सञ्जयः
ततः किरीटि परवीरघाती हताश्वमालोक्य कुरुप्रवीरम्
माद्रीसुतं नकुलं राजमध्ये समीक्ष्य बाणैभृशविक्षतं च
तमभ्यधावद्वृषसेनमुग्रो राधासुतस्य प्रमुखेऽस्य पुत्रम्
तमापतन्तं तरसोग्ररूपं कुरूत्तमं बाणसहस्रधारम्
अभ्यापतत्कर्णसुतो महात्मा यथाऽमरेन्द्रं नमुचिः पुरा रणे
तौ तत्र शूरौ रथकुञ्जरौ रणे परस्परस्याभिमुखौ महारथौ
ससर्जतुश्शरसङ्घाननेकान्सम्भ्रान्तरूपौ सुभृशं तदानीम्
ततोऽद्भुतेनैकरथेन पार्थं शरेण विद्ध्वा युधि कर्णपुत्रः
ननाद नादान् स महानुभावो विद्ध्वेव शक्रं नमुचिः पुरा वै
पुनस्स पार्थं वृषसेन उग्रैर्बाणैरविद्ध्यद्भुजमूले तु मध्ये
तथैव कृष्णं नवभिस्समर्पयन्पुनश्च पार्थं दशभिर्जघान
पूर्वं तदा वृषसेनप्रयुक्तैरभ्याहतश्श्वेतहयश्शरैस्तैः
संरम्भमीषद्गमितो वधाय कर्णात्मजस्याशु मतिं प्रदध्रे
ततस्स रुष्टो रणमूर्ध्नि पार्थः कृत्वा त्रिशाखां भ्रुकुटिं ललाटे
मुमोच राजन् विशिखान्महात्मा वधे धृतः कर्णसुतस्य सङ्ख्ये
विव्याध चैनं दशभिः पृषत्कैः किरीटमाली वृषसेनमुग्रैः
चिच्छेद चास्येष्वसनं भुजौ च क्षुरेण वीरश्शिर एव चोग्रः
स पार्थबाणाभिहतः पपात रथाद्विबाहुर्विशिरा धरायाम्
सुपुष्पितो वज्रहतोऽतिमात्रो भग्नो यथा साल इवावकृत्तः
तं पार्थबाणाभिहतं पतन्तं सम्प्रेक्ष्य कर्णस्सुतमाशुकारी
रथं रथेनातिरथिर्जगाम किरीटिनः पुत्रवधाभितप्तः
शिरः करौ चैव शरासनं च एकेषुणा वतषसेनस्य सङ्ख्ये
चिच्छेद पार्थो ह्यङ्गराजस्य सैन्यं कोपाग्निना चतुरङ्गं ददाह