सञ्जयः
देवाः
दृष्ट्वा प्रजापतिं देवास्स्वयम्भुवमचोदयन्
कोऽनयोर्विजयी देव कुरुपाण्डववीरयोः
कर्णार्जुनविवादेन सर्वं संशयितं जगत्
स्वयम्भो ब्रूहि नस्तत्त्वमेतयोर्विजये प्रभो
सञ्जयः
प्रजापतिस्तु तं दृष्ट्वा देवभागं समागतम्
अब्रवीत्तु ततो राजन्पश्यतो वै स्वयम्भुवः
प्रजापतिः
उभावतिरथौ शूरावुभौ दृढपराक्रमौ
उभौ सदृशकर्माणौ वज्रिचक्रायुधोपमौ
सञ्जयः
अहो बत महद्युद्धं कर्णार्जुनसमागमे
भविष्यति महाघोरं वृत्रवासवयोरिव
प्रजापतिरथोक्त्वैवं स्वयम्भुवमचोदयत्
प्रजापतिः
समोऽस्तु विजयः काममुभयोर्नरसिंहयोः
इत्यब्रवीन्महाराज महाब्रह्मा प्रजापतिम्
कर्णार्जुनविवादेन मा नश्येदखिलं जगत्
स्वयम्भो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः
सञ्जयः
एवमुक्तस्तु भगवाञ्जये ताभ्यामनिश्चिते
इत्यब्रवीन्महाराज महान्ब्रह्मा प्रजापतिम्
ब्रह्मा
सञ्जयः
द्वावप्येतौ हि कृतिनौ द्वावप्यतिबलोत्कटौ
भविष्यत्यनयोर्युद्धं त्रैलोक्यस्य भयावहम्
ततः प्रजापतिं तत्र सहस्राक्षोऽभ्यचोदयत्
इन्द्रः
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः
मनस्वी बलवाञ्शूरः कृतविद्यस्तपोधनः
बिभर्ति च महातेजा धनुर्वेदमशेषतः
अतिक्रमेत माहात्म्याद्दिष्टमप्यतिवीर्यवान्
अतिक्रमे च लोकानामभावो नियतो भवेत्
नावस्थानं च पश्यामि क्रुद्धयोः कृष्णयोः क्वचित्
स्रष्टारौ जगतश्चैतौ ततश्च पुरुषर्षभौ
नरनारायणावेतौ पुराणावृषिसत्तमौ
अनियम्यौ नियन्तारौ जगतः पुरुषर्षभौ
कामं तु सुकृताल्ँलोकान्प्राप्नोत्वेष परन्तपः
कर्णो वैकर्तनश्शूरो विजयस्तु नरे ध्रुवः
वसूनां वा सलोकत्वं मरुतां वा समाश्नुताम्
सहैव द्रोणभीष्माभ्यां नाकपृष्ठे महीयताम्
क्लेशितो हि वने पार्थो दिर्घकालं पितामह
तस्मादेष जयेद्युद्धे तपसाऽभ्यधिकोऽर्जुनः
पूर्वं भगवता प्रोक्तः कृष्णयोर्विजयो ध्रुवः
तत्तथास्तु नमस्तेऽस्तु प्रभो ब्रूहि पितामह
सञ्जयः
तत्सहस्राक्षवचनं निशम्य भगवान्प्रभुः
नोवाच तज्जयं तुल्यं तयोः कर्णकिरीटिनोः
तस्मादाशां गतश्शक्रस्तूष्णीम्भूते पितामहे
विजयं पाण्डवेयस्य वधं कर्णस्य चाहवे
ब्रह्मेशानौ ततो वाक्यमूचतुर्भुवनेश्वरौ
ब्रह्मेशानौ
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः
सञ्जयः
तथोक्ते देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः
आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात्
इन्द्रः
श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम्
तत्तथा व्येतु वो रोगश्शमाप्नुत विमन्यवः
सञ्जयः
इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष
विस्मितान्यभवन्राजन्पूजयाञ्चक्रिरे तदा
नोचुस्तदा जयं तुल्यं तयोः पुरुषसिंहयोः
ससृजुश्च सुगन्धीनि नानारूपाणि हर्षिताः
पुष्पवर्षाणि विबुधा देवतूर्याणि चानदन्
दिदृक्षयाऽऽगतास्सर्वे द्वैरथं नरसिंहयोः
विस्मयोत्फुल्लनयना नान्या बुबुधिरे क्रियाः