सञ्जयः
भीमसेनः
अथ त्विदानीं तुमुले विमर्दे द्विषद्भिरेको बहुभिर्निरुद्धः।
महाहवे सारथिमित्युवाच भीमश्चमूं वाहयन् धार्तराष्ट्रीम्
त्वं सारथे याहि जवेन वाहिनीम् नयाम्येतान्धार्तराष्ट्रीं यमाय
सञ्जयः
स चोदितो भीमसेनेन राजंस्तवात्मजानां हि बलस्य हेतोः
प्रायात्ततस्सारथिरुग्रवेगो यतो यतो भीमसेनस्त्वगच्छत्
ततः परे नागरथाश्वपत्तिभिः प्रत्युद्ययुः कुरवो भीमसेनम्
वृकोदरं तूर्णमुदारवेगास्समन्ततो बाणगणैरविध्यन्
ततश्शरानापततो महात्मा शरैश्चिच्छेद सुवर्णपुङ्खैः
तेषां निपेतुश्शतधा शरौघा द्विधा त्रिधा भीमशरैर्निकृत्ताः
ततो गजस्यन्दनवाजिनॄणां भीमाहतानां पततामाजिमध्ये
घोरो निनादस्समभून्नरेन्द्र वज्राहतानामिव पर्वतानाम्
ते वध्यमानाश्च नरेन्द्रमुख्या निर्भिद्यमानाश्च हि भीमबाणैः
भीमं समन्तात्समरेऽभिजग्मुर्वृक्षं शकुन्ता इव पुष्पहेतोः
ततो भीमस्तव सैन्यप्रवाहे प्रादुश्चक्रे वेगमसह्यवेगः
यथाऽन्तकाले प्रदिधक्षुरीशो भूतान्तकृत्सर्वभूतक्षयाय
वेगं हि तस्याप्रतिमप्रभावं न शेकुरावायितुं त्वदीयाः
व्यात्ताननस्याददतो यथैव कालस्य काले विजिघृक्षतः प्रजाः
ततो बलं भारत भारतानां तद्वध्यमानं समरे महात्मना
भीतं दिशोऽकीर्यत भीमनुन्नं महानिलेनाभ्रगणा यथैव
तद्विप्रकीर्णं त्वथ भारतं बलं पुनश्च भीमं परिवारयद्गणे
भीमोऽब्रवीत्सारथिमत्र याहि हतेष्वेतेषु भवितास्म्यशोकः
त्वर त्वर ह्यद्य विशोक शीघ्रमेतान्ध्वजाग्रांश्च रथांश्च पश्य
सूतात्र जानीहि परान्स्वकान्वा रथान्ध्वजानापततस्समेतान्
संयुध्यतो नाभिजानामि किञ्चिन्महत्सैन्यं वारयिष्येऽप्रमत्तः
अरीन्विशोकाभिसमीक्ष्य सर्वतो महांश्च मन्युः पुनरेति मां भृशम्
राजाऽऽतुरो नागमद्वै किरीटी बहूनि दुःखान्यभिचिन्तयामि
एतद्दुःखं सारथे धर्मराजो यन्मां हित्वा गतवाञ्शत्रुमध्ये
नैनं जीवन्नाभिजानाम्यजीवन् बीभत्सुं वा तन्ममाद्यातिदुःखम्
सोऽहं बलं ह्येतदुदग्रयोधं विनाशयिष्ये परमप्रतीतः
एतान्निहत्याजिमध्ये समेतान्प्रीतो भविष्यामि सह त्वयाऽद्य
अवेक्षस्वेषुधी मे विशोक कियन्तो वा इषवो मेऽवशिष्टाः
का वा जातिः किं प्रमाणं च तेषां ज्ञात्वा व्यक्तं तन्ममाचक्ष्व सूत
कति वा सहस्राणि कति वा शतानि ह्याचक्ष्व मे सारथे क्षिप्रमेव
विशोकः
सर्वं विदित्वैवमहं वदामि तवार्थसिद्धिप्रदमद्य वीर
कैकेयकाम्भोजसुराष्ट्रबाह्लिका म्लेच्छाश्च सुह्माः परतङ्कणाश्च
मद्राश्च वङ्गा मगधाः कुणिन्दा आनर्तकावर्तकाः पार्वतीयाः
सर्वे गृहीतप्रवरायुधास्त्वां सङ्ख्ये समावेष्ट्य ततो विनेदुः
रथे तवास्मिन्निशितास्सुपीतास्ततो भल्ला द्वादश वै सहस्रशः
षण्मार्गणानां दश च क्षुराणां नाराचानां द्वे सहस्रे च पार्थ
वत्सदन्तानां दश कर्णिनाञ्च अर्धचन्द्राणां द्वादश षट्छतञ्च
विपाठानां प्रवराणां च सप्त शिलीमुखानां दश च त्रिंशतञ्च
अयोमुखानां क्षुद्रकाणां च त्रिंशदस्त्रायुतं पाण्डव तेऽवशिष्टम्
एतद्वहेच्छकटं षड्गवंयदेतद्विद्वन्मुञ्च सहस्रशोऽपि
शत्रूञ्जयस्वाशु सहस्व वीर गदाऽस्ति बाहुद्रविणं च तेऽस्ति
प्रासा खड्गाश्शक्तयस्तोमराश्च माभैर्भीम प्राक्षयश्चायुधानाम्
भीमः
अद्यैव नूनं कथयन्तु सिद्धां मम प्रतिज्ञां सर्वलोके विशोक
न मोक्ष्यते वा समरं भीमसेन एकश्शत्रून्समरे वाऽप्यजैषीत्
आशंसितानामिदमेकमस्तु तन्मे देवास्सकलं साधयन्तु
सूताद्य मद्बाहुमुक्तैस्समन्तात्सम्भिदद्भिः पार्थिवानाशुवेगैः
छन्नं बाणैराहतं घोररूपं नष्टादित्यं मृत्युलोकप्रकारम्
अद्यैतद्वै विदितं पार्थिवानां भविष्यति ह्याकुमारं विशोक
निमग्नो वा समरे भीमसेन एकः कुरून्वा समरे व्यजैषीत्
सर्वे सङ्ख्ये कुरवो निष्पतन्तु मां वा लोकाः कीर्तयन्त्वाकुमारम्
सर्वानेकस्तानहं पातयिष्ये ते वा सर्वे भीमसेनं पातयन्तु
आशास्तारः कर्म वाऽप्युत्तमं मे तन्मे देवास्सफलं साधयन्तु
आयातीह केशवसारथी रथी यथेन्द्रो यज्ञे सहसैवोपहूतः
पश्यस्व पश्यस्व विशोक मे त्वं बलं परेषामभिघातभिन्नम्
नानास्वरान्पश्य विमुच्य सर्वे तथा द्रवन्ते बलिनो धार्तराष्ट्राः
पश्य ध्वजांश्च द्रवतां विशोक नागान्हयान्पत्तिसङ्घांश्च सङ्ख्ये
रथान्विशीर्णाञ्शरशक्तिताडितान्व्यश्वान्कृतान्रथिनश्चापि सूत
आपूर्यते कौरवैश्चाप्यभीक्ष्णं सेना ह्यसौ सुभृशं हन्यमाना
धनञ्जयस्याशनितुल्यवेगैर्ग्रस्ता शरैर्मारुततुल्यवेगैः
एते द्रवन्ति स्म रथाश्वनागाः पदातिसङ्घानतिमर्दयन्तः
सम्मुह्यमानाः कौरवास्सर्व एव विष्णोर्भयार्ता इव दैत्यसङ्घाः
हाहाकृताश्चैव रणे विशोक मुञ्चन्ति नादान्विपुलान्गजेन्द्राः
विशोकः
न भीम रावं त्वमिहाशृणोषि विष्फूर्जितं गाण्डिवस्यातिघोरम्
क्रुद्धेन पार्थेन विकृष्यता ज्यां कच्चिन्नागौ तव कर्णे प्रविष्टौ
सर्वे कामाः पाण्डव ते समृद्धाः कपिर्ह्यसौ दृश्यते हस्त्यनीके
नीलाद्घनादुत्पतन्तीव विद्युत् पश्याग्रं वै धनुषो गाण्डिवस्य
कपिर्ह्यसौ वीक्षते सर्वतो वै ध्वजाग्रमारुह्य धनञ्जयस्य
दिवाकराभो मणिरेष दिव्यो विभ्राजते चैव किरीटसंस्थः
पार्श्वे भीमं पाण्डुवर्णप्रकाशं पश्यैनं वै देवदत्तं सुघोषम्
चक्रं यशोवर्धनमेतदद्य सदाऽऽर्चितं यदुभिः पश्य वीर
कृष्णस्यैतं पाञ्चजन्यं च शङ्खं विराजमानं द्विजराजवर्णम्
वार्ष्णेयकस्योरसि कौस्तुभं च जाज्वल्यमानं विजयं रथं च
ध्रुवं रथाग्र्यस्समुपैति पार्थो वित्रासयन्सैन्यमिदं परेषाम्
सिताभ्रवर्णैरनिलाभवेगैर्हयैर्महार्है रथिनां वरिष्ठः
रथान्हयान्पत्तिगणांश्च सायकैर्विदारितान्पश्य पतन्त्यमी रथाः
तवानुजेनामरतुल्यवर्चसा महावनानीव सुपर्णवायुना
चतुः शतान्पश्य रथानिमान्हतान्सवाजिसूतान्समरे किरीटिना
महेषुभिस्सप्तशतानि दन्तिनां पत्तींश्च सादींश्च हताननेकशः
अयं समायाति तवान्तिकं बली निघ्नन्कुरूंश्चित्र इव ग्रहोऽर्जुनः
समृद्धकामोऽसि हतास्तवाहिता बलं तवायुश्च चिराच्च वर्धताम्
विष्फार्यतो धनुषो गाण्डिवस्य धनञ्जयेनाभिपन्नस्य काले
शब्दो घोरश्श्रूयते तस्य नास्मिन् कश्चिच्छ्रोता हो बधिरोऽसि पार्थ
भीमः
ददानि ते ग्रामवरांश्चतुर्दश प्रियाख्यानात्सारथे सुप्रसन्नः
दासीशतं चाश्वतरीश्च विंशतिं यो मेऽर्जुनं वेदयसे विशोक