जनमेजयः-
एवं निपातिते कर्णे समरे सव्यसाचिना
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज
विदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः
पाण्डवैः प्राप्तकालं किं प्रत्यपद्यन्त कौरवाः
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्
वैशम्पायनः-
ततः कर्णे हते राजन् धार्तराष्ट्रस्सुयोधनः
भृशं शोकार्णवे मग्नो निराशस्सर्वतोऽभवत्
हा कर्ण हा कर्ण इति शोचमानो मुहुर्मुहुः
कृच्छ्रात् स्वशिबिरं प्रायाद्धतशिष्टैर्नृपैस्सह
स समाश्वास्यमानोऽपि हेतुभिश्शास्त्रनिश्चितैः
राश्वतीं भूतिमिच्छद्भिस् सूतपुत्रमनुस्मरन्
स दैवं बलवन्मत्वा प्रभाते विमले सति
सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्वाय निर्ययौ
शल्यं सेनापतिं कृत्वा विधिवद्राजपुङ्गवम्
रणाय निर्ययौ राजान् हतशिष्टैर्नृपैस्सह
ततस्सुतुमुलं युद्धं कुरुपाण्डवसेनयोः
बभूव भरतश्रेष्ठ यथा दैवासुरे पुरा
ततश्शल्यो महाराज कृत्वा कदनमाहवे
पाण्डुसैन्येस्य मध्याह्ने धर्मराजेन पातितः
ततो दुर्योधनो राजा हतबन्धू रणाजिरात्
अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भयात्
अथापराह्णे तस्याह्नः परिवार्य महारथैः
ह्रदादाहूय युद्वाय भीमसेनेन पातितः
तस्मिंस्तु निहते वीरे महेष्वासास्त्रयो रणे
कृतवर्मा कृपो द्रौणिर् जघ्नुः पाञ्चालसैनिकान्
ततोऽपराह्णसमये शिबिरादेत्य सञ्जयः
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः
प्रविश्य तु पुरं तूर्णं भूजावुद्यम्य दुःखितः
वेपमानस्तदा राज्ञः प्रविवेश निवेशनम्
धावतश्चाप्यपश्यत् स तत्रत्यान् पुरुषर्षभान्
नष्टचित्तानिवोन्मत्ताञ् शोकेन भृशदुःखितान्
दृष्ट्वैव च नराञ् शीघ्रं व्याजहारातिदुःखितान्
रुरोद च नरव्याघ्र हा राज इति दुःखितः
सञ्जयः-
अहो बत विपन्नोऽस्मि निधनेन महात्मनः
अहो सुबलवान् कालो गतिश्च परमा तथा
शुक्रतुल्यबलास्सर्वे यत्राहन्यन्त पार्थिवाः
वैशम्पायनः-
दृष्ट्वैव हि पुरे राजञ् जनस्सर्वो हि सञ्जयम्
प्ररुरोद भयोद्विग्नो हा राजन्निति सस्वनम्
आकुमारं नरव्याघ्र तत् पुरं वै समन्ततः
आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम्
तथा स विह्वलस्सूतः प्रविश्य नृपतिक्षयम्
ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम्
दृष्ट्वा चासीनमनघं समन्तात् परिवारितम्
स्नुषामिर्भरतश्रेष्ठ गान्धार्या विदुरेण च
तथाऽन्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिः
तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय
नातिहृष्टमनास्सूतो बाष्पसन्दिग्धया गिरा
सञ्जयः-
सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ
मद्राधिपो हतश्शल्यस् सौबलश्शकुनिस्तथा
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः
संशप्तका हतास्सर्वे काम्भोजाश्च शकैस्सह
म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः
उदीच्याश्च हतास्सर्वे प्रतीच्याश्च परन्तप
राजानो राजपुत्राश्च सर्वे विनिहता नृप
कर्णपुत्रो हतश्शूरस् सत्यसेनो महाबलः
दुर्योधनो हतो राजन् ययोक्तं पाण्डुसूनुना
भग्नसक्थिर्महाराज शेते पांसुषु रूषितः
धृष्टद्युम्नो हतो राजन् शिखण्डी चापराजितः
उत्तमौजा युधामन्युस् तथा सर्वे प्रभद्रकाः
पाञ्चालश्च महाराज चेदयश्च निषूदिताः
तव पुत्रा हतास्सर्वे द्रौपदेयाश्च भारत
नरा विनिहतास्सर्वे गजाश्च विनिषूदिताः
रथिनत्र नरव्याघ्र तथाऽश्व निहता युधि
निश्शेषं शिबिरं राजंस् तावकानां कृतं प्रभो
पाण्डवानां च शूराणां समासाद्य परस्परम्
स्त्रीशेषमभवत् सर्वं जगत् कालेन मोहितम्
सप्त वै पाण्डवाश्शिष्टा धार्तराष्ट्रास्त्रयो जनाः
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः
कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः
एते शेषा महाराज रथिनो राजसत्तम
अक्षौहिणीनामष्टानां दशानां च नरेश्वर
एते शेषा महाराज सर्वेऽन्ये निधनं गताः
कालेन निहतं सर्वं जगद्वै भरतर्षभ
दुर्योधनं वै पुरतः कृत्वा सर्वे नरा हताः
वैशम्पायनः-
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः
निपपात महाराज गतसत्त्वो महीतले
तस्मिन् निपतिते वीरे विदुरोऽपि महायशाः
निपपात महाराज पुत्रव्यसनकर्शितः
गान्धारी च महाभागा सर्वाश्च कुरुयोषितः
पतितास्सहसा भूमौ श्रुत्वा घोरतरं वचः
विसञ्ज्ञं पतितं भूमौ तदासीद्राजमण्डलम्
विलापमूर्च्छोपहतं चित्रं न्यस्तं पटे यथा
कृच्छ्रेण तु ततस्तत्र धृतराष्ट्रो महीपतिः
शनैरलभत प्राणान् पुत्रव्यसनकर्शितः
लब्ध्वा तु स नृपतिः प्राणान् वेपमानः पुनः पुनः
निरीक्ष्य च दिशस्सर्वाः क्षत्तारं वाक्यमब्रवीत्
धृतराष्ट्रः-
विद्वन् क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ
ममानाथस्य सुभृशं पुत्रहीनस्य सर्वशः
वैशम्पायनः-
एवमुक्त्वा ततो भूयो निस्सञ्ज्ञः पतितो भुवि
तं तथा पतितं दृष्ट्वा बान्धवास्तस्य केचन
ते शीतैस्सिषिचुस्तोयैर् विविजुर्व्यजनैरपि
तूष्णीमासीन्महीपालः पुत्रव्यसनकर्शितः
स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः
निश्श्वसञ्जिह्मग इव कुम्भक्षिप्तोऽभवन्नृपः
सञ्जयोऽप्यरुदत् तत्र दृष्ट्वा राजानमातुरम्
तथा सर्वास्स्त्रियश्चैव गान्धारी च यशस्विनी
ततो दीर्घस्य कालेन विदुरं वाक्यमब्रवीत्
धृतराष्ट्रो नरव्याघ्रो मुह्यमानः पुनः पुनः
धृतराष्ट्रः-
गच्छन्तु योषितस्सर्वाः गान्धारी च यशस्विनी
तथेमे सुहृदस्सर्वे मुह्यते मे मनो भृशम्
वैशम्पायनः-
एवमुक्तस्ततः क्षत्ता तास्स्त्रियो भरतर्षभ
विसर्जयामास तदा मुह्यमानो नराधिप
निर्जग्मुश्च ततस्सर्वास् तास्स्त्रियो जनमेजय
सुहृदश्च तथा सर्वे दृष्ट्वा राजानमातुरम्
ततो नरपतिस्तत्र सञ्ज्ञां लब्ध्वा परन्तपः
गतिर्मे को भवेदद्य इति चिन्तासमाकुलः
अवैक्षत् सञ्जयं तत्र रुदमानो महीपतिः
प्राञ्जलिं सञ्जयं दृष्ट्वा रुदमानं मुहुर्मुहुः
बहुशश्चिन्तयित्वा तु सञ्जयं वाक्यमब्रवीत्
राजानं शोचमानस्तु तं शोचन्तं मुहुर्मुहुः
समाश्वासयत क्षत्ता वचसा मधुरेण च