सञ्जयः-
तत् प्रभग्नं बलं दृष्ट्वा तावका भरतर्षभ
मद्रराजं पुरस्कृत्य जग्मुर्युद्धाय भारत
मद्रराजो महाराज सारथिं वाक्यमब्रवीत्
शल्यः-
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता
तत्र मां प्रापय क्षिप्रं सारथे पश्य मे बलम्
न समर्थास्तु मे पार्थास् स्थातुमद्याग्रतो युधि
सञ्जयः-
एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः
यत्र राजा धर्मपुत्रस् सत्यसन्धो युधिष्ठिरः
आपतत्तच्च सहसा पाण्डवानां महद्बलम्
दधारैको रणे शल्यो वेलेवोद्वृत्तमर्णवम्
पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम्
मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम्
कुरवस्सन्न्यवर्तन्त मृत्युं कृत्वा निवर्तनम्
तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः
प्रावर्तत महारौद्रस् सङ्ग्रामश्शोणितोदकः
सङ्गातश्चित्रसेनेन नकुलो युद्धदुर्मदः
तौ परस्परमासाद्य चित्रकार्मुकयोधिनौ
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ
शरतोयैस्सिषिचतुस् तौ परस्परमाहवे
नान्तरं तत्र पश्यामः पाण्डवस्येतरस्य वा
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ
परस्परवधे यक्तौ छिद्रान्वेषणतत्परौ
चित्रसेनस्तु भल्लेन पीतेन निशितेन च
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः
अथैनं छिन्नधन्वानं रुक्मपुङ्खैश्शिलाशितैः
त्रिभिश्शरैरसम्भ्रान्तो ललाटे वै समर्पयत्
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत्
स शत्रुभुजनिर्मुक्तैर् ललाटस्थैस्त्रिभिश्शरैः
नकुलश्शुशुभे राजंस् त्रिशृङ्ग इव पर्वतः
सञ्छिन्नधन्वा विरथः खङ्गमादाय चर्म च
रथादवातरद्वीरश् शैलाग्रादिव केसरी
पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत्
नकुलोऽप्यग्रहीत् तां वै चर्मणा लघुविक्रमः
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः
आरुरोह महाबाहुस् सर्वसैन्यस्य पश्यतः
सकुण्डलं समकुटं सुनसं स्वायतेक्षणम्
चित्रसेनशिरः कायाद् अपाहरत पाण्डवः
स पपात रथोपस्थाद् दिवाकरसमप्रभः
चित्रसेनशिरस्तत् तु दृष्ट्वा तत्र महारथाः
सिंहनादस्वनांश्चक्रुस् साधुवादांश्च पुष्कलान्
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ
सुशर्मा सत्यसेनश्च मुञ्चन्तौ निशिताञ् शरान्
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम्
जिघांसन्तौ यथानागं व्याघ्रौ राजन् महावने
तावभ्यवर्षतां तीक्ष्णैर् द्वावप्येनं महारथौ
शरौघान् सम्यगस्यन्तौ जीमूतौ सलिलं यथा
स शरैस्सर्वतो विद्धः प्रहृष्ट इव पाण्डवः
अन्यत् कार्मुकमादाय रथमारुह्य वीर्यवान्
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः
तौ तस्य भ्रातरौ वीरौ शरैस्सन्नतपर्वभिः
रथं विशकलीकर्तुं समारब्थौ विशां पते
ततः प्रहस्य नकुलश् चतुर्भिश्चतुरो हयान्
जघान निशितैर्बाणैस् सत्यसेनस्य संयुगे
ततस्सन्धाय नारचं रुक्मपुङ्खं शिलाशितम्
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः
अथान्यं रथमास्थाय धनुरादाय चापरम्
सत्यसेनस्सुशर्मा च पाण्डवं पर्यधावताम्
अविध्यत् तावसम्भ्रान्तौ माद्रीपुत्रश्च वीर्यवान्
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि
सुशर्मा तु ततः क्रुद्धः पाण्डवस्य महद्धनुः
चिच्छेद प्रहसन् युद्धे क्षुरप्रेण महारथः
अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः
सुशर्माणं त्रिभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे
सत्यसेनस्य स धनुर् हस्तावापं च मारिष
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः
अथान्यद्धनुरादाय वेगघ्नं भारसाधनम्
शरैस्सञ्छादयामास समन्तात् पाण्डुनन्दनम्
सन्निवार्य तु तान् बाणान् नकुलः परवीरहा
सत्यसेनसुशर्माणौ द्वाभ्यां दाभ्यामविध्यत
तावेनं प्रत्यविध्येतां पृथक् पृथगजिह्मगैः
सारथिं चास्य राजेन्द्र शिरैर्विव्यधतुश्शितैः
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा
पृथक् शराभ्यां चिच्छेद कृतहस्तः प्रतापवान्
स रथेऽतिरथस्तिष्ठन् रथशक्तिं परामृशत्
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम्
लेलिहानां महाबाहो नागकन्यां महाविषाम्
समुद्यम्य प्रचिक्षेप सत्यसेनस्य संयुगे
सा तस्य हृदयं सङ्ख्ये विभेद शतधा नृप
स पपात रथाद्भूमिं गतसत्त्वोऽल्पचेतनः
भ्रातरं निहतं दृष्ट्वा सुशर्मा क्रोधमूर्च्छितः
अभ्यवर्षच्छरैस्तूर्णं पादातिं पाण्डुनन्दनम्
नकुलं विरथं दृष्ट्वा द्रौपदेयो महारथः
सुतसोमोऽभिदुद्राव परीप्सन् पितरं रणे
ततोऽधिरुह्य नकुलस् सुतसोमस्य तं रथम्
शुशुभे भरतश्रेष्ठो गिरिस्य इव केसरी
सोऽन्यत् कार्मुकमादाय सुशर्माणमयोधयत्
तावुभौ शरवर्षाभ्यां समासाद्य परस्परम्
परस्परवधे यत्नं चक्रतुस्सुमहारथौ
सुशर्मा तु सुसङ्क्रुद्धः पाण्डवं विशिखैस्त्रिभिः
सुतसोमं च विंशत्या वाह्वोरुरसि चार्पयत्
ततः क्रुद्धो महाराज नकुलः परवीरहा
शरैस्तस्य दिशस्सर्वाश् छादयामास वीर्यवान्
ततो गृहीत्वा तीक्ष्णाग्रम् अर्धचन्द्रं सुतेजनम्
सवेगयुक्तं चिक्षेप कर्णपुत्राय संयुगे
तस्य तेन शिरः कायाज् जहार नृपसत्तम
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत्
स हतः प्रापतद्राजन् नकुलेन महात्मना
नदीवेगाद्यथा भग्नस् तीरजः पादपो महान्
कर्णपुत्रवचं दृष्ट्वा नकुलस्य च विक्रमम्
प्रदुद्राव भवात् सेना तावकी भरतर्षभ
तां तु सेनां महाराज्ञ मद्रराजः प्रतापवान्
अपालयद्रणे शूरस् सेनापतिररिन्दमः
विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम्
सिंहनादं भृशं कृत्वा धनुश्शब्दं च दारुणम्
तावकास्समरे राजन् रक्षिता दृढधन्वना
प्रत्युद्ययुररीन् सर्वान् समन्ताद्विगतव्यथाः
मद्रराजं महेष्वासं परिवार्य समन्ततः
स्थिता राजन् महासेना योद्धुकामा समन्ततः
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ
युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधमरिन्दमम्
परिवार्य महेष्वासास् सिंहनादं प्रचक्रिरे
बाणशङ्खरवांश्चोग्रान् क्ष्वेलांश्च विविधान् दधुः
तथैव तावकास्सर्वे मद्राधिपतिमञ्जसा
परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन्
ततः प्रववृते युद्धं भीरूणां भयवर्धनम्
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्
यथा दैवासुरं युद्धं पूर्वमासीद्विशां पते
अभीतानां तदा राजन् यमराष्ट्रविवर्धनम्
ततः कपिध्वजो राजन् हत्वा संशप्तकान् रणे
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः
तथैव पाण्डवाश्शेषाः धृष्टद्युम्नपुरोगमाः
अभ्यधावन्त तां सेनां विसृजन्तश्शिताञ् शरान्
पाण्डवैरवकीर्णानां सम्मोहस्समजायत
न विजानन्त्यनीकानि दिशो वा प्रदिशस्तथा
आपूर्यमाणानि शितैश् शरैः पाण्डवचोदितैः
हतप्रवीरा विध्वस्ता कीर्यमाणास्समन्ततः
कौरव्याऽवध्यत चमूः पाण्डुपुत्रैर्महारथैः
तथैव पाण्डवी सैना शरै राजन् समन्ततः
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः
ते सेने भृशसन्तप्ते वध्यमाने परस्परम्
व्याकुले समपद्येतां वर्षासु सरिताविव
आविवेश ततस्तीव्रं तावकानां महद्भयम्
पाण्डवानां च राजेन्द्र तथा भूते महाहवे