सञ्जयः
सुकल्पिता हैमवता महोत्कटा रणाभिकामैः कृतिभिस्समास्थिताः
सुवर्णजालावतता बभुर्गजास्तथा यथा वै जलदास्सविद्युतः
कुणिन्दपुत्रो दशभिर्महाशरैः कृपं ससूताश्वमताडयद्भृशम्
ततश्शरद्वत्सुतसायकैर्हतस्सहैव नागेन च भूतलेऽपतत्
कुणिन्दपुत्रावरजस्तु तोमरैर्दिवाकरांशुप्रतिमैरयस्मयैः
जघान भोजस्य हयाननेकशः क्षुरैर्विशस्तः कृतवर्मणे गजः
अथापरे द्रौणिशरार्दिता गजास्त्रयस्तु सर्वायुधयोधकेतनाः
निपेतुरुर्व्यां व्यसवो विचेतनास्तथा यथा वज्रहता महाचलाः
कुणिन्दराजावरजादनन्तरस्स्तनान्तरे पत्रिवरैरताडयत्
तवात्मजस्याथ तवात्मजस्ततश्शरैश्शरीरं बिभिदे द्विपञ्चभिः
स नागराजस्सह राजसूनुना पपात रक्तं बहु सर्वतः क्षरन्
शचीशवज्रप्रहतोऽम्बुदागमे यथा पुरा गैरिकपर्वतस्तथा
कुणिन्दपुत्रप्रहितोऽपरो गजः क्राथं ससूताश्वरथं व्यपोथयत्
ततोऽपतत्तस्य शरार्दितो गजो महेन्द्रवज्राभिहतो यथा गिरिः
रथी द्विपस्थेन हतोऽपतच्छरैः क्राथाधिपः पर्वतजेन दुर्जयः
सवाजिसूतेष्वसनध्वजस्तथा यथा महावातहतो महाद्रुमः
वृको गजस्थं गिरिराजवासिनं भृशं शरैर्द्वादशभिः पराभिनत्
ततो वृकं साश्वरथं महागजस्त्वरंश्चतुर्भिरणैरपोथयत्
स पोथितो नागरवेण वीर्यवान्पराभिनद्द्वादशभिश्शिलीमुखैः
वृकेण बाणाभिहतोऽपतत्क्षितौ सवारणो बभ्रुसुतेन सार्धम्
कुणिन्दराजस्य सुतोऽपरस्तदा स चापि शूरस्सहसा समर्पितः
पपात बाणैस्सहदेवसूनुना विषाणपुच्छापरगात्रघातिना
गजेन वाहाञ्शकुनेः कुणिन्दजो निनाय वैवस्वतमन्दिरं रणे
रथं च सङ्क्षुभ्य ननाद नर्दतस्ततोऽस्य गान्धारपतिश्शिरोऽहरत्
ततः कुणिन्देषु हतेषु तेष्वथ प्रहृष्टरूपास्तव ते महारथाः
भृशं प्रदध्मुर्लवणाम्बुसम्भवान्वरांश्च बाणासनपाणयोऽभ्ययुः
अथाऽभवद्युद्धमतीव दारुणं पुनः कुरूणां सह पाण्डुसृञ्जयैः
शरासिशक्त्यृष्टिगदापरश्वथैर्नराश्वनागासुहरं भृशाकुलम्
रथाश्वमातङ्गपदातयस्ततः परस्परं विप्रहताः पतन् क्षितौ
यथा सविद्युत्स्तनिता जलप्रदास्समुत्थितैर्दिग्भ्य इवोग्रमारुतैः
ततश्शतानीकशराहता गजा हया रथाः पत्तिवराश्च तावकाः
सुपर्णवातप्रहता यथोरगास्तथा हता गामगमन् विचूर्णिताः
ततोऽभ्यविद्ध्यद्बहुभिश्शितैश्शरैस्स विन्दपुत्रो नकुलात्मजं स्मयन्
ततोऽस्य कायाद्विचकर्त नाकुलिश्शिरः क्षुरेणाम्बुजसन्निभाननम्
ततश्शतानीकमविध्यदायसैस्त्रिभिश्शरैः कर्णसुतोऽर्जुनं त्रिभिः
त्रिभिश्च भीमं नकुलं च सप्तभिर्जनार्दनं द्वादशभिश्च सायकैः
ततोऽस्य कर्मातिमनुष्यकर्मणस्समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन्
पराक्रमज्ञाश्च धनञ्जयस्य ये हुतोऽयमग्नाविति मेनिरे च ते