सञ्जयः
हत्वा दशसहस्राणि गजानामनिवर्तिनाम्
नृणां शतसहस्रे द्वे द्वे शते चैव भारत
पञ्च चाश्वसहस्राणि रथानां शतमेव च
ततः प्रास्यन्दयद्भीमो नदीं शोणितकरदमाम्
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम्
नरमीनाश्वनक्रां केशशैवलशाद्वलाम्
सञ्छिन्नभुजगां नानारत्नविभूषिताम्
ऊरुग्रहां मज्जपङ्कां शीर्षोपलनिषेविताम्
धनुःकाशशराघाठां गदापरिघफेनिलाम्
हंसछत्रध्वजोपेतामुष्णीषवरफेनिलाम्
हारवर्षकरां चैव भूमिरेणूर्मिमालिनीम्
योधग्राहवतीं सङ्ख्ये वहन्तीं यमसादनम्
क्षणेन पुरुषव्याघ्रः प्रावर्तयत तां नदीम्
यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः
तथा प्रावर्तयद्भीमो वीरयोधापहारिणीम्
यतोयतः पाण्डवेयः प्रातिष्ठद्रथसत्तमः
ततस्ततः प्रापतन्वै योधाश्शतसहस्रशः
एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे
दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत्
दुर्योधनः
जहि मातुल सङ्ग्रामे भीमसेनं महाबलम्
सञ्जयः
भागिनेयवचश्श्रुत्वा शकुनिश्शठकृत्तमः
ततः प्रायान्महाराज सुबलस्यात्मजो बली
रणाय महते युक्तो भ्रातृभिः परिवारितः
स समासाद्य सङ्ग्रामे भीमं भीमपराक्रमम्
वारयामास बलवान् वेलेव मकरालयम्
नात्यवर्तत भीमोऽपि वार्यमाणश्शितैश्शरैः
भींस्य शकुनिस्तत्र सव्यपार्श्वे स्तनान्तरे
प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान्
वर्म भित्त्वा तु ते घोराः पाण्डवस्य महात्मनः
न्यमज्जन्त महाराज कङ्कबर्हिणवाससः
सोऽतिविद्धो रणे भीमश्शरं रुक्मविभूषितम्
प्रेषयामास सहसा सौबलं प्रति भारत
तमायान्तं शरं घोरं शकुनिश्शत्रुतापनः
चिच्छेद सप्तधा राजन्कृतहस्तो महाबलः
तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशाम्पते
धनुश्छिच्छेद भल्लेन सौबलस्य हसन्निव
तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान्
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश
तैस्तस्य तु महाराज भल्लैस्सन्नतपर्वभिः
चतुर्भिस्सारथिं विद्ध्वा भीमं पञ्चभिरेव च
धनुरेकेन चिच्छेद ध्वजं द्वाभ्यां विशाम्पते
चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः
ततो हतष्टो महाराज तव पुत्रो महीपतिः
दुर्योधनः
साधु साधु महाबाहो जहि भीमं निशितैश्शरैः
अयमेव सुदुष्टात्मा सर्वथाऽस्मान् प्रबाधते
तत एनं महाबाहो विनिहत्य सुखी भव
सञ्जयः
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान्
शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम्
सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला
निपपात रथे तूर्णं सौबलस्य महात्मनः
ततस्तामेव सङ्गृह्य शक्तिं कनकभूषणाम्
भीमसेनाय चिक्षेप क्रुद्धरूपो विशाम्पते
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महौजसः
निपपात तथा भूमौ यथा विद्युन्नभश्च्युता
अथोत्क्रुष्टं महाराज धार्तराष्ट्रैस्समन्ततः
न तु तं ममृषे भीमस्सिंहनादं तरस्विनाम्
स सङ्गृह्य धनुस्सज्यं त्वरमाणो महारथः
मुहूर्तादिव राजेन्द्र च्छादयामास सायकैः
सौबलस्य बलं सङ्ख्ये त्यक्त्वा नादं महाबलः
तस्याश्वांश्चतुरो हत्वा सूतं चैव विशाम्पते
ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी
हताश्वं रथमुत्सृज्य त्वरमाणो महारथः
तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणश्श्वसन्
शरैश्च बहुधा राजन्भीममार्च्छत्परन्तपः
प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान्
धनुश्चिच्छेद सङ्क्रुद्धो विव्याध निशितैश्शरैः
स तु विद्धो बलवता शत्रुणा शत्रुपापनः
निपपात तदा भूमौ किञ्चित्प्राणो नराधिपः
ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशाम्पते
अपोवाह रथेनाजौ भीमसेनशरातुरम्
शकुनिं विह्वलं दृष्ट्वा धार्तराष्ट्राः पराङ्मुखाः
प्रदुद्रुवुर्दिशो भीता भीमसेनभयात्प्रभो
सौबले निर्जिते राजन्भीमसेनेन धन्विना
भयेन महताऽऽविष्टः पुत्रो दुर्योधनस्तव
अपायाज्जवनैरश्वैस्सापेक्षो मातुलं प्रति
पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत
उत्सृज्योत्सृज्य गच्छन्ति द्वैरथानि समन्ततः
तान्दृष्ट्वा विद्रुतान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान्
जवेनाभ्यापतद्भीमस्सर्वानेव महाबलः
ते भज्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः
कर्णमासाद्य समरे स्थिता राजन्समन्ततः
स हि तेषां महावीर्यो द्वीपो ह्यासीन्महारथः
भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः
भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये
तथा कर्णं समासाद्य तावकाः भरतर्षभ
समाश्वस्तास्स्थिता राजन्सम्प्रहृष्टाः परस्परम्
समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम्