धृतराष्ट्रः
ततो भग्नेषु सैन्येषु भीमसेनेन सञ्जय
दुर्योधनोऽब्रवीत्किं नु सौबलो वाऽपि साम्प्रतम्
कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि
कृपो वा कृतवर्मा वा द्रौणिर्दुश्शासनोऽपि वा
अत्यद्भुतमहं मन्ये पाण्डवेयस्य विक्रमम्
यदेकस्समरे सर्वान्योधयामास मामकान्
यथाप्रतिज्ञं योधानां राधेयः कृतवानपि
सर्वेषां कुरुयोधानां कर्णो वै शत्रुसूदनः
शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय
तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा
धनुर्धराणां प्रवरः कर्णः किमकरोद्युधि
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय
सञ्जयः
अपराह्णे महाराज सूतपुत्रः प्रतापवान्
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः
भीमोऽप्यतिबलस्सेनां धार्तराष्ट्रीं व्यपोथयत्
द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धन्विना
यन्तारमब्रवीत्कर्णः पाञ्चालानेव मां वह
मद्रराजस्ततश्शल्यश्श्वेतानश्वान्मनोजवान्
प्राहिणोच्चेदिपाञ्चालान्करूशेषु महाबलः
प्रविश्य च स तां सेनां शल्यः परबलार्दनः
न्ययच्छत्तुरगान्हृष्टो यत्रयत्रैच्छदग्रणीः
तं रथं मेघसङ्काशं वैयाघ्रपरिवारणम्
सन्दृश्य पाण्डुपञ्चालास्त्रस्ता ह्यासन्विशाम्पते
तस्य शब्दो रथस्याथ प्रादुरासीद्विशाम्पते
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः
ततश्शरशतैस्तीक्ष्णैराकर्णात्करनिस्सृतैः
हन्यते पाण्डवं सैन्यं शतशोऽथ सहस्रशः
तं तथा समरे कर्म कुर्वाणमपराजितम्
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः
तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः
नकुलस्सहदेवश्च द्रौपदेयाश्च सात्वतः
परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः
सात्यकिस्तु तदा कर्णं विंशत्या निशितैश्शरैः
अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च सप्तभिः
द्रौपदेयाश्चतुष्षष्ट्या सहदेवश्च सप्तभिः
नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः
भीमसेनश्च राधेयं नवत्या नतपर्वभिः
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः
अथ प्रहस्यातिरथिर्व्याक्षिपद्धनुरुत्तमम्
मुमोच निशितान्बाणान्पीडयन्स महारथान्
तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिश्शरैः
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च भरतर्षभ
अथैनं नवभिर्बाणैराजघान स्तनान्तरे
भीमसेनं ततः क्रुद्धो विव्याध निशितैश्शरैः
सहदेवस्य भल्लेन ध्वजं चिच्छेद संयुगे
सारथिं च त्रिभिर्बाणैराजघान स्तनान्तरे
विरथान्द्रौपदेयांश्च चकार भरतर्षभ
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत्
विमुखीकृत्य ताञ्छूराञ्शरैस्सन्नतपर्वभिः
पाञ्चालानहनच्छूरांश्चेदीनां चैव ये रथाः
ते वध्यमानास्समरे चेदिमत्स्या विशाम्पते
कर्णमेकमभिद्रुत्य शरसङ्खैस्समार्पयन्
ताञ्जघान शितैर्बाणैस्सूतपुत्रो महारथः
ततस्तान् प्रहसन्वीरो विजिग्ये पाण्डवान्रणे
ते वध्यमानास्समरे चेदिमुख्या विशाम्पते
प्राद्रवन्त रणे भीतास्सिंहात्क्षुद्रमृगा इव
तत्राद्भुततमं कर्म दृष्टवानस्मि भारत
यदेकस्समरे शूरान्यतमानान् महारथान्
योधयामास समरे सूतपुत्रःप्रतापवान्
पाण्डवेयान्महाराज शरैरावारयद्रणे
तत्र भारत कर्णस्य लाघवेन महात्मनः
तुतुषुर्देवतास्सर्वास्सिद्धाश्च सह चारणैः
अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम्
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम्
ततः कर्णो महाराज ददाह समरे रिपून्
कक्षं शुष्कं यथा वह्निर्निदाघे ज्वलितो दहेत्
ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः
प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महारथम्
तत्राक्रन्दो महानासीत्पाञ्चालानां विशाम्पते
वध्यतां सायकैस्तीक्ष्णैरुग्रैः कर्णधनुश्च्युतैः
तेन शब्देन वित्रस्ता पाण्डवानां महारथाः
कर्णमेकं रणे योधं मेनिरे तत्र भारत
तत्राद्भुतं महच्चक्रे राधेयश्शत्रुकर्शनः
यदेनं पाण्डवास्सर्वे न शेकुरभिवीक्षितुम्
जलौघः पर्वतश्रेष्ठं यथाऽऽसाद्य प्रभिद्यते
तथा तत्पाण्डवं सैन्यं कर्णं प्राप्य व्यदीर्यत
कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन्
ददाह पुरुषव्याघ्रः पाण्डवानां महाचमूः
शिरांसि च महाराज योधानां कुण्डलानि च
बाहूनूरूंस्तथा जङ्घाश्चिच्छेद परमेषुभिः
हस्तिदन्तत्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान्
रथांश्च विविधाकारान्पताका व्यजनानि च
ईषानक्षान् युगांश्चैव चित्रांश्च रथकूबरान्
चिच्छेद बहुधा कर्णो योधव्रतमनुष्ठितः
तत्र भारत कर्णेन निहतैर्गजवाजिभिः
अगम्यरूपा पृथिवी मांसशोणितकर्दमा
विषमं च समं चैव हतैरश्वैः पदातिभिः
रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किञ्चन
नापि स्वे न परे योधाः व्यज्ञायन्त विशाम्पते
घोरे शरान्धकारे तु शस्त्रास्त्रे च विजृम्भिते
राधेयधनुषा मुक्तैश्शरैः कनकभूषणैः
सञ्छादितं महाराज पाण्डवानां महद्बलम्
ते पाण्डवेयास्समरे कर्णेन स्म पुनः पुनः
अभज्यन्त महाराज यतमाना महारथाः
मृगसङ्घान्यथा क्रुद्धस्सिंहो द्रावयते बली
पाणडवानां रथव्रातान्कर्णो द्रावयते तथा
कर्णस्तु समरे योधांस्तत्र तत्र महायशाः
कालयामास सङ्क्रुद्धो यथा पशुगणान्वृकः
दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम्
अनुजग्मुर्महेष्वासा नदन्तो भैरवान्रवान्
दुर्योधनोऽपि राजेन्द्र मुदा परमया युतः
वादयामास संहृष्टो नानावाद्यान्यनेकशः
पाञ्चालाश्च महेष्वासा भग्ना भग्नाः पुनः पुनः
न्यवर्तन्त रणे शूरा मृत्युं कृत्वा निवर्तनम्
तान्निवृत्तान्रणे शूरान्राधेयश्शत्रुतापनः
अनेकशो महाराज बभञ्ज च पुनः पुनः
तत्र भारत कर्णेन पाञ्चालाः पण्चविंशतिः
निहतास्सायकैः क्रोधाच्चेदयश्च परश्शताः
कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत
निर्मनुष्यान्गजस्कन्धान्पादातांश्चापि विद्रुतान्
आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परैस्तदा
कालान्तक इव क्रुद्धस्सूतपुत्रः प्रकाशते
एवमेतन्महाराज नरवाजिरथद्विपान्
हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः
यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः
तथाऽसौ सोमकान्हत्वा तस्थावेको महारथः
तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम्
वध्यमानाश्च यत्कर्णं न जहू रणमूर्धनि
दुर्योधनो महाराज कृपो दुश्शासनस्तथा
द्रौणिश्च कृतवर्मा च शकुनिश्चापि सौबलः
व्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः
कर्णपुत्रौ तु राजेन्द्र भ्रातरौ सत्यविक्रमौ
बलं नाशयतस्त्वाजौ पाण्चालानां ततस्ततः
तत्र युद्धं महच्चासीद्घोरं विशसनं महत्
तथैव पाण्डवाश्शूरा धृष्टद्युम्नशिखण्डिनौ
द्रौपदेयाश्च सङ्क्रुद्धा न्यहनंस्तावकं बलम्
एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः
तावकानाञ्च भूयिष्ठं भीमं प्राप्य महाबलम्