सञ्जयः
स केशवस्य बीभत्सुश्श्रुत्वा भारत भाषितम्
विशोकश्च प्रहृष्टश्च क्षणेन समपद्यत
ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः
दध्रे कर्णविनाशाय केशवं चाभ्यभाषत
अर्जुनः
त्वया नाथेन गोविन्द ध्रुव एव जयो मम
प्रसन्नो यस्य भगवान्भूतभव्यभविष्यकृत्
त्वत्सहायो ह्यहं कृष्ण त्रीन्वै लोकान्समागतान्
प्रापयेयं परं लोकं किमु कर्णं महाहवे
पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन
पश्यामि कर्णं समरे विचरन्तमभीतवत्
भार्गवास्त्रं च पश्यामि प्रतपन्तं समन्ततः
सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम्
अयं स खलु सङ्ग्रामो यत्र कृष्ण मया कृतम्
कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति
अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे
गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः
अद्य राजा धृतराष्ट्रस्स्वां बुद्धिमवमंस्यते
दुर्योधनमराज्यार्हं यया राज्ये न्यवेशयत्
गुणवन्तं हि यो हित्वा निर्गुणं कुरुते प्रभुम्
स शोचति चिरं कृष्ण क्षिप्रमेवागते क्षये
यथा हि पुरुषः कश्चिच्छित्त्वा चाम्रवणं महत्
पलाशसेचने बुद्धिं कृत्वा शोचति मन्दधीः
दृष्ट्वा पुष्पं फले गृध्नुः फलं दृष्ट्वाऽनुशोचति
तथेदं धृतराष्ट्रस्य पुष्पलुब्धस्य मानद
फलं दृष्ट्वा भृशं दुःखं भविष्यति जनार्दन
सूतपुत्रे हते त्वद्य निराशो भविता प्रभुः
अद्य राज्याच्च पुत्राच्च श्रियश्चैव निराशवान्
सुखाच्च विपुलात्कृष्ण धृतराष्ट्रो वियोक्ष्यते
अद्य दुर्योधनो राज्याज्जीविताच्च निराशवान्
भविष्यति रणे कर्णे मृते सत्यं ब्रवीमि ते
अद्य दृष्ट्वा हतं कर्णं शरैर्विशकलीकृतम्
स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः
अद्यासौ सौबलः कृष्ण ग्लहाञ्जानातु वै शरान्
दुरोदरं च गाण्डीवं मण्डलं च रथं मम
असौ रणे नरानन्यान् पृथिव्यां चावमन्यते
तस्याद्य सूतपुत्रस्य मही पास्यति शोणितम्
आशीविषा इव क्रुद्धाः पिबन्तोऽस्य च शोणितम्
गाण्डीवमुक्ता दास्यन्ति कर्णस्य सुगतिं शराः
अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाऽब्रवीत्
सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति
एते षण्डतिलाः कृष्णे निर्वीर्या हृद्गतक्लमाः
पाण्डवेयेभ्यो भयं तीव्रं दास्यामीति यदब्रवीत्
हन्ताऽहं पाण्डवान्सर्वान्सपुत्रानिति माधव
अनृतं तत्करिष्यन्ति मामका निशिताश्शराः
हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि
अद्यागः पाण्डुपुत्राणां समाप्तिमुपयास्यति
यस्य वीर्यं समाश्रित्य धार्तराष्ट्रो बृहन्मनाः
तमद्य कर्णं हन्तास्मि समरे मधुसूदन
अद्य कर्णे हते कृष्ण धार्तराष्ट्रास्सराजकाः
विद्रवन्ति दिशो भीतास्सिंहं दृष्ट्वा मृगा इव
अद्य दुर्योधनो राजा पृथिवीं नान्ववेक्षते
हते कर्णे मया सङ्ख्ये सपुत्रे ससुहृज्जने
अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः
जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम्
ससूतपुत्रस्सामात्यस्ससुहृच्च निराशिषः
पित्र्ये राज्ये निराशश्च धार्तराष्ट्रो निराश्रयः
अद्य राजा धर्मपुत्रो हतामित्रो भविष्यति
अद्य दुर्योधनो दीप्तां श्रियं राज्यं च हास्यति
हते वैकर्तने कर्णे भीष्मे द्रोणे च संयुगे
कतरत्तद्बलं कृष्ण प्रविष्टं मोक्ष्यते तु यत्
अद्यप्रभृति राजानं धर्मशीलं युधिष्ठिरम्
अनुमोदन्तु सुहृदो ज्ञातपूर्वाश्च ब्राह्मणाः
अद्य तं निहतं श्रुत्वा कर्णं वैकर्तनं मया
करोतु पटहोन्मिश्रं देवतास्थानपूजनम्
अद्य कृष्ण हते कर्णे कुरुतां चिरसम्भृतम्
याजनं वै महाबाहो देवतानां यथाविधि
अद्य त्वम्बा च कृष्णा च त्वरमाणे परस्परम्
सस्वजेतां हृषीकेश सम्पूर्णेऽस्मिन्मनोरथे
अद्य त्वां पाण्डवो ज्येष्ठस्तथाऽऽर्यश्च वृकोदरः
उदीक्षेतां हते कर्णे कृष्ण सौम्येन चक्षुषा
अभिवाद्य गुरूनद्य कनिष्ठैश्चाभिवादितः
सस्वजानो ह्यहं दोर्भ्यां प्राप्स्यामि विपुलं यशः
अद्य कर्णे हते कृष्ण प्रशंसन्तोऽर्जुनं सुराः
त्रिदिवं यान्तु संहृष्टास्सङ्गताश्च तपोधनाः
अद्य लोकास्त्रयः कृष्ण मम जानन्तु पौरुषम्
दृष्ट्वा कर्णं हतं युद्धे द्वैरथे सव्यसाचिना
अद्याहमनृणः कृष्ण भविष्यामि धनुष्मताम्
रथस्य च शराणां च धनुषो गाण्डिवस्य च
मोक्ष्याम्यद्य महद्दुःखं त्रयोदशसमार्जितम्
हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव
अद्य कर्णे हते युद्धे सोमकानां महारथाः
कृतकार्या भविष्यन्ति मित्रकार्येप्सवो युधि
न जानेऽहं कथं प्रीतिश्शैनेयस्याद्य माधव
भविष्यति हते कर्णे मयि चापि जयाधिके
अहं हत्वा रणे कर्णं पुत्रांश्चास्य बलाधिकान्
प्रीतिं दास्यामि भीमस्य सात्यकेर्यमयोस्तथा
धृष्टद्युम्नस्य वीरस्य तथैव च शिखण्डिनः
अद्यानृण्यं गमिष्यामि हत्वा कर्णं महाहवे
धर्मराजस्य वार्ष्णेय संश्रुत्य च वधं मिथः
अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम्
युध्यन्तं कौरवैस्सार्धं घातयन्तं च सूतजम्
भवत्समक्षं वक्ष्यामि पुनरेवात्मसंस्तवम्
इत्यप्यमित्रप्रवरमद्याहं हन्मि सूतजम्
धनुर्वेदे मत्समः को नु लोके पराक्रमे वा मम कोऽस्ति तुल्यः
को वाऽप्यन्यो मत्समोऽस्ति क्षमायां ममानृशंस्ये सदृशोऽस्ति कोऽन्यः
अहं धनुष्मान्ससुरासुरांश्च सर्वाणि भूतानि च सङ्गतानि
स्वबाहुवीर्याद्गमये पराभवं मत्पौरुषं विद्धि परं परेभ्यः
शरार्चिषा गाण्डिवेनाहमेकस्सर्वान्कुरून्बाह्लिकांश्चाभिपन्नः
हिमात्यये कक्षगतो यथाऽग्निस्स्तथा दहेयं सगणान् प्रगृह्य
पाणी पृषत्कोल्लिखितौ ममैतौ धनुश्च सव्ये विततं सबाणम्
पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति
सञ्जयः
इत्येवमुक्त्वाऽच्युतमेकवीरः क्षिप्रं रिपोस्स क्षतजोपमाक्षः
भीमं रणान्मोचयितुं प्रयातः कर्णस्य कायाच्च शिरो जिहीर्षुः