सञ्जयः
तद्देवनागासुरसिद्धयक्षगन्धर्वरक्षोप्सरसां च सङ्घैः
ब्रह्मर्षिराजर्षिसुपर्णजुष्टं बभौ वियद्विस्मयनीयरूपम्
रारस्यमानं निनदैर्मनोज्ञैर्वादित्रगीतस्तुतिहासनृत्तैः
सर्वेऽन्तरिक्षं ददृशुर्मनुष्याः खस्थाश्च तान्विस्मयनीयरूपान्
ततः प्रहृष्टाः कुरुपाण्डुमुख्या वादित्रपत्रायुधसिंहनादैः
सन्नादयन्तो वसुधां दिशश्च स्वनेन सर्वे द्विषतो निजघ्नुः
रथाश्वमातङ्गनरायुतं शरासिशक्त्यृष्टिनिपातदुस्सहम्
अभीरुजुष्टं हतदेहसङ्कुलं रणाजिरं लोहितरक्तमाबभौ
तथा प्रवृते सुभृशं परन्तपौ धनञ्जयश्चातिरथिश्च सायकैः
दिशश्च सर्वा निशितैरजिह्मगैः परस्परं प्रावृणुतं च दंशितौ
ततस्त्वदीयाश्च परे च सायकैः कृतेऽन्धकारे विविदुर्न किञ्चन
भयात्तु तावेव रथौ समाश्रयंस्तमोनुदं स्वप्रसृता इवांशवः
ततोऽस्त्रमस्त्रेण परस्परं च तौ विधूय वाताविव पूर्वपश्चिमौ
घनान्धकारे विगते तमोनुदौ यथोदितौ तद्वदतीव रेजतुः
न चाभिसर्तव्यमिति प्रचोदिताः परे त्वदीयाश्च तथाऽवतस्थिरे
महारथौ तौ परिवार्य सर्वतस्सुरासुरा वासवशम्बराविव
मृदङ्गभेरीपणवानकस्वनैर्निनादितौ वाहनशङ्खनिस्वनैः
तौ सिंहनादैर्बभतुर्नरोत्तमौ शशाङ्कसूर्याविव दुस्सहौ युधि
महाधनुर्मण्डलमध्यगोचरौ सुवर्चसौ बाणसहस्रदीधिती
दिधक्षमाणौ सचराचरं जगद्युगान्तसूर्याविव दुस्सहौ युधि
उभावजय्यावहितान्तकावुभावुभौ जिघांसू कृतिनौ परस्परम्
महाहवे वीरतरौ समीयतुर्स्सुरेन्द्रजम्भाविव कर्णपाण्डवौ
ततो महास्त्राणि महाधनुर्धरौ विमुञ्चमानाविषुभिर्भयानकैः
रथान् द्विपंश्चापि तथा हयान्नरान् परस्परं जघ्नतुरुत्तमेषुभिः
ततो विसस्रुः पुनरर्दिताश्शरैर्नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः
सनागपत्त्यश्वरथा दिशो द्रुतास्तथा यथा सिंहभयाद्वनौकसः
ततस्तु दुर्योधनभोजसौबलाः कृपो गुरोश्चापि सुतो महाहवे
महारथाः पञ्च धनञ्जयाच्युतौ शरैश्शरीरार्तिकरैरताडयन्
धनूंषि तेषामिषुधीन्ध्वजान्हयान्रथांश्च सूतांश्च धनञ्जयश्शरैः
समं प्रचिच्छेद पराभिनच्च तान् शरोत्तमैर्द्वादशभिश्च सूतजम्
अथाभ्यधावंस्त्वरिताश्शतं रथाश्शतं चनागा जयमाततायिनः
शकास्तुरङ्गैर्यवनाश्च सादिनस्सहैव काम्भोजवरैर्जिघांसवः
वरायुधैः प्राणिशतं शरैस्सह क्षुरैर्निकृत्ततान्यपतञ्शिरांसि च
हयाश्च नागाश्च रथाश्च युध्यता धनञ्जयेनारिगणाः क्षता इति
ततोऽन्तरिक्षे सुरतूर्यनिस्स्वनास्ससाधुवादा हृषितैस्समीरिताः
निपेतुरप्युत्तमपुष्पवृष्टयस्सुरूपगन्धाः पवनेरिताश्शुभाः
तदद्भुतं देवमनुष्यसाक्षिकं समीक्ष्य भूतानि विसिस्मिरे नृप
तवात्मजस्सूतसुतश्च तावुभौ न विस्मयं जग्मतुरेकनिश्चयौ
अथाब्रवीद्द्रोणसुतस्तवात्मजं करं करेण प्रतिपीड्य सान्त्वयन्
अश्वत्थामा
प्रसीद दुर्योधन शाम्य पाण्डवैरलं विरोधेन धिगस्तु विग्रहम्
हतो गुरुर्ब्रह्मसमो महास्त्रवित्तथैव भीष्मप्रमुखा महारथाः
अहं त्ववध्यो मम चैव मातुलः प्रशाधि राज्यं सह पाण्डवैश्चिरम्
धनञ्जयस्स्थास्यति वारितो मया जनार्दनो नैव विरोधमिच्छति
युधिष्ठिरो भूतहिते रतस्सदा वृकोदरस्तद्वशगस्तथा यमौ
त्वया च पार्थेन कृते च संविदे प्रजास्सुखं प्राप्नुयुरिच्छया तव
व्रजन्तु शेषास्स्वपुराणि पार्थिवा निवृत्तवैराश्च भवन्तु सैनिकाः
न चेद्वचश्श्रोष्यसि मे नराधिप ध्रुवं हि तप्तासि हतोऽरिभिर्युधि
वृद्धं पितरमालोक्य गान्धारीं च यशस्विनीम्
कृपालुर्धर्मराजो हि याचितश्शममेष्यति
यथोचितं च वै राज्यमनुज्ञास्यति ते प्रभुः
विपश्चित्सुमतिर्धीरस्सर्वशास्त्रार्थतत्त्ववित्
वैरं नेष्यति धर्मात्मा स्वजने नास्त्यतिक्रमः
न विग्रहमतिः कृष्णस्स्वजने प्रतिनन्दति
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ
वासुदेवमते चैव पाण्डवस्य च धीमतः
स्थास्यन्ति पुरुषव्याघ्रास्तयोर्वचनगौरवात्
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम्
जीवने यत्नमातिष्ठ जीवन्भद्राणि पश्यति
राज्यं श्रीश्चैव भद्रं ते जीवमाने तु कल्पते
मृतस्य खलु कौरव्य नैव राज्यं कुतस्सुखम्
लोकवृत्तमिदं वृत्तं प्रवृत्तं पश्य भारत
शाम्य त्वं पाण्डवैस्सार्धं शेषं कुरु कुलस्य च
मा भूत्स कालः कौरव्य यदाऽहमहितं वचः
ब्रूयां कामं महाबाहो माऽवमंस्था वचो मम
धर्मिष्ठमिदमत्यर्थं राज्ञश्चैव कुलस्य च
एतद्धि परमं श्रेयः कुरुवंशस्य वृद्धये
प्रजाहितं च गान्धारे कुलस्य च सुखावहम्
पथ्यमायतिसंयुक्तं कर्णोऽप्यर्जुनमाहवे
न जेष्यति नरव्याघ्रमिति मे निश्चिता मतिः
रोचतां ते नरश्रेष्ठ ममैतद्वचनं शुभम्
अतोऽन्यथा हि राजेन्द्र विनाशस्सुमहान्भवेत्
इदं च दृष्टं जगता सह त्वया कृतं यदेकेन किरीटमालिना
यथा न कुर्याद्बलहा न चान्तको न च प्रचेता भगवान्न यक्षराट्
अतोऽपि भूयांश्च गुणैर्धनञ्जयो न चातिभेत्स्यत्यखिलं वचो मम
तवानुयात्रां च सदा करिष्यति प्रसीद राजेन्द्र शमं त्वमाप्नुहि
ममाभिमानः परमस्सदा त्वयि ब्रवीम्यतस्त्वां परमाच्च सौहृदात्
निवारयिष्यामि च कर्णमाहवान्महान्हि मेऽस्ति प्रणयोऽत्र सूतजे
वदन्ति मैत्रीं सहजां विचक्षणास्तथैव साम्ना च धनेन चोर्जिताम्
प्रतापतश्चोपनतां चतुर्विधां तदस्ति सर्वं त्वयि पाण्डवेषु च
निसर्गतस्ते तव वीर बान्धवाः पुनश्च साम्ना हितमाप्नुयुः प्रभो
त्वयि प्रसन्ने यदि मित्रतामीयुर्हितं कृतं स्याज्जगतस्त्वयाऽतुलम्
सञ्जयः
इतीदमुक्तस्सुहृदा वचो हितं विचिन्त्य निश्श्वस्य च दुर्मनाऽब्रवीत्
दुर्योधनः
यथा भवानाह सखे तथैव तन्ममापि विज्ञापयतो वचश्शृणु
निहत्य दुश्शासनमुक्तवान्बहु प्रहस्य शार्दूलवदेष दुर्मतिः
वृकोदरस्तद्धृदये मम स्थिरं न तत्परोक्षं भवतः कुतश्शमः
न चापि कर्णं प्रसहेद्रणेऽर्जुनो महागिरिं मेरुमिवोग्रमारुतः
न चाश्वसिष्यन्ति पृथात्मजा मयि प्रसज्य वैरं बहुशो विषह्य च
न चापि कर्णं गुरुपुत्र संयुगादुपारमेत्यर्हसि वीर भाषितुम्
श्रमेण युक्तो महताऽद्य फल्गुनस्तमेष कर्णः प्रसभं हनिष्यति
वसुन्धरायाः परिवर्तनं भवेद्व्रजेच्च शोषं मकरालयोऽर्णवः
प्लवेयुरप्यद्रिवरा महाम्बुधौ न चार्जुनो जेष्यति कर्णमाहवे
अपां पृथिव्या नभसो नभस्वतस्सुतिग्मदीप्तेश्च हिरण्यरेतसः
अभाव एषामपि सर्वतो भवेन्न चार्जुनो जेष्यति कर्णमाहवे
सञ्जयः
दुर्योधनः
तमेवमुक्त्वाऽप्यनुनीय चासकृत्तवात्मजस्स्वाननुनीय सैनिकान्
द्रुतं घ्नताभिद्रवताहितानिमानदीनसत्वाः किमु जोषमास्यते