सञ्जयः
हत्वा तु फल्गुनस्सैन्यं कौरवाणां पृथक्पृथक्
सूतपुत्रस्य संरम्भं दृष्ट्वा चापि महाहवे
शोणितोदां नदीं कृत्वा मांसमज्जास्थिशैवलाम्
मनुष्यशीर्षपाषाणां हस्त्यश्वकृतरोधसम्
शूरास्थियवसङ्कीर्णां काकगृध्रादिनादिताम्
छत्रहंसप्लवोपेतां वीरक्षीषापहारिणीम्
हारपद्माकरवतीमुष्णीषवरफेनिलाम्
धनुश्शरगृहोपेतां नरक्षुद्रकपालिनीम्
वर्मचर्मभ्रमोपेतां रथोडुपसमाकुलाम्
जयैषिणां च सुतरां भीरूणां च सुदुस्तराम्
अर्जुनः
तां नदीं द्रावयित्वा वै बीभत्सुः परवाहिनीम्
वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभः
एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते
भीमसेनादयश्चैव योधयन्ति महारथाः
एते द्रवन्ति पाञ्चालाः कर्णत्रस्ता जनार्दन
एष दुर्योधनो राजा श्वेतच्छत्रेण धार्यते
कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते
कृपश्च कृतवर्मा च भारद्वाजश्च वीर्यवान्
एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः
अवध्यमानास्ते चापि योधयिष्यन्ति सोमकान्
एष शल्यो रथोपस्थे रश्मिसङ्ग्राहकोविदः
सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते
तत्र मे बुद्धिरुत्पन्ना वाहयात्र रथं मम
नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन
मा स्म कर्णो रणे पार्थान्सृञ्जयांश्च महारथान्
निश्शेषान्समरे हन्यात्पश्यतां नो जनार्दन
सञ्जयः
ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम्
कर्णं प्रति महाराज द्वैरथे सव्यसाचिनः
स प्रयातो रथेनाशु कृष्णो राजन्महाहवे
आश्वासयद्रथेनाशु पाण्डुसैन्यानि सर्वशः
रथघोषस्ततस्तस्य पाण्डवस्य बभूव ह
वासवास्त्रनिपातेन पर्वतेष्विव मारिष
महता रथघोषेण पाण्डवस्सत्यविक्रमः
अभ्ययात्ताममेयात्मा विजयस्तव वाहिनीम्
तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम्
मद्रराजोऽब्रवीत्कर्णं दृष्ट्वा केतुं महात्मनः
शल्यः
अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः
निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि
एष तिष्ठति कौन्तेयस्संस्पृशन्गाण्डिवं धनुः
तं हनिष्यसि चेदद्य तन्नश्श्रेयो भविष्यति
धनुर्ज्या चन्द्रताराङ्का पताकाकिङ्किणीयुता
पश्य कर्णार्जुनस्यैषा सौदामिन्यम्बरे यथा
एष ध्वजाग्रे पार्थस्य प्रेक्षमाणस्समन्ततः
दृश्यते वानरो भीमो वीक्षतां भयवर्धनः
एतच्चक्रं गदा शङ्खश्शार्ङ्गं कृष्णस्य च प्रभो
दृश्यते पाण्डवरथे वाहयानस्य वाजिनः
एतत्कूजति गाण्डीवं विकृष्टं सव्यसाचिना
एते हस्तवता मुक्ता घ्नन्त्यमित्राञ्शिताश्शराः
विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः
एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम्
एते परिघसङ्काशाः पुण्यगन्धानुलेपनाः
उद्धता रणशौण्डानां पात्यन्ते सायुधा भुजाः
निरस्तजिह्वानेत्रान्ता वाजिनस्सह सादिभिः
पतिताः पात्यमानाश्च क्षितौ क्षीणा विशेरते
एते पर्वतशृङ्गाणां तुल्या हैमवता गजाः
सञ्छिन्नकुम्भाः पार्थेन प्रपतन्त्यद्रयो यथा
गन्धर्वनगराकारा रथा हतरथेश्वराः
विमानादिव पुण्यान्ते स्वर्गिणो निपतन्त्यमी
व्याकुलीकृतमत्यर्थं पश्य सैन्यं किरीटिना
नानामृगसहस्राणां यूथं केसरिणा यथा
त्वामभिप्रेप्सुरायाति कर्ण निघ्नन्परान्वरान्
असज्जमानो राधेय तं याहि प्रति भारत
एष तिष्ठति कौन्तेयस्संस्पृशन् गाण्डिवं धनुः
तं चेद्धनिष्यसि त्वद्य तन्नश्श्रेयो भविष्यति
घृणां त्यक्त्वा प्रमादं च भृगोरस्त्रं च संस्मर
दृष्टिं मुष्टिं च सन्धानः कृत्वा रामोपदेशजम्
धनञ्जयं जयप्रेप्सुः प्रत्युद्गच्छ महारथम्
वाजिविद्यापरिज्ञाने नये बुद्धौ बले हरिः
न मां विजेष्यते कर्ण गदायुद्धे विशेषतः
एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः
अर्जुनस्य भयात्तूर्णं निघ्नतश्शात्रवान्बहून्
वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः
त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः
न ह्यवस्थाप्यते पार्थो युयुत्सुः केनचिद्रथम्
त्वदृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे
विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम्
शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम्
द्रौपदेयान्युधामन्युमुत्तमौजसमेव च
नकुलं सहदेवं च वशगांस्ते समीक्ष्य तु
सहसैकरथः पार्थस्त्वामभ्येति परन्तपः
क्रोधरक्तेक्षणः कर्णः जिघांसुस्सर्वपार्थिवान्
त्वरितोऽभिपतत्यस्मान् हत्वा सैन्यं पृथग्विधम्
त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः
न तं पश्यामि लोकेऽस्मिंस्त्वत्तो ह्यन्यं कथञ्चन
योऽर्जुनं सागरौघाभं क्रुद्धं वेलेव वारयेत्
न चास्य रक्षां पश्यामि पार्श्वतो न च पृष्ठतः
एक एवाभियाति त्वां पश्य साफल्यमात्मनः
त्वं हि शक्तो रणे कृष्णौ योद्धुमेतौ परन्तपौ
तवैष भारो राधेय प्रत्युद्याहि धनञ्जयम्
त्वं समो ह्यसि भीष्मेण द्रोणद्रौणिकृपैरपि
सव्यसाचिप्रतिरथस्तं निवारय पाण्डवम्
लेलिहानं यथा सर्पं गर्जन्तं वृषभं यथा
वनस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम्
एते द्रवन्ति समरान्निरपेक्षा नराधिपाः
अर्जुनस्य भयात्तूर्णं धार्तराष्ट्रा महारथाः
एषां तु द्रवतां सङ्ख्ये नान्योऽस्ति युधि मानद
भयापहो भवेद्वीरस्त्वामृते सूतनन्दन
एते त्वां कुरवस्सर्वे द्वीपमासाद्य संयुगे
धिष्ठिताः पुरुषव्याघ्र त्वत्तश्शरणकाङ्क्षिणः
वैदेहाम्बष्ठकाम्भोजास्तथा नग्नजितस्त्वया
गान्धाराश्च यया धृत्या जितास्सङ्ख्ये सुदुर्जयाः
तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम्
वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना
प्रत्युद्याहि महाबाहो पौरुषे महति स्थितः
यथैकेन त्वया पूर्वं कृतो दिग्विजयः पुरा
मरुत्सूनोर्यथा सूनुर्घातितश्शक्रदत्तया
कलिङ्गाधिपतिं जित्वा त्वया नीता तदन्तरे
दुर्योधनस्य महिषी जरासन्धं विजित्य च
तदेतत्सर्वमालम्ब्य जहि पार्थं धनञ्जयम्