सञ्जयः
रथौ तयोश्श्वेतहयैर्युक्तौ दिव्यौ महास्वनौ
समास्थिता लोकवीराश्शङ्खान्दध्मुः पृथक् पृथक्
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत
तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा
अन्योन्यस्पर्धिनोर्घोरं शक्रशम्बरयोरिव
तयोर्ध्वजौ हि विमलौ शुशुभाते शुभाकृती
राहुकेतू यथाऽऽकाश उदितौ जगतः क्षये
पृथग्ज्वलन्तौ सज्जेतां क्रुद्धौ युद्धे परस्परम्
कर्णस्याशीविषनिभा रत्नसारमयी दृढा
पुरन्दरध्वजप्रख्या हस्तिकक्ष्या व्यराजत
कपिश्रेष्ठस्तु पार्थस्य व्यादितास्यो भयावहः
भीषयन्निव दंष्ट्राभिर्दुर्निरीक्ष्यो रविर्यथा
क्रुद्धोऽभिलषितं गत्वा ध्वजो गाण्डीवधन्वनः
कर्णध्वजमुपातिष्ठत्स्वस्थानाद्वेगवान् कपिः
उत्पत्य च महावेगः कक्ष्यामभ्यहनत्तदा
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा
सा किङ्किणीकाभरणा कालपाशोपमाऽपरा
अभ्यद्रवत संरब्धा नागकक्ष्याऽपि तं कपिम्
तयोर्घोरतरे युद्धे द्वैरथे द्यूत आहिते
प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन्हयान्हयाः
अविध्यत्पुण्डरीकाक्षं शल्यो नयनसायकैः
तं चापि पुण्डरीकाक्षस्तथैव समुदैक्षत
तत्राजयद्वासुदेवश्शल्यं नयनसायकैः
कर्णं चाप्यजयद्दृष्ट्या कुन्तीपुत्रो धनञ्जयः
अथाब्रवीत्सूतपुत्रश्शल्यमाभाष्य सस्मितम्
कर्णः
यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित्
किमुत्तरं तदा ते स्यात्सत्यमेतद्ब्रवीहि मे
शल्यः
यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः
उभावेकरथेनाहं हन्यां माधवपाण्डवौ
सञ्जयः
एवमेव तु गोविन्दमर्जुनोऽप्यभाषत
तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः
श्रीभगवान्
पतेद्दिवाकरस्स्थानाच्छीर्येद्भूमिरनेकधा
शैत्यमग्निरियाद्धि त्वां कर्णो हन्याद्धनञ्जय
यदि त्वेतत्कथञ्चित्स्याल्लोके पर्यसनं भवेत्
हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे
सञ्जयः
इति कृष्णवचश्श्रुत्वा प्रहसन् कपिकेतनः
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम्
अर्जुनः
ममैव तु न पर्याप्तौ कर्णशल्यौ जनार्दन
सपताकध्वजं कर्णं सशल्यरथवाजिनम्
सच्छत्रकवचं चैव सशक्तिशरकार्मुकम्
तं पश्याद्य मया कृष्ण शरैः क्षिप्रं धरातले
अद्यैनं सरथं साश्वं सशक्तिकवचायुधम्
सञ्चूर्णितमिवामर्दे वृक्षं पश्याद्य दन्तिना
अद्य राधेयभार्याणां वैधव्यं समुपस्थितम्
ध्रुवं स्वप्नेष्वनिष्टानि ताभिर्दृष्टानि माधव
ध्रुवमद्यैव द्रष्टासि विधवाः कर्णशल्ययोः
न हि मे शाम्यते मन्युर्यदनेन पुरा कृतम्
कृष्णां सभां गतां दृष्ट्वा मूढेनादीर्घदर्शिना
अस्मांस्तथाऽपहसता जल्पता च पुनः पुनः
अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया
वारणेनेव मत्तेन पुष्पितं जगतीरुहम्
अद्य ता मधुरा वाचश्श्रोतासि मधुसूदन
दिष्ट्या जयसि गोविन्द इति कर्णे निपातिते
अद्याभिमन्युजननीमनृणस्सान्त्वयिष्यसि
कुन्तीं पितृष्वसारं च सम्प्रहृष्टो जनार्दन
अद्य बाष्पमुखीं कृष्णां समाश्वासय माधव
वाग्भिश्चामृतकल्पाभिर्धर्मराजं युधिष्ठिरम्