सञ्जयः
ततोऽपयाताश्शरपातमात्रमवस्थिता वै कुरवो नरेन्द्र
विद्युत्प्रकाशं ददृशुस्समन्ताद्धनञ्जयास्त्रं समुदीर्यमाणम्
ततोऽग्रसत्सूतपुत्रोऽर्जुनस्य वियद्गतं घोरतरं शरैस्तत्
क्रुद्धेन पार्थेन शरं विसृष्टं वधाय कर्णस्य महाविमर्दे
रामादुपात्तेन महामहिम्ना ह्याथर्वणेनारिविनाशनेन
तदर्जुनास्त्रं व्यधमद्दहन्तं पार्थं च बाणैर्निशितैरविध्यत्
ततो विमर्दस्सुमहान्बभूव धनञ्जयस्यातिरथेश्च राजन्
अन्योन्यमाधातयतोः पृषत्कैर्विषाणघातैर्द्विपयोरिवाजौ
ततोऽस्त्रसङ्घातसमावृतं तदा बभूव राजंस्तुमुलं रणाजिरम्
यत्कर्णपार्थौ शरवृष्टिसङ्घैर्निरन्तरं चक्रतुरम्बरं तदा
ततो महद्बाणमयं महाहवे जालं हि सर्वे ददृशुर्नरेन्द्राः
नान्यच्च भूतं ददृशे पतद्वै बाणान्धकारे तुमुले तु तस्मिन्
ततस्तु तौ वै पुरुषप्रवीरौ राजन्वरौ सर्वधनुर्धराणाम्
त्यक्त्वाऽऽत्मदेहौ समरेऽतिघोरे प्राप्तश्रमौ शत्रुदुरासदौ हि
दृष्ट्वा तु तौ संयति सम्प्रयुक्तौ परस्परं छिद्रनिविष्टदृष्टी
देवर्षिगन्धर्वगणास्सयक्षास्सन्तुष्टुवुस्तौ पितरश्च हृष्टाः
आदर्शयेतां युधि मार्गान्विचित्रान्धनुर्वरास्त्रैर्विविधैः कृतास्त्रैः
तयोरेवं युध्यतोराजिमध्ये सूतात्मजोऽभूदधिकः कदाचित्
पार्थः कदाचिदधिकः किरीटी वीर्यास्त्रमायाबलपौरुषेण
दृष्ट्वा तयोस्तं युधि सम्प्रहारं परस्परस्यान्तरमीक्षमाणयोः
घोरं तयोरविषह्यं रणेऽन्यैर्योधास्सर्वे विस्मयमभ्यगच्छन्
कर्णोऽथ पार्थं न विशेषयद्यदा भृशं च पार्थेन शराभितप्तः
ततो विमोक्तुं शरवर्यमुग्रं मनो दधे ह्येकशयस्य तस्य
ततो रिपुघ्नं समधत्त कर्णस्सुसंशितं सर्पमुखं ज्वलन्तम्
रौद्रं शरं संयति सुप्रधौतं पार्थार्थमित्येव चिराय गुप्तम्
सदाऽर्चितं चन्दनचूर्णदिग्धं सुवर्णनालीशयनं पुराणम्
आकर्णपूर्णं विचकर्ष कर्णो विमोक्तुकामश्शरमुग्रवेगम्
प्रदीप्तमैरावतनागपुत्रं शिरो जिहीर्षन् भरतर्षभस्य
ततः प्रजज्वाल दिशो नभश्च उल्काश्च घोरास्सहसा निपेतुः
तस्मिंस्तु नागे धनुषि प्रयुक्ते हाहाकृता देवगणास्सशक्राः
स सूतपुत्रस्तमपाङ्गदेशे अवाङ्मुखं सन्धयति स्म रोषात्
न तं स्म जानाति महानुभावमपाङ्गदेशेऽभिनिविष्टमाजौ
तमब्रवीन्मद्रराजो महात्मा दृष्ट्वा वैकर्तनं संहितबाणमाजौ
शल्यः
सञ्जयः
ग्रीवायतः कर्ण न संहितोऽयं समीक्ष्य सन्धत्स्व शरं परघ्नम्
तमब्रवीत्क्रोधविदीप्तनेत्रो मद्राधिपं सूतपुत्रो मनस्वी
कर्णः
न सन्धत्ते द्विश्शरं शल्य कर्णो न मादृशा युद्धशठा भवन्ति
सञ्जयः
तथोक्तवाक्यो विससर्ज तं शरं प्रयत्नतो वर्षगणाभिपूजितम्
हतोऽसि हे फल्गुन इत्यविक्लवं ब्रुवंस्तथोच्चैस्तरमूर्जितं वृषा
तमापतन्तं ज्वलितं निरीक्ष्य वियद्गतं वृष्णिकुलप्रवीरः
रथस्य चक्रं सहसा निपीड्य पञ्चाङ्गुलं मज्जयति स्म वीरः
ततोऽन्तरिक्षे सुमहान्निनादस्सम्पूजनार्थं मधुसूदनस्य
दिव्याश्च वातास्सहसा बभूवुर्दिव्यानि पुष्पाणि च कृष्णमार्च्छन्
तस्मिंश्च किञ्चिद्धरणीर्निमग्ने रथे प्रयत्नान्मधुसूदनस्य
स दुष्टभावो वितथप्रतिज्ञः किरीटमभ्याहरदर्जुनस्य
ततः किरीटं बहुरत्नचित्रितं जहार नागोऽर्जुनमूर्धतो बलात्
गिरेस्सुजाताङ्कुरपुष्पितद्रुमं महेन्द्रवज्रं शिखरं यथोत्तमम्
ततः किरीटं तपनीयचित्रं पार्थोत्तमाङ्गादहरत्तरस्वी
तद्धेमजालावनतं सुघोरं सम्प्रज्वलत्तन्निपपात भूमौ
ततोऽर्जुनस्योत्तमगात्रभूषणं सुवर्णमुक्तामणिवज्रभूषितम्
धरावियत्स्वस्सलिलेषु विश्रुतं बलास्त्रसर्पोत्तममन्युधिस्सदा
शरेण मूर्ध्नः प्रजहार सूतजो दिवाकरेन्दुज्वलनग्रहत्विषम्
पुरन्दरार्थं तपसा प्रयत्नतस्स्वयं कृतं यद्विधिना स्वयम्भुवा
महार्हरूपं द्विषतां भयङ्करं बिभर्तुमत्यर्थसुखं सुगन्धि च
निजघ्नते देवरिपून्सुरेश्वरस्स्वयं ददौ यद्धि मुदाऽर्जुनाय
हरप्रचेतोहरिवित्तगोप्तृभिः पिनाकपाशाशनिदण्डधारिभिः
सुरोत्तमैरप्यविषह्यमर्दितुं प्रसह्य नागेन जहार तद्वृषा
तदुत्तमेषून्मथितं विषाग्निना प्रदीप्तमर्चिष्मदतीव सुन्दरम्
पपात पार्थस्य किरीटमुत्तमं दिवाकरोऽस्तादिव पर्वताज्ज्वलन्
महीवियद्द्योसलिलानि वायुना प्रसह्य रुग्णानि विचूर्णितानि वा
इतीव शब्दं भुवनेषु तं तथा जना व्यवस्यन्ति दिशश्च विह्वलाः
विना किरीटं शुशुभे स पार्थश्श्यामो युवा शैल इवात्तशृङ्गः
ततस्समुद्ग्रथ्य सितेन वाससा स्वमूर्धजानव्यथितस्तदाऽर्जुनः
बभौ सुसम्पूर्णमरीचिनेन्दुना शिरोगतेनोदयपर्वतो यथा
स चापि राधेयभुजप्रमुक्तो हुताशनार्कप्रतिमद्युतिर्महान्
महोरगः कृतवैरोऽर्जुनेन किरीटमाहृत्य समुत्पपात
तं चापि दृष्ट्वा तपनीयचित्रं किरीटहाऽऽविष्कृतमर्जुनस्य
इयेष गन्तुं पुनरेव तूर्णं हृष्टश्च कर्णेन तदाऽब्रवीत्तम्
नागः
मुक्तस्त्वयाऽहं न समीक्ष्य कर्ण शिरो हृतं यन्न मयाऽर्जुनस्य
समीक्ष्य मां मुञ्च रणे त्वमाशु हन्तास्मि शत्रुं तव चात्मनश्च
नागोऽस्मि श्वेतः कृतवैरो महात्माऽर्जुनेन माता पुरा ह्युत्पतिता नभस्तः
मां त्रायती मृत्युभयाभिपन्नमनेन नीता पितृराजवेश्म
कर्णः
न नाग कर्णोऽद्य रणे परस्य बलं समास्थाय जयं बुभूषेत्
ममैव बाह्वोस्तु बलेन शक्तो युध्यर्जुनानां शतमेव हन्तुम्
व्रतं यदत्रापि न वेत्सि मे भवान्न नाम कृष्णस्य समक्षमेव
एष ह्यहं त्वा युधि पाण्डवानां हन्तास्मि युद्धे हि स्वविक्रमेण
एतद्व्रतं जानमानः प्रयातः किं वै कृता पार्थवधे प्रतिज्ञा
सञ्जयः
इत्येवमुक्तो युधि नागराजः कर्णेन रोषादसहंस्तस्य वाक्यम्
स्वयं प्रायात्पार्थवधाय राजन् कृत्वा स्वरूपं विजिघांसुरुग्रः
श्रीभगवान्
इयेष गन्तुं पुनरेव तूर्णं कर्णान्तिकं कृतवैरस्स नागः
तमुत्पतन्तं द्विपदां वरिष्ठो दृष्ट्वा वचः पार्थमुवाच कृष्णः
महोरगं पाण्डव पश्यपश्य प्रयोजितं त्वन्निधनार्थमुग्रम्
सञ्जयः
स एवमुक्तो मधुसूदनेन गाण्डीवधन्वा हरिमुग्रधन्वा
उवाच को न्वेष ममाद्य नाथ क्षयाय नागाद्गरुडस्य वक्त्रम्
श्रीभगवान्
योऽसौ त्वया खाण्डवे चित्रभानुं सन्तर्पयाणेन धनुर्धरेण
वियद्गतो जननीगुप्तदेहो न घातितो निहता चास्य माता
स एष तद्वैरमनुस्मरन्वै त्वां प्रार्थयत्यात्मवधाय नागः
नभश्चुतां प्रज्वलितामिवोल्कां पश्यैनमायान्तममित्रसाहम्
सञ्जयः
ततस्स जिष्णुः परिवृत्य रोषाच्चिच्छेद षड्भिर्निशितैस्सुधारैः
नागं बली तिर्यगिवापतन्तं सञ्च्छिन्नगात्रो निपपात भूमौ
तस्मिन्मुहूर्ते दशभिः पृषत्कैश्शिलाशितैर्बर्हिणकङ्कपत्रैः
विव्याध कर्णः पुरुषप्रवीरं धनञ्जयं तिर्यगवेक्षमाणम्
ततोऽर्जुनो द्वादशभिस्सुतीक्ष्णैर्वराहकर्णैर्निशितैः प्रविध्य
नाराचमाशीविषतुल्यवेगमाकर्णपूर्णायतमुत्ससर्ज
स चित्रवर्मेषुवरो विदार्य प्राणान्निरस्यन्निव साधुमुक्तः
कर्णस्य पीत्वा रुधिरं विवेश वसुन्धरां शोणितदिग्धवाजः
ततो वृषा बाणनिपातरोषितो महोरगो दण्डविघट्टितो यथा
तदाऽऽशुकारी व्यसृजच्छरोत्तमान्महाविषस्सर्प इवोत्तमं विषम्
जनार्दनं द्वादशभिः पराभिनन्नवैर्नवत्या च शरैर्वृषाऽर्जुनम्
शरेण घोरेण पुनश्च पाण्डवं विभिद्य कर्णो व्यनदज्जहास च
ततोऽस्य वक्षश्शरवर्षेण पार्थो बिभेद मर्माणि ततोऽस्य मर्मवित्
परश्शतैः पत्रिभिरिन्द्रविक्रमस्तथा यथेन्द्रो बलमोजसा रणे
ततश्शरान् वै नवतिं तदाऽर्जुनस्ससर्ज कर्णेऽन्तकदण्डसन्निभान्
स तैर्भृशाविष्टतनुः प्रविव्यथे तथा यथा वज्रविदारितोऽचलः
मणिप्रवेकोज्वलवज्रहाटकैरलङ्कृतं चास्य वराङ्गभूषणम्
प्ररुग्णमुर्व्यां निपपात पत्रिभिर्धनञ्जयेनोत्तमकुण्डलेऽपि च
महाधनं शिल्पिवरैः प्रयत्नतः कृतं यदस्योत्तमवर्म भास्वरम्
सुदीर्घकालेन तदस्य पाण्डवः क्षणेन बाणैर्बहुधा व्यशातयत्
तस्येषुभिः खण्डितकुण्डलान्तः परिक्षतश्चाभ्यधिकं तदानीम्
स लोहिताङ्गश्रवणश्चकाशे सलोहिताङ्गश्रवणो यथा दिवि
स तं विवर्माणमथोत्तमेषुभिश्शितैश्चतुर्भिः कुपितः पराभिनत्
स विव्यथेऽत्यर्थमरातिहा तथा यथाऽऽतुरः पित्तकफानिलव्रणैः
महाधनुर्मण्डलनिस्सृतैश्शितैः क्रियाप्रयत्नप्रहितैर्बलेन च
ततस्स कर्णं बहुभिश्शरोत्तमैर्बिभेद मर्मस्वपि चार्जुनस्त्वरन्
दृढाहतः पत्रिभिरुग्रवेगैः पार्थेन कर्णो विविधैश्शिताग्रैः
बभौ गिरिर्गैरिकधातुरक्तः क्षरन्प्रपातैरिव रक्तमम्भः
ततोऽर्जुनः कर्णमवक्रगैश्शरैस्सुवर्णपुङ्खैस्सुदृढैरयस्मयैः
यमाग्निदण्डप्रतिमैस्स्तनान्तरे पराभिनत्क्रौञ्चमिवाद्रिमग्निजः
ततश्शरावापमपास्य सूतजस्त्यक्त्वा धनुश्शक्रशरासनोपमम्
ततो रथस्थस्स मुमोह च स्खलन्प्रशीर्णमुष्टिस्सुभृशाहतस्तदा
न चार्जुनस्तं व्यसने तदैच्छन्निहन्तुमार्यः पुरुषव्रते स्थितः
ततस्तमिन्द्रावरजस्सुसम्भ्रमादुवाच किं पाण्डव हे प्रमाद्यसे
नैवाहितानां सततं विपश्चितः क्षणं प्रतीक्षन्त्यपि दुर्बलीयसाम्
विशेषतोऽरीन्व्यसनेषु पण्डितो निहत्य धर्मं च यशश्च विन्दति
तदेकवीरं तव चाहितं सदा त्वरस्व कर्णं सहसा विमर्दितुम्
पुरा समर्थस्समुपैति सूतजो जहि त्वमेनं नमुचिं यथा हरिः
ततस्तथैवेत्यभिपूज्य सत्वरं जनार्दनं कर्णमविध्यदर्जुनः
शरोत्तमैस्सर्वकुरूत्तमस्त्वरंस्तथा यथा शम्बरहा पुरा बलिम्
साश्वं तु कर्णं सरथं किरीटी समाचिनोद्भारत वत्सदन्तैः
प्रच्छादयामास दिशश्च सर्वा बाणैश्शिताग्रैस्तपनीयपुङ्खैः
सवत्सदन्तैः पृथुपीनवक्षास्समाचितस्त्वातिरथिर्विभाति
सुपुष्पिताशोकपलाशशाल्मलिर्यथाऽचलश्चम्पककाननायुतः
शरैश्शरीरं बहुधा समाचितं विभाति कर्णस्य विशाम्पते रणे
महीरुहैराचितसानुगह्वरो यथा नगेन्द्रश्शुभकर्णिकारः
स बाणसङ्घान्धनुषा व्यवासृजन्विभाति कर्णश्शररश्मिजालवान्
स लोहितो रक्तगभस्तिमण्डलो दिवाकरोऽस्ताभिमुखो यथा तथा
बहूञ्छितानातिरथिप्रमुक्तान्बाणान्महाहीनिव दीप्यमानान्
विध्वंसयामास स वेगमुक्तैश्शरैस्समावृत्य दिशस्समग्राः
कालोऽप्यदृश्यो नृप विप्रशापान्निदर्शयन्कर्णवधं ब्रुवाणः
भूमिस्तु चक्रं ग्रसतीत्यवोचत्कर्णस्य तस्मिन्वधकालेऽभ्युपेते
न चास्य घोरं प्रतिभाति चास्त्रं यद्भार्गवो ह्यस्य ददौ महात्मा
चक्रं तु वामं ग्रसतेऽस्य भूमिर्यथाऽस्यकाले मृत्युपतिर्व्यतिष्ठत्
ततो रथो भारत घूर्णते स्म शापात्तदा ब्राह्मणसत्तमस्य
प्राप्तं वधं शंसति तन्महास्त्रं प्रणश्यमानं द्विजमुख्यशापात्
सवेदिकश्चैत्य इवातिमात्रस्सुपुष्पितो भूमितले निमग्नः
छिन्ने शरे सर्पमुखे च घोरे पार्थेन तस्मिन्विषसाद कर्णः
मग्नं रथं ब्राह्मणशापमूढो ह्यस्त्रं च तं मोघमिषुं च सर्पम्
अमृष्यमाणो व्यसनानि तानि हस्तौ विधून्वन्विजगर्ह धर्मम्
कर्णः
धर्मप्रधानानभिपाति धर्म इत्यब्रुवन्धर्मविदस्सदैव
नैवाद्य चास्मानभिपाति भक्तान्मन्ये न नित्यं परिपाति धर्मः
सञ्जयः
एवं ब्रुवन्प्रस्खलिताश्वसूतो विचाल्यमानोऽर्जुनबाणघातैः
मर्माभिघाताच्छिथिलः क्रियासु पुनः पुनर्धर्ममगर्हयद्वै
ततश्शरैर्भीमतरैरविध्यत्त्रिभिराहवे
हस्ते कृष्णं तथा पार्थमभ्यविध्यत्स सप्तभिः
ततोऽर्जुनस्सप्तदश तिग्मतेजा महाजवान्
इन्द्राशनिसमस्पर्शानसृजत्पावकोपमान्
निर्भिद्य तं ते वेगेन न्यपतन्पृथिवीतले
कम्पितात्मा ततः कर्णश्शक्तिं शिक्षां च दर्शयन्
बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदीरयत्
ऐन्द्रं ततोऽर्जुनश्चापि तं दृष्ट्वाह्युपमन्त्रयत्
गाण्डीवं ज्यां शरान्दिव्यानभिमन्त्र्य परन्तपः
व्यसृजच्छरवर्षाणि घर्मान्ते जलदो यथा
ततस्तेजोमया बाणा रथात्पार्थस्य निस्सृताः
प्रादुरासन्महावीर्याः कर्णस्य च रथान्तिकात्
स कर्णोऽग्रसदस्यास्त्रं कुर्वन्मोघं महारथः
ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे निपातिते
श्रीभगवान्
विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान्
सञ्जयः
ततो ब्रह्मास्त्रमव्यग्रस्सम्मन्त्र्य समयोजयत्
छादयित्वा ततो बाणैः कर्णं प्रत्यास्यदर्जुनः
तस्य कर्णश्शितैर्बाणैर्ज्यां च्छित्त्वा समताडयत्
ततो ज्यां विनिधायान्यामनुमन्त्र्य च पाण्डवः
शरैरवाकिरत्कर्णं दीप्यमानैरिवाग्निभिः
तस्य ज्याच्छेदनं कर्णो ज्याविधानं च संयुगे
नावबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत्
अस्त्रैरस्त्राणि संवार्य प्रत्यघ्नत्सव्यसाचिनम्
चक्रे चाभ्यधिकं पार्थात्स्वयं वीर्यं प्रदर्शयन्
ततः कर्णोऽर्जुनं दृष्ट्वा स्वस्यास्त्रेणावपीडितम्
युध्यस्वेत्यब्रवीत्पार्थमातिष्ठ त्वं तथेति वै
ततः कालाग्निसदृशं शरं सर्पविषोपमम्
अश्मसारमयं दिव्यमनुमन्त्र्य परन्तपः
रौद्रमस्त्रं समाधाय क्षेप्तुकामः किरीटिने
ततोऽग्रसन्मही चक्रं राधेयस्य तदा नृप
ग्रस्तचक्रश्च राधेयो रोषादश्रूण्यवर्तयत्
अर्जुनं चाब्रवीत्कर्णो मुहूर्तं क्षम पाण्डव
सव्यं चक्रमवग्रस्तं भूमौ दैवादिदं मम
पार्थ कापुरुषाचीर्णमभिसन्धिं विसर्जय
प्रकीर्णकेशे विमुखे विकले ब्रह्मवादिनि
शरणागते न्यस्तशस्त्रे याचमाने तथाऽर्जुन
अबाणे भ्रष्टकवचे भ्रष्टचक्रायुधे तथा
न विमुञ्चन्ति हि शस्त्राणि शूरास्साधुव्रते स्थिताः
त्वं च शूरतमो लोके साधुवृत्तश्च पाण्डव
अभिज्ञो युद्धधर्माणां तस्मात्क्षम मुहूर्तकम्
दिव्यास्त्रविदमेयात्मा कार्तवीर्यसमो ह्यसि
यावच्चक्रमिदं भूमेरुद्धरामि धनञ्जय
न मां रथस्थो भूमिष्ठं विसञ्ज्ञं हन्तुमर्हसि
न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम्
त्वं हि क्षत्रियदायादो महालकुलविवर्धनः
श्रुत्वा धर्मोपदेशं त्वं मुहूर्तं क्षम पाण्डव