सञ्जयः
तौ शङ्खभेरीनिनदे समृद्धे समीयतुश्श्वेतहयौ नराग्र्यौ
वैकर्तनस्सूतपुत्रोऽर्जुनश्च दुर्मन्त्रिते ते ससुतस्य राजन्
आशीविषावग्निमिवापधूमं वैरं मुखाभ्यामभिनिश्श्वसन्तौ
यशस्विनौ जज्वलतुर्मृधे तदा घृतावसिक्ताविव हव्यवाहौ
यथा गजौ हैमवतौ प्रभिन्नौ प्रगृह्य दन्ताविव वाशितार्थे
तथा समाजग्मतुरुग्रवीर्यौ धनञ्जयश्चातिरथिश्च वीरौ
बलाहकेनेव यथा बलाहको यदृच्छया वै गिरिणा गिरिर्यथा
तथा धनुर्ज्यातलनेमिनिस्स्वनौ समीयतुस्ताविषुवर्षवर्षिणौ
शरास्त्रशक्त्यृष्टिगदासिसर्पौ रोषानिलोद्धूतमहोर्मिमालिनौ
यथाऽचलौ द्वौ चलतस्तथा तौ यथाऽर्णवौ तौ ययतुर्युगान्ते
प्रवृद्धशृङ्गद्रुमवीरुदोषधी प्रवृद्धनानाविधनिर्झरौकसौ
यथाऽचलौ वा चलितौ महाजलैस्तथा महास्त्रैरितरेतरं घ्नतः
स सन्निपातो रथयोर्महानभूत्सुरेन्द्रवैरोचनयोरिवानयोः
शरैर्विनुन्नाश्वनियन्तृदेहयोस्सुदुस्सहोऽस्त्रैः परिभिन्नदेहयोः
प्रभूतपद्मोत्पलमत्स्यकच्छपौ महाह्रदौ पक्षिगणानुनादितौ
सुसन्निकृष्टावनिलोद्धतौ यथा तथा रथौ तौ ध्वजिनौ समीयतुः
उभौ महेन्द्रस्य समानविक्रमावुभौ महेन्द्रप्रतिमौ महारथौ
महेन्द्रवज्रप्रतिमैश्च महाशरैर्महेन्द्रवृत्राविव सम्प्रजघ्नतुः
सनागपत्त्यश्वरथे उभे बले विचित्रवर्माभरणाम्बरायुधे
चकम्पतुश्चोन्नदतुश्च विस्मयाद्धरा वियच्चार्जुनकर्णसङ्गमे
भुजास्सवस्त्राङ्गुलयस्समुच्छ्रितास्ससिंहनादैर्हृषितैर्दिदृक्षुभिः
यदाऽर्जुनं मत्त इव द्विपो द्विपं समभ्ययादातिरथिर्जिघांसया
ततः कुरूणामथ सोमकानां शब्दो महान् प्रादुरभूत्समन्तात्
यदाऽर्जुनं सूतपुत्रोऽपराह्णे महाहवे शैलमिवाम्बुदोऽर्च्छत्
तदैव चासीद्रथयोस्समागमो महारणे शोणितमांसकर्दमे
उदक्रोशन्सोमकास्तत्र पार्थं त्वरस्व याह्यर्जुन युध्य कर्णम्
छिन्ध्यस्य मूर्धानमलं चिरेण श्रद्धां च राज्याद्धृतराष्ट्रसूनोः
तथाऽस्मदीया बहवोऽत्र योधाः कर्णं तथा याहि याहीत्यवोचन्
जह्यर्जुनं कर्ण ततस्सुदीनाः पुनर्वनं यान्त्वचिरेण पार्थाः
कर्णोऽथ पूर्वं दशभिः पृषत्कैर्गाण्डीवधन्वानमविध्यदाशु
जघान तं चापि ततः किरीटी शरैस्तदाऽष्टादशभिस्सुमुक्तैः
पुनश्च कर्णस्त्वरितोऽपि पार्थं रथेषुभिस्तं दशभिर्जघान
तं चापि पार्थो दशभिश्शिताग्रैः कक्ष्यान्तरे तीक्ष्णमुखैरविध्यत्
कर्णस्ततो भारत साम्पराये घोरेऽतिवेलं रणसंविमर्दी
जघान पार्थं नवभिश्शिताग्रैः कक्ष्यान्तरे नागमिव प्रभिन्नम्
ततोऽपराभ्यां युधि सूतपुत्रो द्वाभ्यां क्षुराभ्यां हरिमाशुकारी
समाजघान त्वरया महात्मा यथा सुरेन्द्रं नमुचिः प्रसह्य
तं पाण्डवः पञ्चभिरायसाग्रैराकर्णपूर्णैर्निजघान कर्णम्
ते शोणितं तस्य पपुस्तदानीं कालस्य दूता इव पार्थबाणाः
कर्णोऽपि पार्थं सहवासुदेवं समाचिनोद्भारत वत्सदन्तैः
परस्परं तौ विशिखैः प्रमुक्तैस्ततक्षतुस्सूतपुत्रोऽर्जुनश्च
परस्परच्छिद्रदिदृक्षया च सुभीममभ्याययतुः प्ररुष्टौ
ततोऽस्त्रमाग्नेयममित्रतापनं मुमोच कर्णाय सुरेश्वरात्मजः
धनञ्जयस्संयुगमूर्धनि त्वरन्नथ प्रजज्वाल तदस्त्रमुत्तमम्
समीक्ष्य कर्णो ज्वलनास्त्रमुद्यतं स वारुणं तत्प्रशमार्थमाहवे
समुत्सृजत्सूतपुत्रः प्रतापवान्स तेन वह्निं शमयाम्बभूव ह
बलाहकास्त्रेण दिशस्तरस्वी चकार सर्वास्तिमिरेण संवृताः
अपावहन्मेघगणांस्ततस्तान्समीरणास्त्रेण समीरितेन सः
ततश्च सोऽस्त्रं दयितं देवराज्ञः प्रादुश्चक्रे वज्रममित्रतापनः
गाण्डीवज्यां विमृशंश्चातिमन्युर्धनञ्जयश्शत्रुसङ्घप्रमाथी
नाराचनालीकवराहकर्णा गाण्डीवतः प्रादुरासन्सुतीक्ष्णाः
सहस्रशो वज्रसमानवेगास्ते सर्वतः पर्यधावन्त घोराः
पार्थेषवः कर्णरथं विहङ्गा अयोमुखाः पक्षिगणा दिनान्ते
निशानिकेतार्थमिवाशु वृक्षं जग्राह तान्सूतपुत्रः पृषत्कैः
क्षिप्तांस्तथा पाण्डवबाणसङ्घानमृष्यमाणस्य धनञ्जयस्य
रणाजिरे त्वन्तकतुल्यकर्मा वैकर्तनो रोषपरीतचेताः
दृढार्द्यमानश्च समुद्रघोषः प्रादुश्चक्रे भार्गवास्त्रं महात्मा
महेन्द्रशस्त्राभिमुखान्विमुक्तांश्छित्वा कर्णः पाण्डवस्येषुसङ्घान्
तस्यास्त्रमस्त्रेण निहत्य सोऽथ जघान सङ्ख्ये रथनागपत्तीन्
अदृष्यमाणश्च महेन्द्रकर्मा महारणे भार्गवास्त्रप्रपातात्
पाञ्चालानां प्रवरांश्चापि योधान् क्रोधाविष्टस्सूतपुत्रस्तरस्वी
अभ्यर्दयद्बाणगणैः प्रसह्य विद्ध्वा हयान् सङ्गते सूतपुत्रः
ते भिन्नदेहा व्यसवो निपेतुः कर्णेषुभिर्भूमितले स्वनन्तः
क्रुद्धेन सिंहेन यथेभयूथा महागजा भीमबलेन तद्वत्
पाञ्चालानां प्रवरान् सन्निहत्य प्रसह्य योधान् शतशो नृवीरः
ततस्स राजन्विरराज कर्णो यथाऽम्बरे भास्कर उग्ररश्मिः
कर्णस्य मत्वा तु जयं त्वदीया मुदा युतास्सिंहनादांश्च चक्रुः
सर्वे ह्यमन्यन्त भृशाहतौ च कर्णेन कृष्णाविति कौरवेन्द्र
तत्तादृशं प्रेक्ष्य च कर्म चाजौ कर्णस्य वीर्यं च परैरसह्यम्
कृष्णं च कर्णेन धनञ्जयं च तदाऽऽजिमध्ये निहतं तदस्त्रम्
ज्योतिष्प्रभां यद्वदुपागतस्सन्दिवाकरो नाशयते क्षणेन
पार्थस्य तान्बाणगणान्समग्रान्व्यनाशयद्युध्यत एव कर्णः
रोषात्प्रदीप्तस्सुमहाविमर्दे भीमस्ततोऽक्रुध्यददीनसत्त्वः
पाणिं स्वपाणौ स विनिष्पिष्य रोषादमर्षितो वाक्यमुवाच पार्थम्
भीमः
त्वां सूतपुत्रो नु कथं किरीटिन्रथेषुभिर्हन्ति शिताग्रधारैः
धृत्या हि भूतानि ययाऽजयस्त्वं ग्रासं ददत्खाण्डवे पावकाय
सञ्जयः
धृत्या तया सूतपुत्रं जहि त्वमहं वैनं गदया पोथयिष्ये
समेत्य पार्थं सुनृशंसवादी जीवन्नायं यास्यति कालपक्वः
अथाब्रवीच्चक्रधरोऽपि पार्थं दृष्ट्वा रथेषून्प्रतिहन्यमानान्
श्रीभगवान्
अमूमुषत्पश्यत एव तेऽद्य शस्त्राणि कर्णोऽस्त्रगणैः किरीटिन्