सञ्जयः
स राजपुत्रेण समार्च्छदुग्रं दुश्शासनेन निकृतो निकृत्या
तत्राकरोद्दुष्करं राजपुत्रो दुश्शासनः कुरुवीरो महात्मा
यद्भीमसेनं प्रतियोधयद्रणे जम्भो यथा शक्रमुदारवीर्यम्
धनुच्छित्त्वा भीमसेनस्य सङ्ख्ये षड्भिश्शरैस्सारथिमभ्यविध्यत्
ततोऽविध्यत्त्रिंशता भीमसेनं वरेषुभिर्वन्यमिव द्विपेन्द्रम्
स कार्मुकं गृह्य तु भारसाधनं भीमस्तदा राजपुत्रं ह्यविध्यत्
पञ्चाशता बाणगणैस्तनान्तरे तोत्रैर्यथाऽद्रिप्रतिमं द्विपेन्द्रम्
स तत्कृत्वा राजपुत्रस्तरस्वी विव्याध भूयो नवभिःपृषत्कैः
ततः क्रुद्धो भीमसेनस्तरस्वी शक्तिं चोग्रां प्राहिणोत्ते सुताय
तामापतन्तीं सहसाऽतिघौरां दृष्ट्वा सुतस्ते ज्वलितामिवोल्काम्
आकर्णपूर्णैरुषुभिर्महात्मा चुच्छेद पुत्रो दशभिः पृषत्कैः
दृष्ट्वा तु तत्कर्म कृतं सुदुष्करं प्रापूजयन्सर्वयोधाः प्रहृष्टाः
अथाभिमानी स शरेण भूयो गाढं हि विव्याध सुतस्त्वदीयः
चोक्रोध भीमःपुनराशुगेन भृशं प्रजज्वाल रुषाऽभिविष्टः
ततो विद्धो विरथं तं महात्मा दुश्शासनो भीमसेनं चकार
निहत्य सङ्ख्ये चतुरोऽस्य वाहाञ्छित्वा रथेषां पुनरेव चाक्षिपत्
ततः क्षितिस्थो ह्यवरुह्य यानाद्वृकोदरो गदया तस्य वाहान्
यमक्षयं प्रेषयित्वा महात्मा रथं समाकर्षत राजसूनोः
तस्मादवप्लुत्य रथात्ससर्ज दुश्शासनस्तोमरमुग्रवेगम्
स तेन विद्धो ह्युरसि ह्यप्रमेयो गदाम तस्मै विससर्जाप्रमेयाम्
विचिक्षिपे तां यमदण्डसन्निभाम्भीमो हि भीमां ज्वलितामिवोल्काम्
प्रगृह्य वज्राशनितुल्यवेगां गदां करेणाथ वृकोदरो रुषा
ततः क्रोधाद्भीमसेनः कृतानि सर्वाणि दुःखान्यनुसंस्मरन्वै
संस्मृत्य संस्मृत्य तथा प्रतिज्ञामुग्रामधो राजपुत्रो न्यषीदत्
अथैनमुग्रस्तनयस्तवोग्रां शक्तिं वेगात्प्राहिणोन्मृत्युरूपाम्
आविध्य भीमोऽपि गदां सुभीमां चिक्षेप रोषेण परीतमूर्तिः
सञ्चिन्तयन्रोषमतीव वेगात्त्रयोदशाब्दं पुरुषप्रवीरः
गदां करेणाथ वृकोदरो रुषा निपातयित्वा पृथिवीतले भृशम्
आदाय दुश्शासनमुग्रवेगं सन्ताडयामास बली वृकोदरः
अतीव सन्ताडितभिन्नगात्रो दुश्शासनो वै निपपात भूमौ
आक्रम्य कण्ठे युधि राजपुत्रं संरक्तनेत्रो ह्यब्रवीद्धार्तराष्ट्रम्
तद्ब्रूहि किं त्वं परिमार्गमाणो ह्यस्मान् पराभूय इहागतः पुनः
आदीपयंस्तद्भृशदीपितं मे चिरार्जितं रोषमतिप्रदीप्तम्
मधु प्रपास्ये तव कोष्ठभाजनादित्यब्रवीद्भीमसेनस्तरस्वी
दुश्शासनं कण्ठदेशे प्रमृद्नंस्ततः क्रूरं भीमसेनश्चकार
तं व्यंसयित्वा सहसा ससार बलादसौ धार्तराष्ट्रस्तरस्वी
भीमोऽभिदुद्राव सुतं त्वदीयं सपत्नतां दर्शयन्धार्तराष्ट्रे
मृगं सुहृत्सिंहशिशुर्यथा वने तथाऽऽश्वभिद्रुत्य महाबलं बली
निगृह्य चैनं परमेण कर्मणा उत्क्षिप्य चोत्क्षिप्य च तूर्णमेनम्
भूमौ तदा निष्पिपेषाथ वीरमसिं विकोशं विमलं चकार
तत्राह कर्णं च सुयोधनं च कृपं द्रौणिं कृतवर्माणमेव
निहन्मि दुश्शासनमद्य पापं संरक्ष्यतामद्य समस्तयोधाः
स तस्य शक्तिं सहसा विमृद्य पुत्रं तवाजौ ताडयामास मूर्ध्नि
तया हतः पतितो वेपमानो दुश्शासनो गदया वेगवत्या
विध्वस्तवर्माभरणोरुहस्तको विवेष्टमानो भृशवेदनार्तः
तं पातयित्वाऽथ वृकोदरोऽपि जगर्ज हर्षेण निनादयन्दिशः
नादेन तेनाखिलसादिपत्तयो मूर्च्छाकुलाः पतितास्त्वाजिमध्ये
भीमोऽपि वेगादवतीर्य यानाद्दुश्शासनं वेगवानभ्यधावत्
स समीपस्थितो भीमो विसञ्ज्ञं प्रेक्ष्य ते सुतम्
चकार वेदं मनसा चिन्तां च परमां ययौ
अचेतनस्य रुधिरं कथं पास्याम्यहं रिपोः
अजानतोऽस्य पापस्य दुर्मतेर्मित्रघातिनः
एवं विचिन्तयन्भीमो ददर्शाथ विचेतनम्
वस्त्रेणावीजयच्चैनं तेन सञ्ज्ञामवाप सः
दृष्ट्वा स सञ्ज्ञां सम्पन्नं पादेनाक्रम्य वक्षसि
प्रहृष्टरूपो भीमस्तु सादिं प्रोवाच तं तदा
भीमसेनः
सञ्जयः
ये राजसूयावभृथे पवित्रिता जाताः कचा याज्ञसेन्या दुरात्मन्
ते पाणिना कतरेणापकृष्टास्तद्ब्रूहि त्वं पृच्छते मे नृशंस
उक्तस्तथाऽसौ तनयस्सरोषं जगाद भीमं परिवृत्य करः
दुश्शासनः
सोऽयं करिकराकारः पीनस्तनविमर्दनः
गोसहस्रप्रदाता च क्षत्रियान्तकरः करः
अनेन याज्ञसेन्या मे भीम केशा विकर्षिताः
पश्यतां कुरुमुख्यानां युष्माकं च सभासदाम्
सञ्जयः
एवं ब्रुवाणस्य तु भीमसेन उत्पाटयामास भुजं महात्मा
समुत्थितोऽसौ तमतीव रुष्टस्सन्ताडयामास भुजेन तेन
भीमोऽभिदुद्राव सुतं द्वितीयं मृगं यथा सिंहशिशुर्वनान्ते
तमप्यभिद्रुत्य महाबलं बली निगृह्य चैनं परमेण मन्युना
उत्क्षिप्य चोद्भ्राम्य च तूर्णमेनं भूमौ तथा निष्पिपिषेऽथ वीरः
कण्ठे समाक्रम्य च वेपमानं कृत्वा तु रूपं परमं सुघोरम्
कालान्तकाभ्यां सदृशं तदानीं विदार्य वक्षस्स महारथस्य
दुश्शासनस्य रिपुशासनस्य उद्धृत्य वक्षः पतितस्य भूमौ
ततोऽपिबच्छोणितमस्य कोष्णमास्वाद्य चास्वाद्य च वीक्षमाणः
क्रुद्धोऽतिहृष्टो निजगाद वाक्यं स्तन्यस्य मातुः पयसोऽमृतस्य
माध्वीकजस्येव रसस्य तस्य मधोश्च पानाद्यवकस्य पानात्
पयोदधिभ्यां मथिताच्च मुख्यात्तथेक्षुसारस्य मनोहरस्य
सर्वेभ्य एवाभ्यधिको रसोऽस्य मतो ममाद्याहितलोहितस्य
एवं ब्रुवाणं पुनरुत्थितं तमास्फोट्य वल्गन्तमतीव हृष्टम्
ये भीमसेनं ददृशुस्तदानीं प्रायेण तेऽपि व्यथिता निपेतुः
ये चापि नासन् पतिता मनुष्यास्तेषां कराभ्यां पतितं तु शस्त्रम्
भयाच्च सञ्चुक्रुशुरस्वैरस्तदा निमीलिताक्षा मुमुहुश्च तत्र
ये तत्र भीमं रुधिरं पिबन्तं दुश्शासनस्य ददृशुः प्रपन्नाः
नायं मनुष्यस्त्विति भाषमाणास्सर्वेऽपलायन्त भयाभिपन्नाः
भीमोऽपि हत्वा तत्रैव दुश्शासनममर्षणम्
पूरयित्वाऽञ्जलिं भूयो रुधिरास्योग्रनिस्वनः
स पीत्वा रुधिरं तस्य चरणौ गृह्य भारत
शृण्वतां सर्ववीराणां पुनर्वाक्यमथाब्रवीत्
भीमः
एष ते रुधिरं तीव्रं पिबामि पुरुषाधम
ब्रूहीदाननीं सुसंरब्धः पुनर्गौरिति गौरिति