वैशम्पायनः-
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः
विललाप महाराज दुःखाद्दुःखतरं गतः
सधूममिव निश्श्वस्य करौ धुन्वन् पुनःपुनः
बहुशाञ्चिन्तयित्वा तु सञ्जयं वाक्यमब्रवीत्
धृतराष्ट्रः-
अहो बत महद्दुःखं यदहं पाण्डवान् रणे
क्षेमिणश्चाव्ययांश्चैव त्वत्तस्सूत शृणोमि वै
वज्रसारमयं नूनं हृदयं मम दुर्भिदम्
यच्छ्रुत्वा निहतान् पुत्रान् दीर्यते न सहस्रधा
चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय
अद्य चैव हताञ् श्रुत्वा भृशं मे दूयते मनः
अन्धत्वाद्यदि पुत्राणां न मे रूपिनिदर्शनम्
पुत्रस्नेहकृता प्रीतिर् नित्यमेतेषु धारिता
बालभावमतिक्रान्तान् यौवनस्थांश्च तानहम्
श्रियं प्राप्तांश्च ताञ् श्रुत्वा हृष्ट आसं तदाऽनघ
तानद्य निहताञ् श्रुत्वा हतैश्वर्यान् हृतौजसः
न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः
एह्येहि वत्स राजेन्द्र ममानाथस्य पुत्रक
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम्
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा
अन्धं वृद्धं च मां वीर विहाय त्वं क्व गच्छसि
या कृपा या च ते प्रीतिर् या च राजसु मानिता
कथं त्वं निहतः पार्थैस् संयुगेष्वपराजितः
कथं त्वं पृथिवीपालांस् त्यक्त्वा तात समागतान्
शेषेऽद्य निहतो भूमौ प्राकृतः कुनृपो यथा
को नु मामुत्थितः काले तात तातेति वक्ष्यति
महाराजेति सततं लोकनाथेति चासकृत्
परिष्वज्य च कं कण्ठे स्नेहेन क्लिन्नलोचनः
अनुशास्तास्मि कौरव्य तत् साधु वद मे वचः
ननु नामाहमश्रौषं वचनं तव पुत्रक
भूयसी मम सेना च तात पार्थस्य नो तथा
भगदत्तः कृपश्शल्य आवन्त्यौ च जयद्रथः
भूरिश्रवास्सोमदत्तो महाराजश्च बाह्लिकः
अश्वत्थामा कृतवर्मा मागधश्च महाबलः
बृहद्बलश्च क्राथश्च शकुनिश्चापि सौबलः
म्लेच्छाश्च शतसाहस्रास् शकाश्च यवनैस्सह
सुदक्षिणश्च काम्भोजस् त्रिगर्ताधिपतिस्तथा
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः
श्रुतायुश्चाश्रुतायुश्च शतायुश्चापि वीर्यवान्
जलसन्धोऽप्यार्श्यशृङ्गी राक्षसश्चाप्यलायुधः
अलम्बुसो वीरबाहुस् सुबाहुश्च शतायुधः
एते चान्ये च बहवो राजानो राजसत्तम
मदर्थं प्रहरिष्यन्ति प्राणांस्त्यक्त्वा महारणे
तेषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः
योधयिष्याम्यहं पार्थान् पाञ्चालान् सृञ्जयांस्तथा
सोमकान् नृपशार्दूल द्रौपदेयांश्च संयुगे
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम्
एकोऽप्येषां महाराज समर्थस्सन्निवारणे
समरे पाण्डुयोधानां सङ्क्रुद्धो ह्यभिधावताम्
किं पुनस्सहितो वीरैः कृतवैराश्च पाण्डवैः
अथवा सर्वपाञ्चालैः पाण्डवस्यानुसैनिकैः
योत्स्यामि सह राजेन्द्र हनिष्यन्ति च तान् मृधे
कर्णस्त्वेको मया सार्धं निहनिष्यति पाण्डवान्
ते वै नृपतयो वीरास् स्थास्यन्ति मम शासने
यश्च तेषां प्रणेता वै वासुदेवो महाबलः
न स सन्नह्यते राजन्निति मामब्रवीद्वचः
एवं च वदतस्सूत बहुशो मम सन्निधौ
युक्तितोऽप्यनुपश्यामि निहतान् पाण्डवान् मृधे
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः
व्यायच्छमानास्समरे किमन्यद्भागधेयतः
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान्
शिखण्डिनं समासाद्य मृगेन्द्र इव कुञ्जरम्
द्रोणश्च ब्राह्मणो वृद्धस् सर्वशस्त्रास्त्रपारगः
निहतः पाण्डवैस्सङ्ख्ये किमन्यद्भागधेयतः
भूरिश्रवा हतो पत्र सोमदत्तश्च संयुगे
बाह्लिकश्च महाराजः किमन्यद्भागधेयतः
भगदत्तो हतो यत्र गजयुद्धविशारदः
जयद्रथश्च निहतः किमन्यद्भागधेयतः
सुदक्षिणो हतो यत्र जलसन्धश्च कौरवः
श्रुतायुश्च शतायुश्च किमन्यद्भागधेयतः
महाबलस्तथा पुण्ड्रस् सर्वशस्त्रास्त्रपारगः
निहतः पाण्डवैस्सङ्ख्ये किमन्यद्भागधेयतः
बृहद्बलो हतो यत्र मागधश्च महाबलः
आवन्त्यो निहतौ यत्र शकुनिश्चापि सौबलः
त्रिगर्तश्च महाबाहुस् संश्प्ताश्च महाबलाः
नारायणा हता यत्र गोपाला युद्धदुर्मदाः
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः
अलम्बुसस्तथा शूरो राक्षसश्चाप्यलायुधः
आर्श्यश्रृङ्गश्च नुहतः किमन्यद्भागधेयतः
राजानो राजपुत्राश्च शूराः परिघबाहवः
नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय
निहताः पाण्डवेयैस्तैः किमन्यद्भागधेयतः
दुर्योधनो हतो यत्र पुत्राश्चास्य महात्मनः
सोदराश्च महेष्वासाः किमन्यद्भागधेयतः
यश्च भाग्यसमायुक्तस् स शिवं प्राप्नुयाद्भुवि
अहं वियुक्तस्तैर्भाग्यैः पुत्रैश्चै सह सञ्जय
कथमन्धो भविष्यामि वृद्धश्शत्रुवशं गतः
नान्यदद्य परं मन्ये वनवासादृते प्रभो
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसङ्क्षये
न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते
एतामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय
दुर्योधनो हतो यत्र शल्यश्च बलवान् युधि
दुश्शासनो विशस्तश्च विकर्णश्च महाबलः
कथं नु भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम्
एकेन समरे येन हतं पुत्रशतं मम
असकृद्वदतस्तस्य दुर्योधनवधेन च
पुत्रशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः
वैशम्पायनः-
एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः
दीर्घमुष्णं विनिश्वस्य चिन्तयित्वा पराभवम्
दुःखेन महता राजन् सन्तप्तो भरतर्षभः
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम्
धृतराष्ट्रः-
भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम्
सेनापतिं महेष्वासं कमकुर्वत मामकाः
यं यं सेनाप्रणेतारं युद्धे कुर्वन्ति मामकाः
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना
एवमेव हतो द्रोणस् सर्वेषामेव पश्यताम्
एवमेव हतः कर्णस् सूतपुत्रः प्रतापवान्
सराजकानां सर्वेषां पश्यतां वः किरीटिना
पूर्वमेवाहमुक्तोऽस्मि विदुरेण महात्मना
दुर्योधनापराधेन प्रजेयं विनशिष्यति
केचित् सम्यक् प्रपश्यन्ति मूढास्तु न तथा परे
तदिदं मम मूढस्य तथा भूतं वचस्स्मृतम्
यदब्रवीन्मां धर्मात्मा विदुरो दीर्घदर्शिवान्
तत् तथा समनुप्राप्तं वचनं दीर्घदर्शिनः
दैवोपहतचित्तेन यन्मयानुष्ठितं पुरा
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः
को वा मुखमनीकानाम् आसीत् कर्णे निपातिते
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी
केऽरक्षन् दक्षिणं चक्रं मद्रराजस्य संयुगे
वामं वा योद्वुकामस्य के वा वीरस्य पृष्ठतः
कथं च वस्समेतानां मद्रराजो महाबलः
निहतः पाण्डवैस्सङ्ख्ये पुत्रो वा मम सञ्जय
ब्रूहि सर्वं यथातत्त्वं भारतानां महाक्षयम्
यथा स निहतस्सङ्ख्ये पुत्रो दुर्योधनो मम
पाञ्चालाश्च यथा सर्वे निहतास्सपदानुगाः
धृष्टद्युम्नश्शिखण्डी च द्रौपद्याः पञ्च चात्मजाः
पाण्डवाश्च यथा मुक्तास् तथा तौ सात्वतौ युधि
कृपश्च कृतवर्मा च भारद्वाजात्मजस्तथा
यद्यथा यादृशं वृत्तं यथा चैवेह साम्प्रतम्
निखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय