सञ्जयः
अथाब्रवीद्वासुदेवो महात्मा राधेय दिष्ट्या स्मरसीह धर्मम्
धर्मे निबद्धास्सततं हि पार्थास्तेभ्यस्त्वसौ वृद्धिमहो ददाति
धर्मादपेताः परिपन्थिनस्ते तस्माद्गता वै कुरवो विनाशम्
प्रायेण नीचा व्यसनेषु मग्ना निन्दन्ति दैवं न तु दुष्कृतं स्वम्
कृष्णां सभां कर्ण यदेकवस्त्रामानीतवांस्त्वं च सुयोधनश्च
दुश्शासनश्शकुनिस्सौबलश्च धर्मस्तदा ते रुचितो न कस्मात्
यदा सभायां कौन्तेयमनक्षज्ञं युधिष्ठिरम्
कैतवात्सौबलोऽजैषीद्दयालुं सर्वजन्तुषु
आजमीढकुले जातं क्व ते धर्मस्तदा गतः
वनवासे व्यतीते च कर्ण वर्षे त्रयोदशे
न प्रयच्छसि यद्राज्यं क्व ते धर्मस्तदा गतः
यद्भीमसेनं सर्पैश्च विषयुक्तैश्च भोजनैः
आरेभे त्वन्मुखो राजा क्व ते धर्मस्तदा गतः॥
यद्वारणावते पार्थान्सुप्ताञ्जतुगृहे तदा
आदीपयसि राधेय क्व ते धर्मस्तदा गतः
राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवान्
यदा शकुनिमाश्रित्य क्व ते धर्मस्तदा गतः
यदनार्यैः पुरा कृष्णां क्लिश्यमानामनागसीम्
उपप्रैक्षीश्च राधेय क्व ते धर्मस्तदा गतः
यदा रजस्वलां कृष्णां दुश्शासनवशे स्थिताम्
सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
पतिमन्यं वृणीष्वेति वदंस्त्वं गजगामिनीम्
उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः
यदाऽभिमन्युं बहवो युद्धे जघ्नुर्महारथाः
परिवार्य रणे बालं क्व ते धर्मस्तदा गतः
सञ्जयः
एवमुक्ते तु राधेये वासुदेवेन पाण्डवम्
मन्युरभ्याविशद्घोरस्स्मृत्वा तत्तद्धनञ्जयः
तस्य क्रुद्धस्य सर्वेभ्यस्स्रोतोभ्यः पावकार्चिषः
प्रादुरासंस्ततो राजंस्तदद्भुतमिवाभवत्
स समीक्ष्य ततः कर्णं प्रसह्मास्त्रैर्धनञ्जयः
ववर्ष शरवर्षाणि जिघांसुस्सूतजं तदा
कर्णश्चापि तदा राजन् क्रोधरक्तान्तलोचनः
अभ्यवर्षत्पुनर्यत्नमकरोच्च धनञ्जये
अस्त्रैरस्त्राणि संवार्य प्रजहार च पाण्डवः
ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः
मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल तेजसा
वारुणेन ततः कर्णश्शमयामास पावकम्
जीमूतैश्च दिशस्सर्वाश्चक्रे वीररस्सुदुर्दिनम्
पाण्डवेयो ह्यसम्भ्रान्तो वायव्यास्त्रेण तूलवत्
अपोवाह ततोऽस्त्राणि राधेयस्य महात्मनः
तत्राद्भुतं भारत सूतपुत्रश्चक्रे चक्रे भूमिमनुप्रविष्टे
यद्ययोधयत्पाण्डवमुग्रवेगं विव्याध चैनं दशभिः पृषत्कैः
तं हस्तिकक्षाप्रवरं हि केतुं सुवर्णमुक्तामणिवज्रजुष्टम्
कलाप्रकृष्टोत्तमशिल्पियत्नैः कृतस्वरूपं तपनीयचित्रम्
ऊर्जस्करं ते सततं बलस्य द्विषत्सेनाबाधनं भीमरूपम्
विख्यातमादित्यसुतस्य लोके त्विषा समं पावकभानुचन्द्रैः
ततः क्षुरेणातिरथेर्महात्मा सुवर्णपुङ्खेन शितेन यत्तः
श्रिया ज्वलन्तं ध्वजमुन्ममाथ महारथस्यातिरथेः किरीटी
यशश्च दर्पश्च बलञ्च मारिष प्रियाणि सर्वाणि च तेन केतुना
ध्रुवं कुरूणां हृदयानि चापतन्बभूव हाहेति च निस्स्वनो महान्
दृष्ट्वा ध्वजं तं पतितं पृथिव्यां कुरुप्रवीरेण निकृत्तमाशु
नाशंसिरे सूतपुत्रस्य सर्वे जयं जना भारत ये त्वदीयाः
अथ त्वरन्कर्णवधाय पार्थो महेन्द्राशनिसन्निकाशम्
आदत्त पार्थोऽञ्जलिकं निषङ्गात्सहस्ररश्मेरिव रश्मिमेकम्
मर्मच्छिदं बाणवरं सुपुङ्खं वैश्वानरार्कप्रतिमं ज्वलन्तम्
नराश्वनागासुहरं प्रदीप्तंवरार्हमञ्जोगतिमुग्रवेगम्
सहस्रनेत्राशनितुल्यनिस्स्वनं यमाननं व्यात्तमिवातिदुस्सहम्
पिनाकनारायणचक्रसन्निभं भयङ्करं प्राणभृतां विनाशनम्
जग्राह पार्थस्स शरं प्रहृष्टो यो देवसङ्घैरपि दुर्निवारः
सम्पूजितो यस्सततं महात्मना देवासुराणां च जये महेषुः
यं वै प्रकृष्टं प्रसमीक्ष्य युद्धे चचाल सर्वं सचराचरं जगत्
कृत्स्नं जगत्स्वस्त्यृषयो हि चक्रुस्तमुद्यतं दृश्य महात्मनेषुम्
युक्त्वा महास्त्रेण परेण मन्त्रैर्विकृष्य गाण्डीवमुवाच सत्वरम्
अर्जुनः
अयं महास्त्रप्रतिमशशरोत्तमश्शरीरहृच्चासुहरश्च दुर्हृदाम्
तपोभितप्तं गुरवश्च तोषिता मया यदीष्टं सुहुतं यदि श्रुतम्
अनेन सत्येन निहन्त्वयं शरस्सुसंहितः कर्णमरिं मयाऽर्चितः
सञ्जयः
अर्जुनः
इत्यूचिवांस्तं प्रमुमोच बाणं धनञ्जयः कर्णवधाय घोरम्
कृत्या ह्यथर्वाङ्गिरसी प्रचोदिता यथा तथा त्वं जहि शात्रवं मम
सञ्जयः
ब्रुवन्किरीटी तमतिप्रहृष्टस्सर्ज कर्णाय तदुग्रवेगम्
जिघांसुरर्केन्दुसमप्रभावः कर्णं वशी पाण्डवः क्षिप्रकारी
ततो विमुक्तो बलिना महेषुः प्रज्वालयामास नभो दिशश्च
सैन्यान्यनेकानि च विप्रकीर्य गाण्डीवमुक्तेन ततो महात्मा
तेनार्जुनस्तन्महनीयमस्य शिरोऽहरत्सूतपुत्रस्य राजन्
छिन्नं पपाताञ्जलिकेन पूर्णं कायोऽस्य पश्चाद्धरणीं जगाम
तदुद्यतादित्यसमानवर्चसं शिरस्तु मध्यन्दिनभास्करप्रभम्
वराङ्गमुर्व्यामपतच्चमूमुखे दिवाकरोऽस्तादिव रक्तमण्डलः
ततस्तु देही सततं सुखैधितं सुरूपमत्यर्थसुखं सुगन्धि च
परेण कृच्छ्रेण शरीरमत्यजद्गृहाम् महर्द्धीन्निवसन्निवेश्वरः
शरैर्विभिन्नं व्यसु तत्सुवर्म पपात कर्णस्य शरीमुज्झितम्
स्रवद्व्रणं गैरिकतोयमास्रवत् गिरेर्यथा वज्रहतं शिरस्तथा
देहात्तु कर्णस्य निपातितस्य तेजस्सूर्यं खं विदार्याविवेश
तदद्भुतं सर्वमनुष्ययोधास्ते दृष्टवन्तो निहते स्म कर्णे
तं सोमकाः प्रेक्ष्य हतं शयानं प्रीता निनादं मुमुचुस्ससैन्याः
तूर्याणि चाजघ्नुरतीव हृष्टा वासांसि चाप्यादुधुवुर्भुजांश्च
संवर्धयन्तश्च नरेन्द्र योधाः पार्थं समाजग्मुरतिप्रहृष्टाः
पताकिनीं चाप्यपरे ह्यनर्तयन्नन्योन्यमाश्लिष्य च तत्तदूचुः
दृष्ट्वा कर्णं भूमिमनुप्रविष्टं हृतं ह्रदात्सर्पमिवापविद्धम्
महानिलेनाद्रिमिवापविद्धं यज्ञावसानेऽग्निमिव प्रशान्तम्
तदाननं सूतपुत्रस्य राजन्विभ्राजते पद्ममिवापनालम्
रराज कर्णस्य शिरो निकृत्तमस्ते गिरौ भास्करस्येव बिम्बम्
ततः शङ्खान्पाण्डवा दध्मुरुच्चैर्दृष्ट्वा कर्णं पातितं फल्गुनेन
तथैव कृष्णश्च धनञ्जयश्चहृष्टौ यमौ दध्मतुर्वारिजातौ
सन्ताप्य सेनां स तु पाण्डवीं रणे शरांशुभिर्भास्करतुल्यधीरः
किरीटकालेन हि कर्णभास्करोऽप्यनीयतास्तं दिवसावसाने
शरैराचितसर्वाङ्गश्शोणितौघपरिप्लुतः
रराज देहः कर्णस्य स्वरश्मिभिरिवांशुमान्
निष्टप्य सेनामामित्रीं दीप्तैश्शरगभस्तिभिः
बलिनाऽर्जुनकालेन नीतोऽस्तं कर्णभास्करः
अस्तं गच्छन्यथाऽदित्यः प्रभामादाय गच्छति
एवं जीवितमादाय कर्णस्येषुर्जगाम ह
अपराह्णेऽपराह्णस्य सूतपुत्रस्य मारिष
छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः
उपर्युपरि सेनानां विनिघ्नन्नहितञ्जनम्
शिरः कर्णस्य सोऽत्सेधमिषुस्तदहरद्रणे
तच्छिरो भरतश्रेष्ठ शोभयामास मेदिनीम्
यदृच्छयेव पतितं मण्डलं चाण्डदीधितेः
तं दृष्ट्वा समरविमर्दलब्धनिद्रं दष्टोष्ठं रुधिरपरीतकातराक्षम्
राधेयं रथवरपृष्ठसन्निषण्णं हीनांशुर्दिवसकरो मुहूर्तमासीत्
निश्शब्दतूर्यं हतयोधमुख्यं प्रशान्तदर्पं धृतराष्ट्रसैन्यम्
न शोभते सूर्यसुतेन हीनं वृन्दं ग्रहाणामिव चन्द्रहीनम्
सहस्रनेत्रप्रतिमानकर्मणस्सहस्ररश्मिप्रतिमाननं शुभम्
सहस्ररश्मिर्दिवसक्षये यथा तथाऽपतत्कर्णशिरो वसुन्धराम्
व्यूढोरस्कं कमलनयनं तप्तहेमावभासं कर्णं दृष्ट्वा भुवि निपतितं पार्थबाणाभितप्तम्
पांसुग्रस्तं मलिनमसकृत्पुत्रमन्वीक्षमाणो मन्दम्मन्दं व्रजति सविता मन्दिरं मन्दरश्मिः