्दस् तदा हाहाकृतोऽभवत्
भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ
ततस्स्वरथमारोप्य मद्राणामधिपं रणे
अपोवाह कृपश्शल्यं तूर्णमायोधनाद्बहिः
क्षीबवद्विह्वलो राजन् निमेषात् पुनरुत्थितः
भीमसेनो गदापाणिस् समाह्वयत मद्रपम्
ततस्तु तावकाश्शूरा नानादेशसमागताः
नानावादित्रशब्देन पाण्डुसैन्यमयोधयन्
भुजावुद्धृत्य शस्त्रं च शब्देन महता वृताः
अभ्यद्रवन् महाराज दुर्योधनपुरोगमाः
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः
आययुस्सिंहनादेन दुर्योधनवधेप्सया
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ
प्रासेन चेकितानं वै विव्याध हृदये भृशम्
स पपात रथोपस्थात् तव पुत्रेण ताडितः
रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः
चेकितानं हतं दृष्ट्वा पाण्डवेया महारथाः
असक्तमभ्यवर्षन्त शरवर्षाणि भागशः
तावकानामनीकेषु पाण्डवा जितकाशिनः
व्यचरन्त महाराज प्रेक्षणीयास्समन्ततः
कृपश्च कृतवर्मा च सौबलश्च महाबलः
अयोधयन् धर्मराजं मद्रराजपुरस्कृताः
भारद्वाजस्य हन्तारं भूरिवीर्यसमन्वितम्
दुर्योधनो महाराज धृष्टद्युम्नमयोधयत्
त्रिसहस्रारथा राजंस् तव पुत्रेण चोदिताः
अयोधयन्त विजयं त्रिगर्तानां महारथाः
विजये धृतसङ्कल्पास् समभित्यक्तजीविताः
प्राविशंस्तावका राजन् हंसा इव महत् सरः
ततो युद्धमभूद्धोरं परस्परवधैषिणाम्
अन्योन्यस्तवसंयुक्तम् अन्योन्यप्रीतिवर्धनम्
तस्मिन् प्रवृत्ते सङ्ग्रामे राजन् वीरवरक्षये
अनिलेनेरितं घोरम् उत्तस्थौ पार्थिवं रजः
श्रवणान्नामधेयानां पार्थिवानां च कीर्तनात्
परान् वयं विजानीमो ये वाऽयुध्यन्नभीतवत्
तद्रजः पुरुषव्याघ्र शोणितेन प्रणाशितम्
दिशश्च विमला जातास् तस्मिन् रजसि नाशिते
ततः प्रवृत्ते सङ्ग्रामे घोररूपे समन्ततः
तावकानां परेषां च नासीत् कश्चित् पराङ्मुखः
ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि
सुयुद्धेन पराक्रान्ता नरास्स्वर्गमभीप्सवः
भर्तृपिण्डविमोक्षार्थं मित्रकार्ये च विष्ठिताः
स्वर्गे संयुक्तमनसो योधा युयुधिरे तदा
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम्
योधाः-
सञ्जयः-
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत
इति स्म वाचोऽश्रूयन्ते तव तेषां च वै बले
ततश्शल्यो महाराज धर्मराजं युधिष्ठिरम्
विव्याध निशितैर्बाणैर् हन्तुकामो महारथः
तस्य पार्थो महाराज नाराचान् वै चतुर्दश
मर्माण्युद्दिश्य मर्मज्ञो निचघान हसन्निव
संवार्य पाण्डवं बाणैर् हन्तुकामो महायशाः
विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः
अथ मद्रो महाराज शरेणा नतपर्वणा
युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः
धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महारथम्
जघान निशितैर्बाणैः कङ्कबर्हिणवाजितैः
चन्द्रसेनं च सप्तत्या सूतं च नवभिश्शरैः
द्युमत्सेनं चतुष्षष्ट्या निजघान महाबलः
चक्ररक्षे हते शल्यः पाण्डवेन महात्मना
निजघान महाराज चेदीन् वै पञ्चविंशतिम्
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः
माद्रीपुत्रौ च विंशत्या विव्याध निशितैश्शरैः
एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम
सम्प्रैषयच्छितान् पार्थश् शरानाशीविषोपमान्
ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः
प्रमुखे युध्यमानस्य भल्लेनापाहरद्रथात्
पाण्डुपुत्रेण वै तस्य केतुश्छिन्नो महात्मना
निपतन्तमपश्याम गिरेश्शृङ्गमिवाहतम्
ध्वजं निपतितं दृष्ट्वा पाण्डवं चाप्यवस्थितम्
सङ्क्रुद्धो मद्रराजोऽभूच् छरवर्षं मुमोच ह
शल्यस्सायकवर्षेण पर्जन्य इव वृष्टिमान्
अभ्यवर्षदमेयात्मा क्षत्रियं क्षत्रियर्षभः
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ
एकैकं दशभिर्विद्ध्वा युधिष्ठिरमपीडयत्
ततो बाणमयं जालं विसृष्ठं पाण्डवोरसि
अपश्याम महाराज मेघजालमिवोत्थितम्
तस्य शल्यो रणे क्रुद्धः बाणैस्सन्नतपर्वभिः
दिशः प्रच्छादयामास प्रदिशश्च महारथः
ततो युधिष्ठिरो राजा बाणवर्षेण पीडितः
बभूव भृशविक्रान्तो जम्भो वज्रभृता यथा