सञ्जयः-
तस्मिन् विलुलिते सैन्ये वध्यमाने परस्परम्
द्रवमाणेषु सैन्येषु विद्रवत्सु च दन्तिषु
कूजतां स्तनतां चैव पदातीनां महाहवे
विद्रुतेषु महाराज हयेषु बहुधा तदा
सङ्क्षये दारुणे जाते सङ्गरे सर्वदेहिनाम्
नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे
हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने
गाहमानेषु योधेषु परस्परवधैषिषु
प्राणादाने महाघोरे वर्तमाने दुरोदरे
सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने
पाण्डवास्तावकं सैन्यं व्यधमन् निशितैश्शरैः
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान्
तस्मिंस्तथा वर्तमाने युद्धे भीरुभयङ्करे
पूर्वाह्णे चापि सम्प्राप्ते भास्करोदयनं प्रति
लब्धलक्षाः परे राजन् रक्षिताश्च महात्मभिः
अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम्
बलिभिः पाण्डवैर्दृप्तैर् लब्धलक्षैः प्रहारिभिः
कौरव्यसीदत्पृतना गौरीवाग्निसमाकुला
तां दृष्ट्वा सीदतीं सेनां पङ्कगामिव दुर्बलाम्
उज्जिहीर्षुस्तदा शल्यः प्रदुद्राव चमूपतिः
मद्रराजस्तु सङ्क्रुद्धो गृहीत्वा धनुरुत्तमम्
अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः
पाण्डवाश्च महाराज समरे जितकाशिनः
मद्रराजं समासाद्य विव्यधुर्निशितैश्शरैः
ततश्शरशतैस्तीक्ष्णैर् मद्रराजो महारथः
अर्दयामास तां सेनां धर्मराजस्य पश्यतः
प्रादुरासन् निमित्तानि घोररूपाण्यनेकशः
चचाल शब्दं कुर्वाणा मही चापि सपर्वता
सदण्डशूला दीप्ताग्राश् शीर्यमाणास्समन्ततः
उल्का भूमौ दिवः पेतुर् आहत्य रविमण्डलम्
मृगाश्च महिषाश्चैव पक्षिणश्च विशां पते
अपसव्यं तदा चक्रुस् सेनां ते बहुशो नृप
ततस्तु युद्धमत्युग्रम् अभवत् सङ्घचारिणाम्
तथा सर्वाण्यनीकानि सन्निपत्य जनाधिप
अभ्ययुः कौरवो राजन् पाण्डवानामनीकिनीम्
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक्
अभ्यवर्षददीनात्मा कुन्तीपुत्रं युधिष्ठिरम्
भीमसेनं शरैश्चापि रुक्मपुङ्खैश्शिलाशितैः
द्रौपदेयांस्ततस्सर्वान् माद्रीपुत्रौ च पाण्डवौ
धृष्टद्युम्नं स शैनेयं शिखण्डिनमथाहवे
एकैकं दशभिर्बाणैर् विव्याध च महाबलः
ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव
ततः प्रभद्रका राजन् सोमकाश्च सहस्रशः
पतिताः पात्यमानाश्च दृश्यन्ते तस्य सायकैः
भ्रमराणामिव व्राताश् शलभानामिव व्रजाः
ह्रादिन्य इव मेघेभ्यश् शल्यस्य न्यपतञ् शराः
द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा
शल्यस्य बाणैर्न्यपतन् बभ्रमुर्व्यनदंस्तथा
आविष्ट इव मद्रेशो मन्युना पौरुषेण च
प्रोत्सादयदरीन् सङ्ख्ये कालसृष्ट इवान्तकः
विनर्दमानो मद्रेशो मेघह्रादो महाबलः
सा वध्यमाना शल्येन पाण्डवानामनीकिनी
अजातशत्रुं कौन्तेयम् अभ्यधावद्युधिष्ठिरम्
तां समर्प्य ततस्सङ्ख्ये लघुहस्तश्शितैश्शरैः
शरवर्षेण महता युधिष्ठिरमपीडयत्
तमापतन्तं जात्यश्वैः क्रुद्धो राजा युधिष्ठिरः
अवारयच्छरैस्तीक्ष्णैर् मत्ताद्विपमिवाङ्कुशैः
तस्य शल्यश्शरं घोरं मुमोचाशीविषोपमम्
सोऽतिविद्धो महात्मा वै वेगेनाभ्यपतच्च गाम्
ततो वृकोदरः क्रुद्धश् शल्यं विव्याध सप्तभिः
पञ्चभिस्सहदेवस्तु नकुलो दशभिश्शरैः
द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः
अभ्यवर्षन् महामेघा महीधरमिवोन्नतम्
ततो दृष्ट्वा विनर्दन्तं शल्यं पार्थैस्समन्ततः
कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम्
उलूकश्चापि कौरव्यश् शकुनिश्चापि सौबलः
स्मयमानश्च शनकैर् अश्वत्थामा महाबलः
तव पुत्राश्च सबला जुगुपुश्शल्यमाहवे
भीमसेनं त्रिभिर्विद्ध्वा कृतवर्मा शिलीमुखैः
बाणवर्षेण महता क्रुद्धरूपमवारयत्
धृष्टद्युम्नं कृपः क्रुद्धो बाणवर्षैरवर्षयत्
द्रौपदेयांश्च शकुनिर् यमौ च द्रौणिरभ्ययात्
दुर्योधनो युधां श्रेष्ठो ह्याहवे केशवार्जुनौ
समभ्ययादुग्रतेजाश् शरैश्चाभ्यहनद्युधि
एवं द्वन्द्वशतान्यासंस् त्वदीयानां परैस्सह
घोररूपाणि चित्राणि तत्र तत्र विशां पते
ऋश्यवर्णाञ् जघानाश्वान् भोजो भीमस्य संयुगे
सोऽवतीर्य रथोपस्थाद्धताश्वः पाण्डुनन्दनः
कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत
प्रमुखे सहदेवस्य जघानाश्वांस्तु मद्रराट्
ततश्शल्यस्य तनयं सहदेवोऽसिनाऽवधीत्
गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत्
असम्भ्रान्तो ह्यसम्भ्रान्तं यत्नवान् यत्नवत्तरम्
द्रौपदेयांस्तथा वीरान् एकैकं दशभिश्शरैः
अविध्यदाचार्यसुतो नातिक्रुद्धस्स्मयन्निव
शल्योऽपि राजन् सङ्क्रुद्धो निघ्नन् पाण्डवसोमकान्
पुनरेव शितैर्बाणैर् युधिष्ठिरमपीडयत्
तस्य भीमो रणे क्रुद्धस् सन्दष्टदशनच्छदः
विनाशायाभिसन्धाय गदामादत्त वीर्यवान्
यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम्
गजवाजिमनुष्याणां प्राणान्तकरणीमति
हेमपट्टपरिक्षिप्ताम् उल्कामापतितामिव
शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयस्मयीम्
चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव
वसामेदोऽसृगादिग्धां जिह्वां वैवस्वतीमिव
बद्धघण्टारवयुतां वासवीमशनीमिव
निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि
त्रासनीं परसैन्यानां स्वसैन्यपरिहर्षिणीम्
मनुष्यलोके विख्यातां गिरिशृङ्गविदारणीम्
यया कैलासशिस्वरे महेश्वरसखं बली
आह्वयामास कौन्तेयश् सङ्क्रुद्धमलकाधिपम्
यया मायाविनो दृप्तान् सुबहून् धनदालये
जघान गुह्यकान् क्रुद्धः कल्हारार्थे महाबलः
निवार्यमाणो बहुभिर् द्रौपद्याः प्रियमास्थितः
तां वज्रमणिरत्नाङ्काम् अष्टाश्रां वज्रगौरवाम्
समुद्यम्य महाबाहुश् शल्यमभ्यद्रवद्रणे
गदया युद्धकुशलस् तया दारुणनादया
पोथयामास शल्यस्य चतुरोऽश्वान् महाजवान्
ततश्शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम्
चिक्षेप भीमसेनस्य सोऽस्रवच्छोणितं बहुः
तमेवादाय भीमस्तु ततः कोपसमन्वितः
यन्तारं मद्रराजस्य निर्बिभेद तदा हृदि
स भिन्नवर्मा रुधिरं वमन् वित्रस्तमानसः
पपाताभिमुखो वीरो मद्रराजस्त्वपाक्रमत्
कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः
गदामाश्रित्य धीरात्मा प्रत्यमित्रमुदैक्षत
ततस्सुमनसः पार्था भीमसेनमपूजयन्
तदृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः