सञ्जयः
वृषसेनं हतं दृष्ट्वा कोपामर्षसमन्वितः
दुःखशोकोद्भवं वारि नेत्राभ्यां समवासृजत्
रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपुम्
युद्धायामर्षताम्राक्षस्समाहूय धनञ्जयम्
तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारणौ
समेतौ ददृशुस्तत्र द्वाविवार्कौ समागतौ
शुशुभाते महात्मानौ द्वावादित्यौ यथा दिवि
श्वेताश्वैः पुरुषादित्यावास्थितावरिमर्दनौ
रथौ चतुर्भिर्जलदैर्भगमित्राविवाम्बरे
तौ दृष्ट्वा विस्मयं जग्मुस्सर्वभूतानि मारिष
त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव
रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैस्तथा
तौ रथावभ्यधावन्त क्षत्रियास्सर्व एव हि
ध्वजावालोक्य वीराणां विस्मयस्समपद्यत
हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः
तौ रथौ सम्प्रसक्तौ च दृष्ट्वा भारत पार्थिवाः
सिंहनादरवांश्चक्रुस्साधुवादांश्च पुष्कलान्
श्रुत्वा तयोर्द्वैरथं च तत्र योधास्समन्ततः
चक्रुर्बाहुरवं चैव तथा बाणरवं महत्
आजघ्नुः कुरवस्तत्र वादित्राणि समन्ततः
राधेयमभितो दध्मुश्शङ्खाञ्शतसहस्रशः
तथैव पाण्डवास्सर्वे हर्षयन्तो धनञ्जयम्
तूर्यशङ्खनिनादेन दिशस्सर्वा व्यनादयन्
क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्
बाहुघोषैश्च शूराणां कर्णार्जुनसमागमे
तौ दृष्ट्वा पुरुषव्याघ्रौ समाने स्यन्दने स्थितौ
प्रगृहीतमहाचापौ शरशक्तिध्वजायुतौ
वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभितौ
तूणीरवसम्पन्नौ द्वावतीव सुदर्शनौ
रक्तचन्दनदिग्धाङ्गौ सुसंरब्धाविवानलौ
चापविद्युत्प्रभोपेतौ श्वेतच्छत्रोपशोभितौ
सिंहस्कन्धौ सिंहभुजौ रक्ताक्षौ हेममालिनौ
अन्योन्यस्पर्धिनौ वीरावन्योन्यवधकाङ्क्षिणौ
अन्योन्यमभिधावन्तौ गोष्ठे गोवृषभाविव
प्रभिन्नाविव मातङ्गौ सुसंरब्धाविवाचलौ
आशीविषसमप्रख्यौ यमकालान्तकोपमौ
इन्द्रवृत्राविव क्रुद्धौ चन्द्रसूर्यसमप्रभौ
महाग्रहाविव क्रूरौ युगान्ताय समुत्थितौ
देवगर्भौ देवसमौ देवतुल्यौ च रूपतः
बलिनौ समरे दृप्तौ नानाशस्त्रास्त्रधारिणौ
तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाविव वेगिनौ
बभूव परमो हर्षस्तावकानां विशाम्पते
संशयस्सर्वभूतानां विजये समपद्यत
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ
उभावस्त्रविदां श्रेष्ठावुभौ तीव्रपराक्रमौ
उभौ च बाहुशब्देन नादयन्तौ नभस्थलम्
उभौ वरायुधधरावुभौ रणकृतश्रमौ
उभौ विश्रुतकर्माणौ पौरुषेण बलेन च
उभौ च सदृशौ युद्धे शम्बरामरराजयोः
कार्तवीर्यसमौ चोभावुभौ दाशरथेस्समौ
विष्णुवीर्यसमौ चोभावुभौ भवसमौ युधि
उभौ श्वेतहयौ राजन्रथप्रवरमास्थितौ
सारथिप्रवरौ चापि उभौ मद्रजनार्दनौ
तौ तु दृष्ट्वा महाराज भ्राजमानौ वृषाविव
सिद्धचारणसङ्घानां विस्मयस्समजायत
धार्तराष्ट्रास्ततस्तूर्णं सबला भरतर्षभ
परिवव्रुर्महात्मानं कर्णमाहवशोभिनम्
तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः
यमौ च चेकितानश्च प्रहृष्टाश्च प्रभद्रकाः
नानादेश्याश्च ये शूराश्शिष्टा युद्धाभिनन्दिनः
ते सर्वे सहिता हृष्टाः परिवव्रुर्धनञ्जयम्
रिरक्षिषन्तश्शत्रुघ्नं पत्त्यश्वरथकुञ्जरैः
धनञ्जयस्य विजये धृताः कर्णवधेऽपि च
तथैव तावकास्सर्वे यत्तास्सेनाप्रहारिणः
दुर्योधनमुखा राजन्कर्णं जुगुपुराहवे
तावकानां रणे कर्णो ग्लहो ह्यासीद्विशाम्पते
तथैव पाण्डवेयानां ग्लहः पार्थोऽभवत्तदा
तयोस्तु सभ्यास्तत्रासन्प्रेक्षका येऽभवन्युधि
तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ
ताभ्यां वै द्यूतमारब्धं विजयायेतराय वा
अस्माकं पाण्डवेयानां स्थितानां रणमूर्धनि
तौ संस्थितौ महाराज समरे युद्धशालिनौ
अन्योन्यं प्रतिसंरब्धावन्योन्यवधकाङ्क्षिणौ
तावुभौ विजिगीषन्ताविन्द्रवृत्राविव प्रभो
भीमरूपधरावास्तां महाधूमाविव ग्रहौ
ततोऽन्तरिक्षे सञ्जज्ञे विवादो भरतर्षभ
तौ समेतौ महात्मानौ दृष्ट्वा कर्णधनञ्जयौ
अर्जुनो जयतां कर्णमिति शक्रोऽब्रवीत्तदा
जयतामर्जुनं कर्ण इति सूर्योऽभ्यभाषत
इहार्जुनो मम सुतः कर्णं जयतु संयुगे
हत्वा र्णो जयत्वत्र मम पुत्रो धनञ्जयम्
इति सूर्यस्य चैवासीद्विवादो वासवस्य च
पक्षसंस्थितयोस्तत्र तयोर्विबुधसिंहयोः
द्वैविध्यमासीद्देवानामसुराणां च भारत
यतः पार्थस्ततो देवा यतः कर्णस्ततोऽसुराः
रथयूथपयोः पक्षे कुरुपाण्डववीरयोः
मिथो भेदश्च भूतानामासीत्कर्णार्जुनान्तरे
व्याश्रयन्त द्विधा भिन्नास्सर्वे लोकाः परन्तप
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः
प्रतिपक्षा ग्लहं चक्रुः कर्णार्जुनसमागमे
द्यौरासीत्कर्णपक्षेऽत्र सनक्षत्रा विशाम्पते
भूर्विशाला पार्थमाता पुत्रस्य जयकाङ्क्षिणी
सागराः गिरयश्चैव सरितश्च नरोत्तम
महीजा जलजाश्चैव व्याश्रयन्त किरीटिनम्
असुरा यातुधानाश्च गुह्यकाश्च परन्तप
कर्णस्समभवद्यत्र खेचराणि वयांसि च
रत्नानि निधयस्सर्वे वेदाश्चाख्यानपञ्चमाः
सोपवेदोपनिषदो व्याश्रयन्त किरीटिनम्
वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः
महीवियज्जलचराः काद्रवेयाश्च सान्वयाः
विषवन्तो महावेगा नागाश्चार्जुनतोऽभवन्
ऐरावतास्सौरभेया वैशालेयाश्च भोगिनः
एतेऽभवन्नर्जुनस्य पापास्सर्पाश्च कर्णतः
ईहामृगा व्यालमृगा माङ्गल्या मृगपक्षिणः
मङ्गलाः पशवश्चैव सिंहव्याघ्रास्तथैव च
पार्थस्य विजये राजन्सर्व एव समाश्रिताः
वसवो मरुतस्साध्या रुद्रा विश्वेऽश्विनावपि
अग्निरिन्द्रश्च सोमश्च पन्नगाश्च दिशो दश
कर्णतस्समपद्यन्त श्वसृगालवयांसि च
वसवश्च महेन्द्रेण मरुतश्च सहाग्निना
धनञ्जयस्य ते वर्गा आदित्याः कर्णतोऽभवन्
देवताः पितृभिस्सार्धमृषिभिश्च परन्तप
तुम्बुरुप्रमुखास्सर्वे गन्धर्वा भरतर्षभ
यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः
देवर्षिब्रह्मर्षिगणास्सर्वे च खचराश्च ये
प्रामेयास्सहमौनेयाश्शुभाश्चाप्सरसां गणाः
सहाप्सरोभिश्शुद्धाभिर्देवदूताश्च गुह्यकाः
किरीटिनं संश्रितास्स्म पुण्यगन्धा मनोरमाः
अमनोज्ञाश्च ये गन्धास्ते सर्वे कर्णमाश्रिताः
विपरीतान्यरिष्टानि भवन्ति विनशिष्यताम्
ये त्वन्तकाले पुरुषं विपरीतमुपाश्रितम्
प्रविशन्ति नरं क्षिप्रं मृत्युकालेऽभ्युपागते
ते भावास्सहिताः कर्णं प्रविष्टास्सूतनन्दनम्
ओजस्तेजश्च सिद्धिश्च प्रहर्षस्सत्यविक्रमौ
मनस्तुष्टिर्जयश्चापि तथाऽऽनन्दो नृपोत्तम
ईदृशानि नरव्याघ्र तस्मिन्सङ्ग्रामसागरे
निमित्तानि च शुभ्राणि विविशुर्जिष्णुमाहवे
ऋषयो ब्राह्मणैस्सार्धमभजन्त किरीटिनम्
ततो देवगणैस्सार्धं सिद्धाश्च सह चारणैः
द्विधा भूता महाराज व्याश्रयन्त नरोत्तमौ
विमानानि विचित्राणि गुणवन्ति च सर्वशः
समारुह्य समाजग्मुर्द्वैरथं कर्णपार्थयोः
अन्तरिक्षे महाराज देवगन्धर्वराक्षसाः
दिदृक्षवस्समाजग्मुः कर्णार्जुनसमागमम्
एवं सर्वेषु भूतेषु द्विधा भूतेषु भारत
आशंसमानेषु जयं राधेयस्यार्जुनस्य च
विमानायतसम्बाधमाकाशमभवत्तदा
ईहामृगैर्व्यालमृगैर्द्विपाश्वरथपत्तिभिः
ऊह्यमानाः परे मेघैर्वायुनाऽनिमिषेक्षणाः
दिदृक्षवस्समाजग्मुः कर्णार्जुनसमागमम्
देवदानवगन्धर्वा नागयक्षपतत्रिणः
महर्षयो देवगणाः पितरश्च स्वधाभुजः
तपोविद्यौषधीसिद्धा नानारूपाम्बरत्विषः
अन्तरिक्षे महाराज विवदन्तोऽवतस्थिरे
ब्रह्मा ब्रह्मर्षिभिस्सार्धं प्रजापतिभिरेव च
भवश्चैवास्थिता यानं दिव्यं तं देशमागमन्
ततः प्रजापतिस्तूर्णमाजगाम महीपते
द्वैरथं युधि तं द्रष्टुं कर्णपाण्डवयोस्तदा
विजित्य कर्णस्स्विदिमां वसुन्धरामथार्जुनस्स्वित्प्रतिपद्यतेऽखिलाम्
इतीश्वरस्यापि बभूव संशयः प्रजापतेः प्रेक्ष्य तयोर्महद्बलम्