सञ्जयः
श्रुत्वा तु रथनिर्घोषं सिंहनादं च संयुगे
अर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः
अर्जुनस्य वचश्श्रुत्वा गोविन्दोऽर्जुनमब्रवीत्
श्रीभगवान्
एष गच्छामि तु क्षिप्रं यत्र भीमो व्यवस्थितः
सञ्जयः
तं यान्तमश्वा हिमशङ्खवर्णास्सुवर्णमुक्तामणिजालनद्धाः
जम्भं जिघांसुं प्रगृहीतवज्रमिन्द्रं यथा तत्र तथाऽवहंस्ते
ततस्तमायान्तमभिप्रवीक्ष्य राज्ञा सुशूरेण सुयोधनेन
सञ्चोदितास्सिन्धुकलिङ्गवङ्गाः पुण्ड्राङ्गसौवीरसुराष्ट्रभूपाः
रथाश्वमातङ्गपदातिसङ्घा बाणस्वनैर्नेमिखुरस्वनैश्च
सन्नादयन्तो वसुधां दिशश्च क्रुद्धास्सर्वे ह्यर्जुनमभ्युदीयुः
तेषां च पार्थस्य च समागमोऽभूद्देहासुपापक्षपणं सुयुद्धम्
त्रैलोक्यहेतोरसुरैर्यथाऽऽसीद्देकस्य विष्णोर्जयतां वरस्य
तैरस्तमुच्चावचमायुधं तदेकः प्रचिच्छेद किरीटमाली
क्षुरार्धचन्द्रैर्निशितैश्च भल्लैश्शिरांसि तेषां बहुधा च बाहून्
छत्राणि वालव्यजनानि केतूनश्वान्रथान्पत्तिगणान्द्विपांश्च
ते पेतुरुर्व्यां बहुधा विकृत्ता वातप्रणुन्नानि यथा वनानि
सुवर्णजालावनता महाद्विपास्सवैजयन्तीध्वजयोधकल्पिताः
सुवर्णपुङ्घैरिषुभिस्समाचिताश्चकाशिरे प्रज्वलिता इवाचलाः
विदार्य नागाश्वरथान्धनञ्जयश्शरोत्तमैर्वासववज्रसन्निभैः
द्रुतं ययौ कर्णजिघांसया बली यथा मरुत्वान्बलिनं बलं पुरा
तथा स पुरुषव्याघ्रस्तव सैन्यमरिन्दमः
प्रविवेश महाबाहुर्मकरस्सागरं यथा
तं हृष्टा तावका राजन्रथपत्तिसमन्विताः
गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन्
तत्राभिद्रवतां पार्थमारावस्सुमहानभूत्
क्षुब्धस्य सागरस्येव यथा स्यात्सलिलस्वनः
ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः
तेषां चतुश्शतं राजन् यतमाना महारथाः
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा प्राणकृतं भयम्
तेषामापततां तत्र शरवर्षाणि मुञ्चताम्
अर्जुनो व्यधमत्सैन्यं महावातो घनानिव
तेऽर्जुनं सहिता भूत्वा शरवर्षैः प्रहारिणः
अपिधाय महेष्वासा विव्यधुर्निशितैश्शरैः
शक्तिभिस्तोमरैः प्रासैः कर्कणैः कूटमुद्गरैः
शूलैस्त्रिशूलैः परिघैर्भिण्डिपालैः परश्वथैः
करवालैर्हेमदण्डैर्यष्टिभिर्मुसलैर्हलैः
प्रहृष्टाश्चक्रिरे पार्थ समन्ताद्गूढमायुधैः
शिबिराद्देशमायान्तमर्जुनं सहकेशवम्
ततोऽर्जुनस्सहस्राणि नरवारणवाजिनाम्
प्रेषयच्छसङ्घातैर्यमस्य सदनं प्रति
ते वध्यमानास्समरे पार्थचापच्युतैश्शरैः
तत्र तत्रैव लीयन्ते भये जाते महारथाः
तेषां चतुश्शतान्वीरान्यतमानान्महारथान्
अर्जुनो निशितैर्बाणैरनयद्यमसादनम्
ते वध्यमानास्समरे नानालिङ्गैश्शरोत्तमैः
अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भयात्
तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे
महौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः
तां तु सेनां भृशं त्रस्तां द्रावयित्वाऽर्जुनश्शरैः
प्रायादभिमुखः पार्थः कर्णानीकाय भारत
तस्याभिद्रवतः कर्णं रथघोषो महानाभूत्
गरुडस्येव पततः पन्नगार्थं महाम्बरे
तं तु शब्दं तदा श्रुत्वा भीमसेनो महाबलः
बभूव परमप्रीतः पार्थदर्शनलालसः
श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान्
त्यक्त्वा प्राणभयं राजन् सेनां तव ममर्द च
स वायुवीर्यप्रतिमो वायुवेगसमो जवे
वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान्
तेनार्द्यमाना राजेन्द्र सेना तव विशाम्पते
व्यशीर्यत महाराज नौरिवासाद्य पर्वतम्
तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम्
शरैरवचकर्तोग्रैः प्रेषयिष्यन्यमक्षयम्
तत्र भारत भीमस्य बलं दृष्ट्वाऽतिमानुषम्
व्यत्रस्यन्त रणे योधाः कालस्येव जिघृक्षतः
तथाऽर्दितान्भीमबलान्भीमसेनेन भारत
दृष्ट्वा दुर्योधनो राजन्निदं वचनमब्रवीत्
सैनिकान् समहेष्वासान्योधांश्च भरतर्षभ
समादिशद्रणे सर्वान् घ्नत भीममिति स्म ह
अस्मिन्हते हतं सर्वं मन्ये सैन्यमशेषतः
प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः
भीमं प्रच्छादयामासुस्समन्तान्निशितैश्शरैः
गजाश्च बहुला राजन्नराश्च जयगृद्धिनः
रथा हयाश्च राजेन्द्र परिवव्रुर्वृकोदरम्
स तैः परिवृतश्शूरैश्शूरो राजन्समन्ततः
शुशुभे भरतश्रेष्ठो नक्षत्रैरिव चन्द्रमाः
परिवेषी यथा सोमः परिपूर्णो विराजते
स चचार महासङ्ख्ये दर्शनीयो नरोत्तमः
निर्विशेषं महाराज विजयेनैव संयुगे
तत्र ते पार्थिवास्सर्वे शरवृष्टिमवासृजन्
क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम्
तां विदार्य महासेनां शरैस्सन्नतपर्वभिः
निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि