सञ्जयः-
व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा
अब्रवीत् तावकान् सर्वान् सन्नह्यन्तां महारथाः
राज्ञस्तु मतमास्थाय समनह्यत सा चमूः
अचोदयंस्तदा तूर्णं पर्यधावंस्तथा परान्
अकल्प्यन्त च मातङ्गास् समनह्यन्त पत्तयः
हयानास्तरणोपेतांश् चक्रुरन्ये सहस्रशः
वादित्राणां च निनदः प्रादुरासीद्विशां पते
चोदनार्थं च सैन्यानां योधानां चाप्यनेकशः
ततो बलानि सर्वाणि हतशिष्टानि भारत
सन्नद्धान्येव दृश्यन्ते मृत्युं कृत्वा निवर्तनम्
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः
प्रविभज्य बलं सर्वम् अनीकेषु व्यवस्थिताः
ततस्सर्वे समागम्य पुत्रेण तव चोदिताः
कृपश्च कृतवर्मा च द्रौणिश्शल्योऽथ सौबलः
अन्ये च पार्थिवास्सर्वे समयं चक्रिरे तदा
कौरवसैनिकाः-
न त्वेकेन च योद्धव्यं कथञ्चिदपि पाण्डवैः
यो ह्येकः पाण्डवैर्युध्येद् यो वा युध्यन्तमुत्सृजेत्
स पञ्चभिर्भवेद्युक्तः पातकैश्चोपपातकैः
अद्याचार्यसुतो द्रौणिर् नैको युध्येत शत्रुभिः
अन्योन्यं परिरक्षद्भिर् योद्धव्यं सहितैश्च नः
सञ्जयः-
एवं ते समयं कृत्वा सर्वे तत्र महारथाः
मद्राधिपं पुरस्कृत्य तूर्णमभ्यद्रवन् परान्
तथैव पाण्डवा राजन् व्यूह्य सैन्यं महारथा
अभ्ययुः कौरवान् युद्धे योत्स्यमानास्समन्ततः
ततो बलं समभवत् क्षुब्धार्णवसमस्वनम्
समुद्धतपदात्यश्वम् उद्धूतरथकुञ्जरम्
धृतराष्ट्रः-
द्रोणस्येव च भीष्मस्य राधेयस्य मया श्रुतम्
पातनं शंस मे भूयश् शल्यस्याथ सुतस्य मे
कथं रणे हतश्शल्यो धर्मराजेन सञ्जय
भीमसेनेन बलिना पुत्रो दुर्योधनो मम
सञ्जयः-
क्षयं मनुष्यदेहानां रथानागाश्वसङ्क्षयम्
शृणु राजन् स्थिरो भूत्वा सङ्ग्रामं शंसतो मम
आशा बलवती राजन् पुत्राणां तेऽभवत् तदा
हते भीष्मे हते द्रोणे सूतपुत्रे च पातिते
शल्यः पार्थान् रणे सर्वान् निहनिष्यति पार्थिवः
तामाशां हृदये कृत्वा समाश्वस्य च भारत
मद्रराजं च समरे समाश्रित्य महारथम्
नाथवन्तमिवात्मनम् अमन्यत सुतस्तव
यदा कर्णे हते पार्थास् सिंहनादं प्रचक्रिरे
तदा राजन् धार्तराष्ट्रान् अाविवेश महद्भयम्
तान् समाश्वासयामास मद्रराजो महारथः
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत्
प्रत्युद्ययौ रणे पार्थान् मद्रराजः प्रतापवान्
विधून्वन् कार्मुकं चित्रं भारघ्नं वेगवत्तरम्
रथप्रवरमास्थाय सैन्यवार्श्वे महारथः
तस्य नेता महाराज रथस्थोऽशोभयद्रथम्
स तेन संवृतो राजा बलेनामित्रकर्शनः
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत्
प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः
मद्रकैस्सहितो वीरैः कर्णपुत्रैश्च रक्षितः
सव्येऽभूत् कृतवर्मा तु त्रिगर्तैः परिवारितः
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैस्सह
अश्वत्थामा पृष्ठतोऽभूत् काम्भोजैः परिवारितः
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः
हयानीकेन महता सौबलश्चापि संवृतः
प्रययौ सर्वसैन्यानि कैतव्यश्च महारथः
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः
त्रिधा भूता महाराज तव सैन्यमुभिद्रवन्
धृष्टद्युम्नश्शिखण्डी च सात्यकिश्च महारथः
शल्यस्य वाहिनीं तूर्णम् अभिदुद्रुवुराहवे
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः
हार्दिक्यं च महेष्वासम् अर्जुनश्शत्रुपूगहा
संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे
गौतमं भीमसेनोऽपि सोमकाश्च महारथाः
अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान् युधि
माद्रीपुत्रौ तु शकुनिम् उलूकं च महारथम्
ससैन्यौ सहसैवोभावुपतस्थतुराहवे
तथैवायुतशो योधास् तावकाः पाण्डवान् रणे
अभ्यद्रवन्त सङ्क्रुद्धा विविधायुधपाणयः
धृतराष्ट्ः-
हते भीष्मे महेष्वासे द्रोणे कर्णे जयद्रथे
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे
संरब्धेषु च पार्थेषु पराक्रान्तेषु सञ्जय
मामकानां परेषां च किं शिष्टमभवद्बलम्
सञ्जयः-
यथा वयं परे राजन् युद्धाय समुपस्थिताः
यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे
एकादशसहस्राणि रथानां भरतर्षभ
दश दन्तिसहस्राणि सप्त चैव शतानि च
पूर्णे शतसहस्रे द्वे हयानां भरतर्षभ
नव कोट्यस्तथा तिस्रो बलमेतत्तवानघ
रथानां षट् सहस्राणि षट्सहस्राश्च कुञ्जराः
दश चाश्वसहस्राणि पत्तिकोटिशतानि च
एतद्बलं पाण्डवानाम् अभवच्छेषमाहवे
एत एव समाजग्मुर् युद्धाय भरतर्षभ
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः
पाण्डवान् प्रत्युपाजग्मुर् जयगृद्ध्राः प्रमन्यवः
तथैव पाण्डवाश्शूरास् समरे जितकाशिनः
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः
एवमेते बलौघेन परस्परजयैषिणः
उपयाता महावीराः पूर्वां सन्ध्यां प्रति प्रभो
ततः प्रववृते युद्धं घोररूपं भयानकम्
तावकानां परेषां च निघ्नतामितरेतरम्