सञ्जयः
जिघांसुभिस्तान्कुशलैश्शरोत्तमान्महात्मभिस्सम्प्रहितान्प्रयत्नतः
शरैः प्रचिच्छेद च पाण्डवस्त्वरन्परान्विनिर्भिद्य च तांस्त्रिभिस्त्रिभिः
स गाण्डिवव्यायतपूर्णमण्डलस्तपन्रिपूनर्जुनभास्करो बभौ
शरोग्ररश्मिश्शुचिशुक्रमध्यगो यथैव सूर्यः परिवेषवांस्तथा
अथाग्र्यबाणैर्दशभिर्धनञ्जयं गुरोस्तनूजस्स तदाऽच्युतं त्रिभिः
चतुर्भिरश्वांश्च कपिं ततस्त्रिभिश्शरैश्च नाराचवरैरवाकिरत्
तथा ततः प्रस्फुरदस्य कार्मुकं त्रिभिश्शरैर्यन्तृशिरश्चकर्त ह
हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं धनञ्जयो द्रौणिरथादपातयत्
स रोषपूर्णो मणिवज्रहाटकैरलङ्कृतं तक्षकभोगवर्चसम्
स तद्वधे कार्मुकमन्यदाददे यथा महाहिप्रवरं महत्तदा
स्वमायुधं चाथ विकीर्य भूतले धनुश्च कृत्वा सगुणं गुणाधिकः
स मानयंस्तावजितौ नरोत्तमौ शरोत्तमैर्द्रौणिरविध्यदन्तिकात्
कृपश्च भोजश्च तवात्मजस्तथा शरैरनेकैर्युधि पाण्डवर्षभम्
महारथास्संयुगमूर्धनि स्थितास्तमोनुदं वारिधरा इवाद्रवन्
कृपस्य पार्थस्सशरं शरासनं हयान्ध्वजान्सारथिमेव चाष्टभिः
न्यपातयद्बाहुसहस्रविक्रमस्तथा यथा वज्रधरः पुरा बलेः
स पाण्डवेनाथ निपातितायुधो ध्वजावमर्दे च कृते महाहवे
ततः कृपो बाणसमानमाचिनोद् यथाऽऽपगेयः प्रथमं किरीटिना
शरैः प्रचिच्छेद तवात्मजस्य ध्वजं धनुश्च प्रचकर्त नर्दतः
जघान चाश्वान्कृतवर्मणश्शुभान्ध्वजं प्रचिच्छेद तवात्मजस्य ह
सवाजिसूतेष्वसनान्सकेतनाञ्जघान नागाश्वरथांश्च स त्वरन्
ततः प्रकीर्णं सुमहद्वलं तव प्रतापितं सवितुरिवौजसा भृशम्
तथाऽर्जुनस्याथ रथेन केशवश्चकार शत्रूनपसव्यमातुरान्
ततः प्रयान्तं त्वरितं धनञ्जयं शतक्रतुं वृत्रनिजघ्नुषं यथा
तमन्वधावन्पुनरुच्छ्रितध्वजै रथैस्सुयुक्तैरपरे युयुत्सवः
अथाभिसृत्य प्रतिवार्य चाहितान्धनञ्जयस्यानुचरा महारथाः
शिखण्डिशैनेययमाश्शितैश्शरैरवाकिरन्तो व्यनदन्सुभैरवम्
ततोऽभिजघ्नुः कुपिताः परस्परं शरैस्तदाऽञ्जोगतिभिस्सुतेजनैः
कुरुप्रवीरास्सह पाण्डुसृञ्जयैस्सुरारयो देवपतिं यथा तथा
जयेप्सवस्स्वर्गमनाय चोत्सुकास्सपतत्तिनागाश्वरथास्समन्ततः
जगर्जुरुच्चैर्बलवश्च विव्यधुस्शरैस्सुमुक्तैरितरेतरं हृदि
शरान्धकारे तु महात्मभिः कृते महाहवे योधवरैः परस्परम्
चतुर्दिशो वै विदिशश्च पार्थिव प्रभा च सूर्यस्य तमोवृताऽभवन्