धृतराष्ट्रः
महाहवे पाण्डवसृञ्जयानां तथाऽवशिष्टस्य बलस्य मह्यम्
धनञ्जये तात रणं प्रयाते बभूव तद्युद्धमतीव कीदृशम्
सञ्जयः
तेषामनीकानि महाध्वजानि रणे समृद्धानि समागतानि
भेरीनिनादोन्मुखराण्यगर्जन्मेघा इव प्रावृषि मारुतास्ताः
गजाकुलञ्चाकुलमस्त्रवेगैर्वादित्रनेमीतलशब्दवच्च
हिरण्यवर्मायुधविद्युतं च शरासिनाराचवरास्त्रधारम्
तद्भीमवेगं रुधिरौघवाहि खड्गाकुलं क्षत्रियवीरपाति
अनार्तवं क्रूरमनिष्टवर्षं बभूव सङ्घर्षकरं प्रजानाम्
एकं रथं सम्परिवार्य मृत्युं नयन्त्यथोऽनेकरथास्समेताः
एकस्तथैनं रथिनं नराश्च तथा हयांश्चापि गजाननेकान्
रथान्ससूतान् सगणान् सहाश्वान् सर्वानरीन् मृत्युवशं शरौघैः
निनाय पार्थो बलगर्विताक्षो यथाऽन्तकस्सर्वहरो महौजाः
कृपश्शिखण्डी च रणे समेतौ दुर्योधनस्सात्यकिमभ्यगच्छत्
श्रुतश्रवा द्रौणिमियाय वीरो युधामन्युश्चित्रसेनेन सार्धम्
कर्णस्य पुत्रस्तु रथी सुषेणं समागतं सृञ्जयञ्चोत्तमौजाः
गान्धारराजं सहदेवोऽक्षधूर्तं महर्षभं सिंह इवाभ्यधावत्
शतानीको नाकुलिः कर्णपुत्रं युवा युवानं वृषसेनं शरौघैः
समर्दयत्कर्णपुत्रश्च धीरः पाञ्चालेयं शरवर्षैरनेकैः
रथर्षभः कृतवर्माणमार्च्छन्माद्रीपुत्रो नकुलश्चित्रयोधी
पाञ्चालानामधिपो याज्ञसेनिस्सेनापतिः कर्णमार्च्छत्ससेनम्
दुश्शासनो भारत भारतं तु व्यात्ताननं क्रूरमिवान्तकाभम्
भीमं रणे शस्त्रभृतां वरिष्ठं भीमं समासदत्भारत भीमसेनम्
कर्णात्मजं तत्र जघान शूरस्तनुच्छिदा सोत्तमौजाः प्रसह्य
तस्योत्तमाङ्गं निपपात भूमौ निनादयद्गां निनदेन खं च
सुषेणशीर्षं पतितं पृथिव्यां विलोक्य कर्णोऽथ तदाऽऽर्तरूपः
क्रोधाद्धयांस्तस्य रथं ध्वजं च बाणैस्सुधारैर्निशितैरकृन्तत्
स तूत्तमौजा निशितैः पृषत्कैर्दिव्येन खड्गेन च भास्वरेण
पार्ष्णिग्रहांश्चैव कृपस्य हत्वा शिखण्डिवाहांस्त्वरितोऽध्यरोहत्
पाञ्चालराजस्य सुतस्तरस्वी चक्रे शिखण्डी विरथं कृपं वै
कृपं तु दृष्ट्वा विरथं रथस्थो नैच्छच्छरैस्ताडयितुं शिखण्डी
तं द्रौणिरावार्य कृपं रथस्थस्समुज्जह्रे पङ्कगतां यथा गाम्
हिरण्यवर्मा विकिरञ्शरौघांस्तवात्मजानामनिलात्मजोऽथ
अधर्षयत्सैन्यमतीव भीमश्शुचौ स्थितो मध्यगतो यथाऽर्कः