सञ्जयः-
एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान्
दुर्योधनं तदा राजन्निदं वचनमब्रवीत्
शल्यः-
दुर्योधन महाबाहो शृणु वाक्यमरिन्दम
यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ
न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम्
योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान्
विजेष्ये च रणे पार्थान् सोमकांश्च समागतान्
अहं सेनाप्रणेता वै भविष्यामि न संशयः
तं च व्यूहं विधास्यामि न करिष्यन्ति यं परे
अद्यैवाहं रणे सर्वान् पाञ्चालान् सह पाण्डवैः
निहनिष्यामि वा राजन्द्र स्वर्गं यास्यामि वा हतः
अद्य पश्यन्तु मां लोका विचरन्तमभीतवत्
अद्य पाण्डुसुतास्सर्वे वासुदेवोऽथ सात्यकिः
पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः
धृष्टद्युम्नश्शिखण्डी च सर्वे चापि प्रभद्रकाः
विक्रमं मम पश्यन्तु धनुषश्च महद्बलम्
लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि
अद्य पश्यन्तु मे पार्थास् सिद्धाश्च सह चारणैः
यादृशं मे बलं बाह्वोस् सम्पदस्त्रेषु या च मे
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः
प्रतीकारपरा भूत्वा चेष्टन्ते विविधाः क्रियाः
अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः
भीष्मद्रोणावति विभो सूतपुत्रं च संयुगे
विचरिष्ये रणमुखे प्रियार्थं तव कौरव
इति सत्यं ब्रवीम्येतद् दुर्योधन न संशयः
सञ्जयः-
एवमुक्तस्तदा राजा मद्राधिपतिमञ्जसा
अभ्यषिञ्चच्च सेनायां मध्ये भरतसत्तम
विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते
अभिषिक्ते ततश्शल्ये सिंहनादो महानभूत्
तव सैन्येष्ववाद्यन्त वादित्राणि च सङ्घशः
हृष्टाश्चासंस्तदा योधा मद्रकाश्च महारथाः
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम्
सैनिकाः-
जय राजंश्चिरं जीव जहि शत्रून् समागतान्
तव बाहुबलं प्राप्य धार्तराष्ट्रो महाबलः
निखिलां पृथिवीं सर्वां प्रशास्तु निहतद्विषम्
त्वं हि शक्तो रणे जेतुं देवगन्धर्वदानवान्
मर्त्यधर्माण इह तु किं न सोमकसृञ्जयान्
सञ्जयः-
एवं संस्तूयमानस्तु मद्राणामधिपो बली
हर्षं प्राप तदा वीरो दुष्प्रापमकृतात्मभिः
अभिषिक्ते तदा शल्ये तव सैन्येषु मानद
न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत
हृष्टास्सुमनसश्चैव बभूवुस्तत्र सैनिकाः
मेनिरे च तदा पार्थान् मद्रराजवशं गतान्
प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ
तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव चाभवत्
सैन्यस्य तव तं श्रुत्वा शब्दं राजा युधिष्ठिरः
वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य पश्यतः
युधिष्ठिरः-
मद्रराजः कृतश्शल्यो धार्तराष्ट्रेण मारिष
सेनापतिर्महेष्वासस् सर्वसैन्येषु पूजितः
सञ्जयः-
एतज्ज्ञात्वा यथा भूतं कुरु माधव नः क्षमम्
भवान् नेता च गोप्ता च विधत्स्व यदनन्तरम्
तमब्रवीन्महाराज वासुदेवो महारथम्
श्रीभगवान्-
आर्तायनिमहं जाने यथा तत्त्वेन भारत
वीर्यवांश्च महेष्वासो महात्मा च विशेषतः
कृती च चित्रयोधी च संयुक्तो लाघवेन च
यादृग्भीष्मस्तथा द्रोणो यादृक् कर्णश्च संयुगे
तादृशस्तद्विशिष्टो वा मद्रराजो न संशयः
युध्यमानस्य तस्याजौ चिन्तयन्नेव भारत
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिपम्
शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे
मद्रराजो महाराजः सिंहद्विरदविक्रमः
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव
तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम्
स त्वमेको हि लोकेऽस्मिन् नान्यस्त्वत्तः पुमान् भवेत्
मद्रराजं रणे क्रुद्धं यो हन्यात् कुरुनन्दन
अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव
तस्माज्जहि रणे शल्यं मघवानिव शम्बरम्
सौतेः पश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः
तवैव विजयो नूनं हतो मद्रेश्वरो भवेत्
तस्मिन् हते हतं सर्वं धार्तराष्ट्रबलं महत्
एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम्
प्रत्युद्याहि रणे पार्थ मद्रराजं महारथम्
जहि चैनं महाबाहो वासवो नमुचिं यथा
न चैवात्र दया कार्या मातुलोऽयं ममेति च
क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम्
द्रोणभीष्मार्णवं तीर्त्वा कर्णपातालसम्भवम्
मा निमज्जस्व सगणश् शल्यमासाद्य गोष्पदम्
यच्च वै तपसो वीर्यं यच्च क्षात्रबलं तव
तद्दर्शय रणे सर्वं जहि चैनं महाबलम्
सञ्जयः-
एतावदुक्त्वा वचनं केशवः परवीरहा
जगाम शिबिरं साये पूज्यमानो हि पाण्डवैः
केशवे तु तदा याते धर्मराजो युधिष्ठिरः
विसृज्य सर्वान् भ्रातॄंश्च पाञ्चालानथ सोमकान्
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तदा
कर्णस्य निधने हृष्टास् सुषुपुस्तां निशां तदा
गतज्वरं महेष्वासं तीर्णपारं महारथम्
बभूव पाण्डवेयानां सैन्यं प्रमुदितं निशि
सूतपुत्रस्य निधनाज् जयं लब्ध्वा च मारिष