भीमः
ये वाऽस्मान्प्रत्यनृत्यन्त पुरा गौरिति गौरिति
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति
प्रमाणकोट्यां शयने कालकूटकभोजनम्
दंशनं चाहिभिस्तीक्ष्णैर्दाहो जतुगृहे च यः
द्यूते च दोषभूयस्त्वमरण्ये वसतिश्च या
इष्वस्त्राणि च सङ्ग्रामे अनिलानिलवेश्मसु
महाक्षयश्च सङ्ग्रामेष्वसुखानि च वेश्मनि
विराटभवने यश्च क्लेशोऽस्माकं पृथक्पृथक्
शकुनेर्धार्तराष्ट्रस्य राधेयस्य च मन्त्रिते
अनुभूतानि दुःखानि तेषां हेतुस्त्वमेव हि
दुःखान्येवाभिजानीमो न सुखानि कदाचन
धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम्
सञ्जयः
इत्युच्चैर्वचनं प्रोच्य जयं प्राप्य वृकोदरः
पुनरेव महाराज तव सैन्यमभिद्रवत्
रक्तार्द्रगात्रस्तु ततो महात्मा गदापाणिः काल इवान्तकाले
विभीषयानस्तव पुत्रसैन्यमितस्ततो धावति वाहिनीं ते
ततः क्षणाद्भारत शून्यरूपमायोधनं घोरतरं कुरूणाम्
यत्राजिमध्ये प्रापिबद्भीमसेनो दुश्शासनस्य रुधिरं क्रोधदीप्तः
स हत्वा समरे राजन्राजपुत्रो महाबलः
पूर्णकामो मदोदग्रस्सिंहो रुरुमिवोत्कटः
रुधिरार्द्रो महाराज ह्यशोभत परन्तपः
सपुष्पः किंशुक इव रक्ताद्रक्ततरो बभौ
रुधिराक्तो घोरवेषः क्रुद्धो राजन्वचोऽब्रवीत्
भीमसेनः
ब्रूहीदानीं पापमते नृशंस पतितो ह्यसि
दुश्शासने यादृशं संश्रुतं नस्तदवाप्तं पाण्डवैस्सर्वमेतत्
अत्रैवमाप्स्याम्यपरं द्वितीयं दुर्योधनं यज्ञपशुं विशस्य
शिरो मृदित्वाऽस्य पुनश्च शान्तिं यास्याम्यहं कौरवाणां समक्षम्
या चापतिस्सा सपतिर्हि जाता यास्तास्सपत्योऽपतयस्तु जाताः
पश्यन्तु चित्रं विविधं हि लोके ये वै तिलाष्षण्डतिला बभूवुः
ते चेत्सुसिद्धा निधनं गताः परे किं चित्ररूपं बत जीवलोके
सञ्जयः
एतावदुक्त्वा वचनं प्रहृष्टः प्राक्रोशदुच्चै रुधिरार्द्रवक्त्रः
ननर्त चैवातिबलो महात्मा वृत्रं निहत्येव सहस्रनेत्रः
दृष्ट्वा तु नृत्यन्तमुदग्ररूपं कालं यथा त्वन्तकाले प्रजानाम्
महद्भयं चातिरथिं विवेश जये निराशाश्च सुतास्त्वदीयाः
दुश्शासने तु निहते पुत्रास्तव महारथाः
महत्क्रोधविषं वीरा धारयन्तोऽपलायिनः
ते तु राजन्महावीर्या भीमं प्राच्छादयञ्छरैः
निषङ्गी कवची खड्गी दण्डधारो धनुर्धरः
अलम्बुर्जलसन्धश्च वातवेगसुवर्चसौ
एते समेत्य सहिता भ्रातृव्यसनकर्शिताः
भीमसेनं महाबाहुं पीडयामासुरञ्जसा
स वध्यमानो विशिखैस्समन्तात्तैर्महारथैः
भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ
ततः परिवृतो राजन्नवभिश्शत्रुतापनैः
दुश्शासनादवरजैः पुत्रैस्तव वृकोदरः
तांस्तु भल्लैर्महावेगैर्नवभिर्नव भारत
रुक्माङ्गदान्रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम्
हतेषु तव पुत्रेषु बलं तद्विप्रदुद्रुवे
पश्यतस्सूतपुत्रस्य पाण्डवस्य भयार्दितम्
ततः कर्णं महाराज प्रविवेश महद्भयम्
दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव
तस्य त्वाकारभावज्ञश्शल्यस्समितिशोभनः
उवाच वचनं कर्णं प्राप्तकालं हितं तदा