सञ्जयः
कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम्
यदृच्छया सूर्यमिवावनिं गतं दिदृक्षवस्सम्परिवार्य तस्थुः
प्रभ्रष्टवित्रस्तविषण्णविस्मितास्तथाऽपरे शोकसमन्विता भवन्
परे त्वदीयाश्च रणे विशाम्पते यथायथेष्टं पृतना तथा गता
प्रविद्धवर्माभरणायुधाम्बरं धनञ्जयेन प्रहतं महारथम्
निशाम्य कर्णं कुरवः प्रदुद्रुवुर्हतर्षभं केसरिणेव गोकुलम्
कृत्वा विमर्दं भृशमर्जुनेन कर्णं हतं केसरिणेव नागम्
दृष्ट्वा शयानं युधि मद्रराजश्छिन्नध्वजेनापययौ रथेन
कर्णे हते पार्थभयात्प्रदुद्रुवुर्वैकर्तने धार्तराष्ट्रास्सशल्याः
अवेक्षमाणा मुहुरर्जुनस्य केतुं महान्तं यशसा ज्वलन्तम्
शल्यस्तु कर्णार्जुनयोर्विमर्दे बलानि दृष्ट्वा मृदितध्वजानि
ययौ स तेनैव रथेन तूर्णं हेलीकृतस्सृञ्जयसोमकैश्च
निपातितस्यन्दनवाजिनागं बलं च दृष्ट्वा हतसूतपुत्रम्
भीमश्च भीमेन तदा स्वरेण समुन्नदद्रोदसी कम्पयंश्च
आस्फोटयन्नृत्यति वल्गते च हते कर्णे त्रासयन्धार्तराष्ट्रान्
तदा राजन्सृञ्जयास्सोमकाश्च शङ्खान्दध्मुस्सस्वजुश्चापि सर्वे
परस्परं क्षत्रिया हृष्टरूपास्सूतात्मजे वै निहते तदानीम्
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो दीनो मुहुर्निश्वसन्नार्तरूपः
मद्राधिपश्चापि विमूढचेतास्तूर्णं ध्वजेनापहृतेन तेन
रथेन दुर्योधनमेत्य तूर्णं पश्यन्सुदुःखार्तमुवाच राजन्
शल्यः
विशीर्णनागाश्वरथप्रवीरं बलं त्वदीयं यमराष्ट्रकल्पम्
अन्योन्यमासाद्य हतैश्शयानैर्नराश्वनागैर्गिरिकूटकल्पैः
नैतादृशं भारत युद्धमासीद्यथा हि कर्णार्जुनयोर्बभूव
ग्रस्तौ हि कर्णेन समेत्य कृष्णावन्ये हि सर्वे तव शात्रवा ये
दैवं तु यत्तत्स्ववशे प्रवृत्तं तत्पाण्डवान्पाति निहन्ति चास्मान्
तवार्थसिद्ध्यर्थकरा हि सर्वे प्रसह्य वीरा निहता द्विषद्भिः
कुबेरवैवस्वतवासवानां तुल्यप्रभावा वरुणस्य चापि
वीर्येण शौर्येण पराक्रमेण तैस्तैश्च युक्ता विमलैर्गुणौघैः
अवध्यकल्पा निहता नरेन्द्रास्तवार्थकामा युधि पाण्डवेयैः
तन्मा शुचो भारत दिष्टमेतत्पर्यायसिद्धिर्न तु नित्यसिद्धिः
सञ्जयः
एतद्वचो मद्रपतेर्निशम्य स्वं चाविनीतं मनसा विचिन्त्य
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो दीनाद्धीनो निश्वसदार्तरूपः
तं ध्यानमूकं कृपणं भृशार्तमार्तायनिर्दीनमुवाच राजन्
शल्यः
पश्येदमुग्रं नरवाजिनागैरायोधनं वीर हतैस्सुपूर्णम्
महीधराभैः पतितैश्च नागैर्महीं प्रपन्नैश्शरभिन्नदेहैः
प्रविह्वलद्भिश्च गतासुभिश्च प्रध्वस्तवर्मायुधसर्वयोधैः
वज्रापविद्धैरिव चाचलौघैर्विभिन्नपाषाणमृगद्रुमौघैः
प्रविद्धघण्टाङ्कुशतोमरध्वजैस्सहेमजालै रुधिरौघसम्प्लवैः
शरावनुन्नैः पतितैस्तुरङ्गमैस्वनद्भिरार्तैः क्षतजं स्रवद्भिः
दीनस्वनद्भिः परिवृत्तनेत्रैर्मही पतद्भिः कृपणा बभूव
तथाऽपविद्धैर्गजवाजियूथैर्मन्दासुभिश्चापि गतासुभिश्च
रथैश्च नागैस्तुरगैश्च नुन्नैर्मही महावैतरणीव भाति
गजैर्निकृत्तापरहस्तगात्रैरुद्वेपमानैः पतितैः पृथिव्याम्
रथर्षभैर्नागवराश्वयोधैः पदातिभिश्चाभिमुखैः परैर्हतैः
विशीर्णवर्माभरणाम्बरायुधैर्वृता प्रशान्तैरिव पावकैर्मही
शरप्रहाराभिहतैर्महाबलैरवेक्षमाणैः पतितैस्समन्ततः
प्रनष्टसञ्ज्ञैः पुनराश्वसद्भिर्मही बभौ कुम्भगतैरिवाग्निभिः
रत्नैश्च्युतैर्भूरतिदीप्तिमद्भिर्नक्तं ग्रहैर्द्यौर्विमलैर्विभाति
शरास्तु कर्णार्जुनबाहुमुक्ता विदार्य नागांश्चमनुष्यदेहान्
प्राणान्निरस्याशु महीं प्रतीयुर्महोरगा वासमिवातिरौद्राः
हतैर्मनुष्यैश्च गजैश्च सङ्ख्ये शरावभिन्नै रुधिरप्रदिग्धैः
धनञ्जयस्यातिथेश्च मार्गे हतैरगम्या वसुधाऽतिदुर्गा
हतैर्महेषून्मथितैस्सुकल्पितैस्सनागयोधाश्ववरायुधध्वजैः
विशीर्णयोक्त्रैर्विनिकीर्णबन्धनैर्निकृत्तचक्राक्षयुगत्रिवेणुभिः
विमुक्तयन्त्रैश्च तथा व्युपस्करैर्हतानुषङ्गैर्विनिकृत्तबन्धनैः
प्रभग्ननीडैर्मणिहेमभूषितैर्वृता मही द्यौरिव शारदैर्घनैः
निकृष्यमाणा जवनैस्तुरङ्गमैर्हतेश्वरा राजरथास्सुकल्पिताः
मनुष्यमातङ्गरथाश्वसादिषु द्रुतं व्रजन्तो बहुधा विचूर्णिताः
सहेमपृष्ठास्सपरश्वथायुधाश्शिताश्च शूला मुसलास्समुद्गराः
चित्राश्च खड्गा विमलाश्च कोशा गदाश्च जाम्बूनदपट्टनद्धाः
चापानि जाम्बूनदभूषितानि शराश्च कार्तस्वरचित्रपुङ्खाः
ऋष्ट्यश्च पीता विमला विकोशाः प्रासाश्च दण्डाः कनकप्रभासः
शुभ्राणि वालव्यजनानि शङ्खाश्छिन्नापविद्धा विरुचस्स्रजश्च
कुथाः पताकाम्बरवेष्टनानि किरीटमाला मकुटाश्च शुभ्राः
प्रकीर्णका विप्रतिकीर्णकाश्च प्रधानमुख्यास्तरलाश्च हाराः
आपीडकेयूरवराङ्गदानि ग्रैवेयनिष्कास्ससुवर्णसूत्राः
मण्युत्तमा वज्रसुवर्णयुक्ता रत्नानि चोच्चावचमङ्गलानि
गात्राणि चाभान्ति सुखोचितानि शिरांसि चेन्दुप्रतिमाननानि
देहांश्च भोगांश्च परिच्छदांश्च त्यक्त्वा मनोज्ञान्निहतास्सुखानि
स्वधर्मनिष्ठां महतीमवाप्य प्राप्ताश्च लोकान्यशसा गतास्ते
निवर्त्य दुर्योधन यान्तु सैनिका व्रजस्व राजञ्शिबिराणि मानद
दिवाकरोऽप्येष विलम्बते प्रभो पुनस्त्वमेवात्र नरेन्द्र कारणम्
सञ्जयः
एतावदुक्त्वा विरराम शल्यो दुर्योधनं चैव निवर्तयित्वा
युद्धाय राजन्विनिविष्टबुद्धिं हा कर्ण हा कर्ण इति ब्रुवाणम्
तं द्रोणपुत्रप्रमुखा नरेन्द्रास्सर्वे समाश्वास्य ततः प्रजग्मुः
निरीक्षमाणा ध्वजमर्जुनस्य रथं च दिव्यं यशसा ज्वलन्तम्
नराश्वमातङ्गशरीरजेन रक्तेन सिक्तां रुधिरेण भूमिम्
रक्ताम्बरस्रक्तपनीययोगां नारीं प्रकाशामिव सर्वरम्याम्
प्रच्छन्नरूपां रुधिरेण राजन्रौद्रे मुहूर्तेऽतिविराजमानाम्
नैवावतस्थुः कुरवस्समीक्ष्य प्रव्राजिता नरदेवा यथाऽक्षैः
वधेन कर्णस्य सुदुःखितास्ते हा कर्ण हा कर्ण इति ब्रुवाणाः
द्रुतं प्रजग्मुश्शिबिराणि राजन्दिवाकरं रक्तमवेक्षमाणाः
गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैश्शिलाशितैश्शोणितदिग्धवाजैः
शरैश्चिताङ्गोऽपि रराज कर्णो हतोऽपि दीप्तांशुरिवांशुजालैः
कर्णस्य देहं रुधिराम्बुसिक्तं भक्तानुकम्पी भगवान्विवस्वान्
स्पृष्ट्वा कराग्रैः क्षतजानुरूपैस्स्नातुं तदाऽगादपरं समुद्रम्
इतीव सञ्चिन्त्य सुरर्षयश्च सम्प्रस्थितास्ते तु यथानिकेतम्
सञ्चिन्त्य सर्वा जनता विसस्रुर्यथासुखं खे च महीतले च
तदद्भुतं प्राणभृतां भयङ्करं निशाम्य युद्धं कुरुवीरमुख्ययोः
समाचितौ कर्णशरैः परन्तपौ तथैव संरेजतुरच्युतार्जुनौ
तमो निहत्याभ्युदितौ यथाऽमलौ शशाङ्कसूर्याविव रश्मिमालिनौ
विहाय तान्बाणगणान्महाबलौ सुहृद्वृतावप्रतिमानविक्रमौ
सुखं प्रविष्टौ सुखदौ विरेजतुस्सदस्यचिन्त्याविव विष्णुवासवौ
सदेवगन्धर्वमनुष्यचारणैर्महर्षिभिर्यक्षमहोरगैरपि
जयाभिवृद्ध्या परयाऽभिपूजितौ निहत्य कर्णं परमाहवे तदा
यथानुरूपं प्रतिपूज्य तानथ प्रशस्यमानावतुलैश्च कर्मभिः
ननन्दतुश्चैव सुहृद्भिरावृतौ बलं निहत्येव सुरेशकेशवौ