कर्णः
प्रकृतिस्थोऽसि मे शल्य इदानीं सम्मतस्तथा
प्रतिभासि महाबाहो अभीतश्च धनञ्जयात्
पश्य बाह्वोर्बलं मेऽद्य धनुषश्शिक्षितस्य च
एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम्
कृष्णौ च पुरुषव्याघ्रौ तव सत्यं ब्रवीमि भोः
नाहत्वा युधि तौ वीरौ प्रतियास्ये कथञ्चन
निहतो वा गमिष्यामि नैकान्तोअस्ति रणे जयः
कृतार्थोऽद्यागमिष्यामि हतो वा स्वर्गमाप्नुयाम्
शल्यः
अजेयमेनं प्रवदन्ति सङ्ख्ये धनञ्जयं कर्ण रथे प्रवीरम्
एकाकिनं किमु कृष्णाभिगुप्तं हन्तुं सहायं क इहोत्सहेत
कर्णः
नैतादृशो जातु रणो बभूव अस्मिल्ँलोके यादृशस्तु श्रुतो नः
तमीदृशं प्रतियोत्स्यामि पार्थं महाहवे पश्य च पौरुषं मे
रणे चरत्येष रथप्रवीरस्सितैर्हयैः कौरवराजपुत्रः
अद्याहं तं निहनिष्यामि सङ्ख्ये धनञ्जयं पश्यतस्ते समृद्धम्
अस्वेदिनौ राजपुत्रस्य पाणी अवेपमानौ जातकिणौ महान्तौ
दृढायुधः कृतिमान्क्षिप्रयोधी न पाण्डवस्य सदृशोऽस्ति योधः
गृह्णन्विमुञ्चन् स निमेषमात्रात्पुरन्दरस्येव च तुल्यवीर्यः
ते क्रोशमात्रे निपतन्त्यमोघा न पाण्डवस्य सदृशोऽस्ति कश्चित्
रथान्वरानेति रथप्रवीरश्शीघ्रैर्हयैः कौरवान्राजपुत्रः
स चाद्य मां नेष्यति क्षिप्रमन्तं कर्णस्यान्तेऽप्यत्र भवेत्समर्थः
अतीवान्यान्धनुषि हि राजपुत्रस्त्वतीवान्यान् केशवश्चक्रयुद्धे
तमीदृशं प्रतियोत्स्यामि पार्थं महाहवे त्वं मम पश्य पौरुषम्
अतोषयत्खाण्डवे यो हुताशं कृष्णो हि कृष्णेन युतस्तरस्वी
लेभे चक्रं तत्र कृष्णो महात्मा धनुर्वरं गाण्डिवं सव्यसाची
श्वेताश्वयुक्तं च महौघघोषं रथं महाबाहुरदीनसत्त्वः
महेषुधी चाक्षयौ विद्युदाभौ शस्त्राणि चान्यानि तु हव्यवाहात्
यस्त्विन्द्रलोके निजघान सङ्घशो यः कालकेयानपरांश्च दैत्यान्
लेभे शङ्खं देवदत्तं च तत्र को नाम तस्याभ्यधिकः पृथिव्याम्
महादेवं तोषयामास चैव साक्षात्सुयुद्धेन महानुभावः
लेभे ततः पाशुपतं सुघोरं त्रैलोक्यसंहारकरं महास्त्रम्
पृथक्पृथक्लोकपालास्समेता ददुर्ह्यस्त्राण्यप्रमेयाणि तस्मै
अस्त्रैर्जघानाश्वरथप्रवीरान् सकालकेयानसुरान्समेतान्
अनन्तवीर्येण च केशवेन नारायणेनाप्रतिमेन गुप्तः
तथा विराटस्य पुरे समेतान्सर्वानस्मानेकरथेन जित्वा
जहार तद्गोधनमाजिमध्ये वस्त्राणि चादत्त महारथानाम्
तमीदृशं वीर्यगुणोपपन्नं कृष्णद्वितीयं वरये रणाय
वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः
महात्मनश्शङ्खचक्रासिपाणेर्विष्णोर्जिष्णोर्वसुदेवात्मजस्य
भयं न मे जायते साध्वसं च दृष्ट्वा कृष्णावेकरथे समेतौ
उभौ च शूरौ कृतिनौ कृतास्त्रौ महारथौ संहननोपपन्नौ
एतादृशौ नरवीरौ समेतौ स्थानाच्च्युतौ देवकुमारवर्चसौ
अग्न्यादित्याविन्द्रबृहस्पती वा यमान्तकौ वा शशिपूषणौ वा
भगांशमित्रावरुणावश्विनौ वा मरुद्गणा वा वसवस्सहेन्द्राः
व्यस्तास्समस्ताश्च युधा न शक्ता जेतुं प्रसह्यार्जुनमच्युतं च
एतौ हि तावर्जुनवासुदेवौ कोऽन्यः प्रतीयान्मदृतेऽद्य शल्य
सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः
तावुभौ पुरुषव्याघ्रौ समाने स्यन्दने स्थितौ
मामेकमभियोद्धारौ सुजातं बत शल्य मे
नैतच्चिरात् क्षिप्रमिमं रथं मे प्रवर्तयैतावभियामि चैव
अस्मिन्मुहूर्ते निहतौ पश्य कृष्णौ मया हतं वा युधि मामरिभ्याम्
मनोरथो यस्तु महान् हि नित्यं मद्रेश युद्धं प्रति पाण्डवेन
नेदं चिरादाशु भविष्यतीह तोषस्तु मां वर्धयते निकामम्
सञ्जयः
एतावहं वा युधि पातयिष्ये मां वाऽपि कृष्णौ निहनिष्यतोऽथ
एवं ब्रुवाणस्सहसा महारथस्त्वभ्यद्रवत्पाण्डवं सूतपुत्रः
अभ्येत्य पुत्रेण तवाभिनन्दितास्समेत्य चोक्ताः कुरुवीरसत्तमाः
कृपश्च भोजश्च महारथावुभौ स चापि राजा शकुनिस्सहात्मजैः
गुरोस्सुतस्तत्र तवात्मजास्तथा पदातिसङ्घा द्विरदा रथास्तथा
दुर्योधनः
निरुन्धताभिद्रवताच्युतार्जुनौ श्रमेण संयोजयताशु सर्वशः
तथा भवद्भिर्भृशविक्षतावुभौ सुखेन हन्यान्मम वाहिनीपतिः
सञ्जयः
नदीनदान् पूर्णजलान् महार्णवो यथा तथा तान्समरेऽर्जुनोऽग्रसत्
तथेति चोक्त्वा त्वरितास्तथाऽर्जुनं जिघांसमानास्मरे समभ्ययुः
शरैश्च जघ्नुर्युधि तं महारथं धनञ्जयं सर्वत एव पार्थिवाः
न सन्दधन्नैव समुद्धरञ्शरान्न चापि मुञ्चन्नरिभिस्स दृश्यते
तथाऽर्जुनास्त्रैर्निशितैर्विदारिता हता निपेतुर्नरवाजिकुञ्जराः
शरार्चिषं गाण्डीवचारुमण्डलं युगान्तसूर्यप्रतिमानतेजसम्
न कौरवाश्शेकुरुदीक्षितुं तदा यथा रविं व्याधितचक्षुषो जनाः
तमभ्यधावद्विसृजञ्शरान्कृपस्तथैव भोजस्तव चात्मजस्स्वयम्
महारथो द्रोणसुतश्च सायकैरवाकिरंस्तोयधरा इवाचलम्