सञ्जयः
ततः कर्णः कुरुषु प्रद्रुतेषु सेनापतिश्श्वेतहयेन राजन्
पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो महेषुभिर्वात इवाभ्रसङ्घान्
सूतं रथादञ्जलिकैर्निपात्य जघान चाश्वाञ्जनमेजयस्य
शतानीकं सुतसोमं च भल्लैरवाकिरद्धनुषी चाप्यकृन्तत्
धृष्टद्युम्नं निर्बिभेदाथ षड्भिर्जघान चाश्वान्परवीरहन्ता
हत्वा चाश्वान्सात्यकेस्सूतपुत्रः कैकेयपुत्रं न्यवधीद्विशोकम्
तमभ्यधावन्निहते कुमारे सेनापतिं कैकयो मित्रवर्मा
शरैर्विधून्वन्भृशमुग्रवेगैः कर्णात्मजं चाप्यहनत्सुदेवम्
तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त प्रसह्य बाहू च शिरश्च कर्णः
स स्यन्दनाद्गामपतद्गतासुः परश्वथैस्साल इवावकृत्तः
हताश्वमञ्जोगमिभिस्सुदेवं शिनिप्रवीरो निशितैः पृषत्कैः
जघान नृत्यन्निव कर्णपुत्रश्शैनेयबाणाभिहतः पपात
पुत्रे हते क्रोधपरीतचेताः कर्णश्शिनीनां प्रवरं जिघांसुः
हतोऽसि हे सात्यक इत्युदीर्य व्यवासृजद्बाणममित्रसाहम्
तमस्य चिच्छेद शरं शिखण्डी त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम्
शिखण्डिनः कार्मुकं च ध्वजं च च्छित्त्वा क्षुराभ्यां न्यहनच्च सूतम्
शिखण्डिनं षड्भिरविध्यदुग्रो धार्ष्टद्युम्नेस्स शिरश्चोच्चकर्त
ततोऽभिनत्सुतसोमं क्षुरेण सुसंशितेनातिरथिर्महात्मा
जनाक्रन्दे तुमुले वर्तमाने धार्ष्टद्युम्ने निहते तत्र कृष्णः
अपाञ्चाल्यं क्रियते याहि पार्थ कर्णं जहीत्यब्रवीद्राजसिंह
ततः प्रहस्याशु नरप्रवीरो रथं रथेनातिरथेर्जगाम
भये तेषां त्राणमिच्छन्सुबाहुरभ्याहतानां रथयूथपेन
ततोऽपरे भारत दुष्प्रकम्प्याः पाञ्चालानां रथसङ्घास्समेताः
प्रतिश्रिता ह्यन्तरिक्षे ग्रहाभा धनुःप्रवीरास्तु रथप्रवीराः
विष्फार्य गाण्डीवमथोग्रघोषं ज्यां वै समाहत्य तले भृशं च
बाणान्धकारं सहसा चकार जघान नागाश्वरथान्नरांश्च
तं भीमसेनोऽनुययौ रथेन पृष्ठे रक्षन्पाण्डवमेकवीरम्
तौ राजपुत्रौ त्वरितौ रथाभ्यां कर्णं हि यातावरिभिर्विषक्तौ
अत्रान्तरे सुमहत्सूतपुत्रश्चक्रे युद्धं सोमकान्सम्प्रमृद्नन्
रथाश्वमातङ्गनरान् निजघ्ने प्रच्छादयामास शरैर्दिशश्च
तमुत्तमौजा जनमेजयश्च क्रुद्धौ युधामन्युशिखण्डिनौ च
कर्णं ववर्षुस्सहसा पृषत्कैस्सन्तर्जयानास्सह पार्षतेन
ते पञ्च पाञ्चालरथप्रवीरा वैकर्तनं कर्णमभिद्रवन्तः
तस्माद्रथाच्च्यालयितुं न शेकुर्धैर्यात्कृतात्मानमिवेन्द्रियाणि
तेषां ध्वजान्वाजिसङ्घान् पताकास्तूणीर्धनूंषि प्रचकर्त बाणैः
तान्पाञ्चालानभ्यहनत्पृषत्कैः कर्णस्ततस्सिंह इवोन्ननाद
तस्यास्यतस्तानहितान्वै घ्नतश्च ज्याबाणहस्तस्य धनुस्स्वेनन
साद्रिद्रुमाऽऽसीत्पृथिवी विशीर्णा इतीव मत्वा तु जना विषेदुः
स शक्रचापप्रतिमेन धन्वना भृशाततेनातिरथिश्शरान्बहून्
सृजन् बभौ दीप्तमरीचिमण्डलो यथांशुमाली परिवेषवांस्तथा
शिखण्डिनं द्वादशभिः पराभिनच्छितैश्शरैष्षड्भिरथोत्तमौजसम्
त्रिभिर्युधामन्युमविध्यदाशुगैस्त्रिभिस्त्रिभिस्सोमकपार्षतान्सदा
पराजिताः पञ्च महारथास्तु ते महाहवे सूतसुतेन मारिष
निरुद्यमास्तस्थुरमित्रनन्दना यथेन्द्रियाण्यात्मवता जितास्तथा
निमज्जतस्तानथ कर्णसागरे विपन्ननावो वणिजो यथाऽर्णवे
समुद्धरन् नौभिरिवार्णवाद्रथैस्सुकल्पितैर्द्रौपदिजास्स्वमातुलान्
ततश्शिनीनामृषभश्शितैश्शरैर्निकृत्य कर्णप्रहितानिषून्बहून्
विदार्य कर्णं निशितैरयस्मयैस्तवात्मजं ज्येष्ठमविध्यदष्टभिः
कृपोऽथ भोजश्च तवात्मजस्तथा स्वयं च कर्णो निशितैरताडयत्
स तैश्चतुर्भिर्युयुधे यदूत्तमो दिगीश्वरैर्दैत्यपतिर्यथा तथा
समाततेनेष्वसनेन कूजता महास्वनेनाशनिबाणवर्षिणा
बभौ सुदुर्धर्षतरस्स सात्यकिश्शरन्नभोमध्यगतो यथा रविः
पुनस्समास्थाय रथान्सुदंशिताश्शिनिप्रवीरं जुगुपुः परन्तपाः
समेत्य पाञ्चालरथा महाहवे मरुद्गणाश्शक्रमिवारिनिग्रहे
ततोऽभवद्युद्धमतीव दारुणं तवाहितानां तव सैनिकैस्सह
रथाश्वमातङ्गविनाशनं तथा यथा सुराणामसुरैः पुराऽभवत्
रथाश्वमातङ्गपदातयोऽपि च भ्रमन्ति नानाविधशस्त्रवेष्टिताः
परस्परेणाभिहताश्च चस्खलुर्विनेदुरार्ता व्यसवः पतन्ति च
तथागते भीममभीस्तवात्मजस्ससार राजावरजः किरञ्शरान्
तमभ्यधावत्त्वरितो वृकोदरो महारुरुं सिंह इवाभिपेदिवान्
ततस्तयोर्युद्धमतीव दारुणं प्रदीव्यतोः प्राणदुरोदरैर्द्वयोः
परस्पराभावविवृद्धरोषयोरुदग्रयोश्शम्बरशक्रयोरिव
शरैश्शरीरान्तकरैस्सुतेजनैर्निजघ्नतुस्तावितरेतरं भृशम्
सकृत्प्रभिन्नाविव वाशितान्तरे महागजौ दोर्भिरतीव घातिनौ
आलोक्य तौ तत्र परस्परं ततस्समं च शूरौ च ससारथी तदा
भीमोऽब्रवीद्याहि दुश्शासनाय दुश्शासनो याहि वृकोदराय
तयो रथौ सारथिभ्यां प्रचोदितौ समं रणे तौ सहसा समीयतुः
नानायुधौ चित्रपताकिनौ ध्वजौ दिवीव पूर्वं बलशक्रयो रणे
भीमः
दिष्ट्याऽसि दुश्शासन मेऽद्य दृष्टः क्षणं प्रतीच्छे सहवृद्धिमूलम्
चिरोद्यतं यन्मया ते सभायां कृष्णाभिमर्शेन गृहाण मत्तः
सञ्जयः
दुश्शासनः
स एवमुक्तस्तु ततो महात्मा दुश्शासनो वाक्यमुवाच वीरः
सर्वं स्मरे नैव च विस्मरामि उदीर्यमाणं शृणु भीमसेन
स्मरामि चात्मप्रभवं चिराय यज्जातुषे वेश्मनि रात्र्यहानि
विश्वासहीना मृगयां चरन्तो वसन्ति सर्वत्र निराकृतास्तु
महाभये रात्र्यहानि स्मरन्तस्तथोपभोगाच्च सुखाच्च हीनाः
वनेष्वटन्तो गिरिगह्वराणि पाञ्चालराजस्य पुरं प्रविष्टाः
मायां यूयं कामपि सम्प्रविष्टा यतो वृतः कृष्णया फल्गुनो वः
सम्भूय पापैस्तदनार्यवृत्तं कृतं तदा मातृकृतानुरूपम्
एको वृतः पञ्चभिस्साऽभिपन्ना ह्यलज्जमानैश्च परस्परस्य
स्मरे सभायां सुबलात्मजेन दासीकृतास्स्थ सह कृष्णया च
सञ्जयः
इत्येवमुक्तस्तु तवात्मजेन पाण्डोस्सुतः कोपवशं जगाम
तवात्मजस्याथ वृकोदरो भृशं धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत्
ललाटमप्यस्य बिभेद पत्रिणा शिरश्च कायात्प्रजहार सारथेः
स राजपुत्रोऽन्यदवाप्य कार्मुकं वृकोदरं द्वादशभिः पराभिनत्
स्वयं नियच्छंस्तुरगानजिह्मगैश्शरैश्च भीमं पुनरप्यवीवृषत्
ततश्शरं सूर्यमरीचिप्रभं सुवर्णवज्रोत्तमरत्नभूषितम्
महेन्द्रवज्राशनिपातनिस्वनम्मुमोच भीमाङ्गविदारणक्षमम्
स तेन निर्भिन्नतनुर्वृकोदरो निपातितस्स्रस्ततनुर्गतासुवत्
प्रसार्य बाहू रथवर्यमास्थितः पुनश्च सञ्ज्ञामुपलभ्य चानदत्