शल्यः
मा व्यथां कुरु राधेय नैवं त्वय्युपपद्यते
एते द्रवन्ति राजानो भीमसेनभयार्दिताः
दुर्योधनश्च सम्मूढो भ्रातृव्यसनदुःखितः
दुश्शासनस्य रुधिरे पीयमाने महात्मना
व्यापन्नचेतास्सहसा शोकोपहतचेतनः
उपासते त्वामेते हि परिवार्य महारथाः
कृपप्रभृतयः कर्ण हतशेषाश्च भारताः
पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः
त्वामेवाभिमुखाश्शूरा युद्धाय समुपस्थिताः
स त्वं पुरुषशार्दूल पौरुषे महति स्थितः
क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम्
भारो हि धार्तराष्ट्रेण त्वयि सर्वस्समाहितः
तमुद्वह महाबाहो यथाशक्ति यथाबलम्
जये स्याद्विपुला कीर्तिर्ध्रुवस्स्वर्गः पराजये
वृषसेनश्च राधेय सङ्क्रुद्धस्तनयस्तव
त्वयि मोहं समापन्ने पाण्डवानभिधावति
सञ्जयः
एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः
हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम्
ततः क्रुद्धो वृषसेनोऽभ्यधावद्भीमं समायान्तममित्रसाहम्
बाणैः किरन्तं प्रतियाति चोग्रं व्यात्ताननं कालमिवापतन्तम्
तमभ्यधावन्नकुलः प्रवीरमारादमित्रं प्रतुदन्पृषत्कैः
तं कर्णपुत्रं परमप्रहृष्टो जिष्णुर्जिघांसुर्मघवेव जम्भहम्
ततो ध्वजं स्फाटिकहेमचित्रं चिच्छेद धैर्यान्नकुलः क्षुरेण
कर्णात्मजस्येष्वसनं च चित्रं भल्लेन जाम्बूनदपट्टबद्धम्
अथान्यदादाय धनुस्स शीघ्रं कर्णात्मजः पाण्डवमभ्यविध्यत्
दिव्यैरस्त्रैरभ्यवर्षत्तदैनं कर्णस्य पुत्रो नकुलं कृतास्त्रम्
ततः क्रुद्धो नकुलः कर्णपुत्रं शरैर्महोल्काभिरिवाभ्यपीडयत्
स कर्णपुत्रो नकुलस्य राजन्सर्वानस्त्रान्वारयदुत्तमास्त्रैः
आसीत्सुघोरं भरतप्रवीर युद्धं तदा कर्णजपाण्डवाभ्याम्
वनायुजान्सुकुमारान्सुशुभ्रानलङ्कृताञ्जातरूपेण चित्रान्
जघान चाश्वान्नकुलस्य वीरो रणाजिरे सूतपुत्रस्य पुत्रः
ततो हताश्वादवरुह्य यानाच्चर्माददे रुचिरं पद्मचित्रम्
आकाशसङ्काशमसिं प्रगृह्य प्रकाशमानः खगवच्चचार
ततोऽस्य पक्षाननयद्यमाय द्विसाहस्रान्नकुलः क्षिप्रकारी
ते प्रापतन्नसिना वै विशस्ता यथाऽश्वमेधे पशवश्शमित्रा
ततस्ततो विजिता युद्धशौण्डा नानादेश्यास्सुहृदस्सत्यसन्धाः
एकेन शीघ्रं नकुलेन नुन्नास्सारेप्सुनेवोत्तमचन्दनस्य
भूमौ चरन्तं नकुलं रथस्थास्समन्ततस्सायकैः प्रत्यगृह्णन्
स तुद्यमानो नकुलो विहङ्गैश्चचार सङ्ख्ये द्विषतो विनिघ्नन्
तं कर्णपुत्रो विचरन्तमाजौ नराश्वमातङ्गरथप्रवीरान्
निघ्नन्तमष्टादशभिः पृषत्कैर्विव्याध वीरस्स चुकोप युद्धे
स तेन विद्धोऽतिभृशं तरस्वी महाहवे वृषसेनेन राजन्
ततोऽभ्यधावत्समरे जिघांसुः कर्णात्मजं पाण्डुसुतो नृवीरम्
वितत्य पक्षौ सहसा पतन्तं श्येनं यथैवामिषलुब्धमाजौ
अवाकिरद्वृषसेनस्तरस्वी शितैश्शरैर्नकुलमुदारवीर्यम्
स तान् मोघांस्तस्य कुर्वन् शरौघांश्चचार मार्गान्नकुलश्चित्ररूपान्
तस्येषुभिर्व्यधमत्सूतपुत्रो महारणे चर्म सहस्रतारम्
तस्याथ कांस्यं सुशितं सुपीतमसिप्रवीरं गुरुभारसाहम्
द्विषच्छरीरासुहरं सुघोरमाधून्वतस्सर्पमिवात्तकोशम्
क्षिप्रं शरैष्षड्भिरमित्रसाहश्चकर्त खड्गं निशितैस्सुधारैः
पुनश्च पार्थं निशितैः पृषत्कैस्स्तनान्तरे क्षिप्रमिवात्यविध्यत्
स भीमसेनस्य रथं च गत्वा ववर्ष वै शरवर्षं सुघोरम्
नकुलमथ विदित्वा भिन्नबाणासनासिं विरथमरिशरार्तं कर्णपुत्रास्त्रमग्नम्
पवनचलपताकाह्लादिनो वल्गिताश्वाः परपुरुषनियुक्तास्स्वै रथैश्शीघ्रमीयुः
द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः
द्विरदरथनराश्वान्सूदयन्तस्त्वदीयान्भगवत इव रुद्रास्सङ्ख्यया हेतिमन्तः
अथ तव रथमुख्यास्तान्प्रतीयुर्ध्वजिन्यां हृदिकसुतकृपौ च द्रौणिदुर्योधनौ च
शकुनिशुकवृकाश्च क्राथदेवावृधौ च द्विरदजलदघौषैस्स्यन्दनैः कार्मुकैश्च
तव रथवर्यास्तान्दशैकप्रवीरानिषुभिरशनिकल्पैस्ताडयन्तो न्यरुन्धन्
नवजलधरवर्णैर्हस्तिभिस्तान्स्म वव्रुर्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः