सञ्जयः
राजन्कुरूणां प्रवरैर्बलैर्भीममभिद्रुतम्
मज्जन्तमिव कौन्तेयमुज्जिहीर्षुर्धनञ्जयः
विमृद्य सूतपुत्रस्य सेनां भारत सायकैः
प्राहिणोन्मृत्युलोकाय परवीरान्धनञ्जयः
ततोऽस्याम्बरमावृत्य शरजालानि भागशः
अदृश्यन्त ततोऽन्ये च निजघ्नन्तस्तव वाहिनीम्
स पक्षिसङ्घाचरितमाकाशं पूरयञ्शरैः
धनञ्जयो महाबाहुः कुरूणामन्तकोऽभवत्
ततो भल्लैः क्षुरप्रैश्च नाराचैर्विमलैरपि
गात्राणि प्रावृणोत्पार्थः शिरांसि विचकर्त ह
छिन्नगात्रैर्विकवचैर्विशिरस्कैस्समन्ततः
पातितैश्च पतद्भिश्च योधैरासीत्समावृता
धनञ्जयशरव्यस्तैस्स्यन्दनाश्वरथद्विपैः
सञ्छिन्नभिन्नविध्वस्तैर्व्यङ्गाङ्गावयवैः स्तृता
गतसत्वैः ससत्वैश्च संवृताऽऽसीद्वसुन्धरा
सुदुर्गमा सुविषमा घोराऽत्यर्थं सुदुर्दृशा
रणभूमिर्बभौ राजन्घोरा वैतरणी यथा
ईषाचक्राक्षभग्नैश्च व्यश्वैस्साश्वैश्च युध्यताम्
ससूतैर्हतसूतैश्च रथैस्स्तीर्णाऽभवन्मही
सुवर्णवर्मसन्नाहैर्योधैः कनकमालिभिः
आस्थिताः क्लृप्तवर्माणो भद्रा नित्यमदा द्विपाः
क्रुद्धाः क्रुद्धैर्महामात्रैः प्रेषितार्जुनमभ्ययुः
चतुश्शता रथवरा हताः पेतुः किरीटिना
पर्यस्तानीव शृङ्गाणि ससत्वानि महागिरेः
धनञ्जयशराभ्यस्तैः कीर्णा गौर्वरवारणैः
अभिपेदेऽर्जुनरथो घनं भित्त्वा यथांशुमान्
हतैर्गजमनुष्यैश्च भग्नैश्च बहुधा रथैः
विशस्त्रवस्त्रकवचैर्युद्धशौण्डैर्गतासुभिः
अपविद्धायुधैर्स्तीर्णो मार्ग आसीत्किरीटिनः
विस्फारितं च गाण्डीवमत्यासीद्भैरवस्वनम्
सुघोषं वज्रनिष्पेषं स्तनयन्निव तोयदः
तव व्यदीर्यत चमूर्धनञ्जयशराहता
महावातसमाविद्धा महानौरिव सागरे
नानारूपाः प्राणहराश्शरा गाण्डीवचोदिताः
अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन्
महागिरौ वेणुवनमग्निप्रज्वलितं यथा
तथा तव महत्सैन्यं प्रास्फुरच्छरपीडितम्
तत्पिष्टनष्टविध्वस्तं तव सैन्यं किरीटिना
हतविप्रहतं बाणैः प्रायाद्भीतं दिशो दश
सश्वापदा मृगगणा दावाग्नित्रासिता इव
कुरवः पर्यवर्तन्त निर्दग्धास्सव्यसाचिना
उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे
बलं कुरूणामुद्विग्नमासीत्सर्व पराङ्मुखम्
ततः कुरुषु भग्नेषु बीभत्सुरपराजितः
भीमसेनं समासाद्य मुहूर्तं स व्यतिष्ठत
समागम्य च भीमेन जल्पित्वा च धनञ्जयः
विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम्
भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः
नादयन्रथघोषेण पृथिवीं द्यां च भारत
ततः परिवृतो वीरैर्दशभिश्शत्रुतापनः
दुश्शासनादवरजैस्तव पुत्रैर्धनञ्जयः
ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम्
आततेष्वसना शूरा नृत्यन्त इव भारत
अपसव्यन्तु तांश्चक्रे रथेन मधुसूदनः
नियुक्तान्हि स तान्मेने यमायाशु किरीटिना
तथाऽन्ये प्राणदन्मूढाः पराङ्मुखमिवार्जुनम्
तेषां नानदतां केतूनश्वांश्चापानि सारथीन्
नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यकृन्तत
तेषां वक्त्राणि विबभुर्व्योम्नि तारागणा इव
अथान्यैर्दशभिर्भल्लैश्शिरांस्येषामपातयत्
रोषसंरक्तनेत्राणि सन्दष्टोष्ठानि भूतले
तान् स भल्लैर्महावेगैर्दशभिर्दश कौरवान्
रुक्माङ्गदान्रुक्मपुङ्खैर्हत्वा प्रायादमित्रहा
तं प्रयान्तं महावेगैरश्वैः कपिवरध्वजम्
कर्णायाभिमुखं वीरमरीन् घ्नन्तं धनञ्जयम्
युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः
कृत्वा संशप्तका घोरान् शपथान् पारलौकिकान्
परिवव्रुर्नरव्याघ्रा महात्मानं रणेऽर्जुनम्
कृष्णश्श्वेतान्महावेगानश्वान्कनकभूषणान्
मुक्ताजालपरिच्छन्नान्प्रैषीत्कर्णरथं प्रति
प्रेक्ष्य कर्णरथं यान्तमरिघ्नं तं धनञ्जयम्
बाणवर्षैरभिघ्नन्तस्संशप्तकगणा ययुः
त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान्
जघान नवतिं वीरान्नवत्या फल्गुनश्शरैः
तेऽपतन्निहता बाणैर्नानारूपैः किरीटिना
विमानेभ्यस्सुकृतिनस्स्वर्गात्पुण्यक्षये यथा
ततस्सरथनागाश्वाः कुरवः कुरुसत्तम
निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम्
तदायस्तमनुष्यञ्च उदीर्णवरवारणम्
पुत्राणां ते महत्सैन्यं तदाऽरौत्सीद्धनञ्जयम्
शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः
प्राच्छादयन्महेष्वासाः कुरवः कुरुसत्तमम्
तामन्तरिक्षे विततां शस्त्रवृष्टिं समुद्यताम्
व्यधमत्पाण्डवो बाणैस्तमस्सूर्य इवांशुभिः
ततो म्लेच्छास्स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः
पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात्
कर्णिनालीकनाराचैस्तोमरप्रासशक्तिभिः
कर्पणैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन्
तां शस्त्रवृष्टिमतुलां द्विपस्थैः प्रेषितां प्रभुः
चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः
अथ तान्द्विरदान्सर्वान्नानालिङ्गैश्शरोत्तमैः
सपताकध्वजारोहान्गिरीन्वज्रैरिवाभिनत्
ते हेमपुङ्खैरिषुभिरर्दिता हेममालिनः
हताः पेतुर्महानागास्साग्निज्वाला इवाद्रयः
ततो गाण्डीवनिर्घोषो महानासीद्विशाम्पते
स्तनतां कूजतां चैव मनुष्यगजवाजिनाम्
कुञ्जराश्च हता राजन्दद्रुवुस्ते समन्ततः
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश
रथा हीना महाराज रथिभिर्वाजिभिस्तथा
गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः
अश्वारोहा महाराज धावमानास्सहस्रशः
तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः
तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत
यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि
असंयुक्ताश्च ते राजन्परिवृत्ता रणं प्रति
हया नागा रथाश्चैव नदन्तोऽर्जुनमभ्ययुः
तत्र त्र्यङ्गेण महता बलेन भरतर्षभ
दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम्
हतावशिष्टानुत्सृज्य तावकान्कतिचिद्रथान्
जवेनाभ्यपतद्भीमो धनञ्जयरथं प्रति
ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम्
दृष्ट्वाऽर्जुनं रणे भीममागतं भ्रातरं प्रति
हतावशिष्टांस्तुरगानर्जुनेन महाबलः
भीमोऽभ्यधावत्सङ्क्रुद्धो गदापाणिर्महाहवे
गदापाणिं तदा भीमं दृष्ट्वा भारत भारताः
मेनिरे तमनुप्राप्तं दण्डपाणिस्तमिवान्तकम्
गदां तुरगनाशाय त्वरन्भीमो व्यवासृजत्
कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम्
प्राकाराट्टपुरद्वारदारणीमतिदारुणाम्
सा जघान बहूनश्वानश्वारोहांश्च मारिष
कांस्यायसतनुत्राणान्नरान्नागांश्च पाण्डवः
पातयामास गदया सशब्दं तेऽपतन्हताः
दन्तैर्दशन्तो वसुधां शेरते क्षतजोक्षिताः
भग्नमूर्धास्थिचरणाः क्रव्यादगणमोदनाः
असृङ्मांसवसाभिश्च तृप्तिमाप हि सा गदा
अस्थीन्युद्गिरती तस्थौ कालरात्रीव दुर्दृशा
सहस्राणि दशाश्वानां हत्वा पत्तींश्च भूरिशः
भीमोऽभ्यधावत्सङ्क्रुद्धो गजानीकं महाबलः
गदापाणिं ततो भीमं दृष्ट्वा भारत तावकाः
मेनिरे समनुप्राप्तं कालदण्डोद्यतं यमम्
स मत्त इव मातङ्गस्सङ्क्रुद्धः पाण्डुनन्दनः
प्रविवेश गजानीकं मकरस्सागरं यथा
ततस्स समरश्लाघी गजानीकानि पातयन्
गदया व्यधमत्सङ्ख्ये दण्डपाणिरिवान्तकः
गजान्सकङ्कटान्मत्तान्सारोहान्सपताकिनः
न्यहनल्लीलया राजन् शिक्षया च बलेन च
ते गजा बह्वशोभन्त हन्यमाना महारणे
विनदन्तस्तदा तूर्णं पक्षवन्त इवाद्रयः
निपेतुरुर्व्यां समरे भीमसेनेन ताडिताः
छिन्नपक्षा यथा काले वज्ररुग्णा इवाद्रयः
हत्वा तु तद्गजानीकं भीमसेनो महाबलः
पुनस्स्वरथमास्थाय पृष्ठतोऽर्जुनमभ्ययात्
ततः पराङ्मुखीभूतं निरुत्साहं बलं तव
व्यलम्बत महाराज प्रायशश्शस्त्रवेधितम्
विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम्
दृष्ट्वा प्रच्छादयामास फल्गुनश्शस्त्रवृष्टिभिः
नराश्वरथमातङ्गा युधि गाण्डीवधन्वना
शरव्रातैश्चिता रेजुः कदम्बा इव केसरैः
ततः कुरुणामभवदार्तनादो महान्नृप
नराश्वनागासुहरान्दृष्ट्वा बाणान्किरीटिनः
हाहाकृतं भृशं त्रस्तं लीयमानं परस्परम्
अलातचक्रवत्सैन्यं तदा बभ्राम तावकम्
ततोऽर्जुनशरध्वस्तं कुरूणामभवद्बलम्
न तत्रासीदनिर्भिन्नो रथो वाजी नरो गजः
आदीप्तमिव तत्सैन्यं शरभिन्नतनुच्छदम्
आसीत्स्वशोणितक्लिन्नं रौद्रं द्रष्टुं विशाम्पते
तत्सैन्यं भरतश्रेष्ठ वध्यमानं शितैश्शरैः
न जहौ समरं प्राप्य फल्गुनं शत्रुतापनम्
तत्राद्भुतमपश्याम कौरवाणां पराक्रमम्
वध्यमानाऽपि यत्पार्थं न जहुर्भरतर्षभ
तं दृष्ट्वा विक्रमं तस्य कुरवस्सव्यसाचिनः
निराशास्समपद्यन्त सर्वे कर्णस्य जीविते
अविषह्यं तु पार्थस्य शरसंस्पर्शमाहवे
कुरवः पर्यवर्तन्त जिता गाण्डीवधन्वना
ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः
प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम्
तान्विद्रावयते पार्थः किरञ्शरशतान्शितान्
हर्षयन्पाण्डवीं सेनां राजंस्तं च वृकोदरम्
पुत्रास्तव महाराज जग्मुः कर्णरथं प्रति
अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा
कुरवोऽपि महाराज निर्विषा इव पन्नगाः
कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः
यथा भूतानि सर्वाणि मृत्योर्भीतानि भारत
धर्ममेवोपलीयन्ते धर्मवन्ति हि यानि वै
तथा कर्णं महेष्वासं पुत्रास्तव नराधिप
उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः
ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान्
मा भैष्टेत्यब्रवीत्कर्णो भीतानाविष्टचेतसः
प्रभग्नं हि बलं दृष्ट्वा महत्पार्थेन तावकम्
धनुर्विस्फारयन्कर्णस्तस्थौ पार्थजिघांसया
तान्विद्रुतान्कुरून्दृष्ट्वा कर्णश्शस्त्रभृतां वरः
विष्फारयित्वा दुर्धर्षं चापमातिरथिर्महत्
समभ्यधावत्पाञ्चालान् पश्यतस्सव्यसाचिनः
ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः
शरौघैश्छादयामासुर्महामेघा इवाचलम्
ततश्शरसहस्राणि कर्णमुक्तानि भारत
पाञ्चालानां हरन्प्राणांस्तमांसीव तमोनुदः
युद्धमासीत्ततो घोरं पाञ्चालानां विशाम्पते
वध्यतां सूतपुत्रेण मित्रार्थे जयगृद्धिना