सञ्जयः-
ततः प्रववृते युद्धं घोररूपं भयानकम्
सृञ्जयैस्सह राजेन्द्र देवासुररणोपमम्
नराघाश्च गजौघाश्च वाजिनश्च सहस्रशः
सादिनश्च पराक्रान्तास् समाजग्मुः परस्परम्
नागानां भीमरूपाणां द्रवतां निस्स्वनो महान्
अश्रूयत यथा काले जलदानां नभस्थले
नागैरभ्याहताः केचित् सरथा रथिनो भृशम्
व्यद्रवन्त रणे भीता द्राव्यमाणा मदोत्कटैः
हयौघान् पादरक्षांश्च रथिनस्तत्र शिक्षिताः
शरैस्सम्प्रेषयामासुः परलोकाय भारत
सादिनश्शिक्षिता राजन् परिवार्य महारथान्
विचरन्तो रणे ह्यघ्नन् प्रासशक्त्यादिभिस्तदा
धन्विनः पुरुषाः केचित् सन्निवार्य महारथम्
एकं बहव आसाद्य प्रैषयन् वै यमक्षयम्
नागं रथगताश्चान्ये परिवार्य महारथाः
सोत्तरायुधिनं जघ्नुर् द्रवमाणा महारथाः
तथा वरुथिनः क्रुद्धा विकिरन्तश्शरान् बहून्
नागाञ् जघ्नुर्महाराज परिवार्य समन्ततः
नागा नागमभिद्रुत्य रथी च रथिनं रणे
शक्तितोमरनाराचैर् निर्जघ्ने तत्र तत्र ह
पादातानवमर्दन्तो रथवारणवाजिनः
रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम्
हयाश्च पर्यधावन्त चामरैरुपशोभिताः
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम्
तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशां पते
अशोभत यथा नारी करजैः क्षतविक्षता
वाजिनां खुरशब्देन रथनेमिस्वनेन च
पत्तीनां परशब्देन नागानां बृंहितेन च
वादित्राणां च घोषेण शङ्खानां निस्स्वनेन च
अभवन्नादिता भूमिर् निर्घातैरिव भारत
धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम्
कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन
बहवो बाहवश्छिन्ना नागराजकरोपमाः
उद्वेष्टन्ते विचेष्टन्ति वेगं कुर्वन्ति दारुणम्
शिरसां च महाराज पततां वसुधातले
च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः
शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा
तपनीयनिभैः काले नलिनैरिव भारत
उद्वृत्तनयनैस्तैस्तु गतसत्वैर्मही तदा
व्यभ्राजत महाराज पुण्डरीकैरिवावृता
बाहुभिश्चन्दनादिग्धैस् सकेयूरैर्महारधनैः
पतितैर्भाति राजेन्द्र मही शक्रध्वजैरिव
ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे
हस्तिहस्तोपमैरन्यैस् संवृतं तद्रणाङ्गणम्
कबन्धशतसङ्कीर्णं छत्रचामरशोभितम्
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा
तत्र योधा महाराज विचरन्तो ह्यभीतवत्
दृश्यन्ते रुधिरार्द्राङ्गाः पुष्पिता इव किंशुकाः
मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः
पतन्तस्तत्र तत्रैव श्वेताभ्रसदृशा रणे
गजानीकं महाराज वध्यमानं महारथैः
व्यकीर्यत दिशस्सर्वा वातनुन्ना धना इव
ते गजा गिरिसङ्काशाः पेतुरुर्व्यां समन्ततः
वज्रभुग्ना इव बभुः पर्वता युगपर्यये
हयानां सादिभिस्सार्धं पतितानां महीतले
राशयः प्रत्यदृश्यन्त गिरिमात्रास्ततस्ततः
सञ्जज्ञे रणभूमौ तु परलोकवहा नदी
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा
भुजनक्रा धनुस्स्रोता हस्तिशैला हयोरगा
मेदोमज्जाकर्दमिनी छत्रहंसोपशोभिता
कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा
चक्रवक्रावलीजुष्टा त्रिवेणूरगसंवृता
शूराणां हर्षजननी भीरूणां भयवर्धनी
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्कुले
तां नदीं पितृलोकाय वहन्तीमतिभैरवाम्
तेरुर्वाहननौभिस्ते शूराः परिघबाहवः
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते
चतुरङ्गक्षये घोरे युद्धे देवासुरोपमे
आक्रोशन् बान्धवांश्चान्ये भयार्तानां निवर्तने
निर्मर्यादे तथा युद्धे वर्तमाने भयानके
अर्जुनो भीमसेनश्च मोहयाञ्चक्रतुः परान्
सा वध्यमाना महती सेना तव जनाधिप
अमुह्यत् तत्र तत्रैव योषिन्मदवशादिव
मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ
दध्मतुर्वारिजौ तत्र सिंहनादं च नेदतुः
श्रुत्वैव च महाशब्दं धृष्टद्युम्नशिखण्डिनौ
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ
तत्राश्चर्यमपश्याम घोररूपं विशां पते
शल्येन सङ्गताश्शूरा यदयुध्यन्त भागशः
माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ
अभीतौ त्वरया युक्तौ जिगीषन्तौ बलं तव
ततोऽभ्यवर्तत बलं तावकं भरतर्षभ
ततश्शरप्रवद्धैश्च पाण्डवैर्जितकाशिभिः
वध्यमाना चमूस्सा तु पुत्राणां प्रेक्षतां तव
भेजे दश दिशो राजन् प्रणुन्ना दृढविक्रमैः
हाहाकारो महाञ्जज्ञे योधानां तव भारत
तिष्ठ तिष्ठेति वागासीद् द्रावितानां महात्मभिः
क्षत्रियाणां तथाऽन्योन्यं सङ्ग्रामे जयमिच्छताम्
आद्रवन्ते च भग्नास्ते पाण्डवैस्तव सैनिकाः
त्यक्त्वा युद्धे प्रियान् पुत्रान् भ्रातॄनपि पितामहान्
मातुलान् भागिनेयांश्च तथा सम्बन्धिबान्धवान्
हया द्विपाश्च रथिनो भिया जग्मुस्समन्ततः
आत्मत्राणकृतोत्साहास् तावका भरतर्षभ