श्रीभगवान्
निर्मनुष्याश्च मातङ्गा विरथाश्च महारथाः
प्राद्रवन्ति स्म समरे दिशो भीताऽभिमन्यवे
यच्च तद्धार्तराष्ट्राणां षड्भिश्शूरैर्महारथैः
पश्यतां समरे पुत्रं सौभद्रमपराजितम्
द्रोणद्रौणिकृपान्वीरान्कम्पयानं महेषुभिः
विधमन्तमनीकानि प्रमर्दन्तं महारथान्
मनुष्यवाजिमातङ्गान्प्रेषयन्तं यमक्षयम्
शरैस्सौभद्रमायान्तं दहन्तमरिवाहिनीम्
विगतासूंश्च तुरगान्पत्तीन्व्यायुधजीवितान्
कुर्वाणमृषभस्कन्धं कुरुवृष्णियशस्करम्
तन्मे दहति गात्राणि सखे सत्येन ते शपे
यत्तत्रासीत्सुदुष्टात्मा कर्णो विनिहतप्रभः
न शक्तो ह्यभिमन्योस्तु कर्णस्स्थातुं रणेऽग्रतः
सौभद्रशरनिर्भिन्नो विसञ्ज्ञश्शोणितोक्षितः
निश्वसन्क्रोधनदीप्ताक्षो विमुखस्सायकार्दितः
तस्थौ स विह्वलस्सङ्ख्ये प्रहारजनितच्छविः
अपयानकृतोत्साहो निरुत्साहश्च भारत
दुर्योधनं रणे दृष्ट्वा लज्जमानो मुहुर्मुहुः
नापयासीत्ततः पार्थ सोऽभिमन्योर्महारणे
दृष्ट्वा द्रोणं वधोपायमभिमन्योश्च पृष्टवान्
श्रुत्वा द्रोणवचः क्रूरं ततश्चिच्छेद कार्मुकम्
ततश्छिन्नायुधं तेन दृष्ट्वा पञ्च महारथाः
स चैव निकृतिप्रज्ञः प्राहिणोच्छरवृष्टिभिः
तस्मिन्विनिहते वीरे सर्वेषां दुःखमाविशत्
प्रहसन्स तु दुष्टात्मा कर्णो राजा च कौरवः
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः
प्रमुखे पाण्डवेयानां कुरूणां चैव पश्यताम्
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
पतिमन्यं पृथुश्रोणि वृणीष्व मृदुगामिनि
लेखाभ्रु धृतराष्ट्रस्य दासीभूता निवेशनम्
प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव
न पाण्डवाः प्रभवन्ति तव कृष्णे कथञ्चन
दासभार्याऽसि पाञ्चालि स्वयं दासी च शोभने
अद्य दुर्योधनो ह्येकः पृथिव्यां नृपतिस्स्मृतः
सर्वे चास्य महिपाला योगक्षेममुपासते
पश्येदानीं यदा भद्रे निविष्टाः पाण्डवास्समम्
अन्योन्यं समुदीक्षन्ते धार्तराष्ट्रस्य तेजसा
व्यक्तं षण्डतिला ह्येते नरके च निमज्जिताः
प्रेष्यवच्चापि राजानमुपस्थास्यन्ति कौरवम्
उक्तवान्स च पापात्मा तथा परमदुर्मतिः
पापः पापवचः कर्णश्शृन्वतस्ते धनञ्जय
अस्य पापस्य तद्वाक्यं सुवर्णविकृताश्शराः
शमयन्तु शिलाधौता नाशयन्तोऽस्य जीवितम्
अद्य कर्णं रणे ग्रस्तं पश्यन्तु कुरवस्त्वया
प्रतपन्तमिवादित्यं स्वर्गद्वारगतं यथा
अद्य ते समरे वीर्यं पश्यन्तु कुरुयोधिनः
सूतपुत्रे हते पार्थ जानन्तु त्वां महारथम्
अद्य कङ्का वला गृध्रा वायसा जम्बुकास्तथा
विप्रकर्षन्तु गात्राणि सूतपुत्रस्य भारत
अद्यातिरथिराक्षिप्तो निहतश्च त्वया रणे
कुरूणां शोकमाधत्तां पाण्वानां मुदं तथा
अद्य त्वां प्रतिनन्दन्तु पाञ्चालाः पाण्डवैस्सह
यथा वृत्रवधे वृत्ते देवास्सर्वे शतक्रतुम्
अद्य कर्णं रणे हत्वा प्राप्य चैवोत्तमं यशः
विशोको विज्वरः पार्थ भव बन्धुपुरस्कृतः
नरसिंहवपुः कृत्वा यथा शस्तो महासुरः
हिरण्यकशिपुर्दैत्यो विष्णुना प्रभविष्णुना
तथा त्वमपि राधेयं घोरं कृत्वा महद्वपुः
जहि युद्धे महाबाहो त्रायस्व च भयात्स्वकान्
तं च हाहाकृतं दीनं विषण्णं त्वच्छरार्दितम्
प्रपतन्तं रथात्तूर्णं पश्यन्तु वसुधाधिपाः
तं च स्वशोणिते मग्नं शयानं पतितं भुवि
अपविद्धायुधं कर्णमद्य पश्यन्तु पाण्डवाः
तच्चैवाद्य महद्वर्म गाण्डीवप्रेषितैश्शरैः
रथोपस्थे विशीर्येत ताराजालमिवाम्बरात्
आशु चाद्य शरास्तस्य सम्पतन्तो महाहवे
त्वच्छरैस्सन्निकृत्ताग्रा विशीर्यन्तां महीतले
त्वया चाद्य हते तस्य विक्रमे भरतर्षभ
विमुखास्सर्वराजानो भवन्तु गतजीविताः
तथा चातिरथौ याते प्रयान्तु कुरवो दिशः
मन्वानास्त्वां रथश्रेष्ठं सर्वलोकेषु धन्विनम्
स चैवाद्य भयात्त्यक्त्वा धार्तराष्ट्रो महाचमूम्
दुर्योधनो भयोद्विग्नो द्रवतु स्वपुरं प्रति
तथाऽद्य तं हतं श्रुत्वा धृतराष्ट्रो जनेश्वरः
मोहेन निपतेद्भूमौ विसञ्ज्ञो वै महीपतिः
अद्य जानन्तु ते पार्थ विक्रमं सर्वधन्विनः
यानवोचत्सभामध्ये परुषान् भारत त्वयि
यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि
तान्यद्य भरतश्रेष्ठ नाशयन्तु शरास्तव
शान्तं कुरु परिक्लेशं कृष्णायाश्शत्रुतापन
हत्वा शत्रुं रणे श्लाघ्यं गर्जन्तमतिपौरुषम्
अद्य चातिरथिर्वेद्धस्तव बाणैस्समन्ततः
मन्यतां त्वां नरव्याघ्र प्रवरं सर्वधन्विनान्
गाण्डीवप्रसृतान्बाणानद्य गात्रैस्स्पृशञ्शरान्
एतु कर्णो रणे पार्थ श्वाविच्छललतो यथा
एते द्रवन्ति पाञ्चाला वध्यमानाश्शितैश्शरैः
कर्णेन भरतश्रेष्ठ तान् समुद्धर पाण्डव
हतं कर्णसुतं दृष्ट्वा सूतपुत्रो दुरात्मवान्
स्मरतां द्रोणभीष्माभ्यां वचः क्षत्तुश्च पाण्डव
गाण्डीवप्रेषितैर्भल्लैश्शितैश्च्छिन्नतनुच्छदः
न चेत्स्मरसि राधेयो वचनं द्रोणभीष्मयोः
ते स्वर्णपुङ्खाश्शत्रुघ्ना नाराचा वैद्युतप्रभाः
न चेदातिरथेर्वर्म भित्त्वा पास्यन्ति शोणितम्
उग्रास्त्वद्बाहुनिर्मुक्ता न चेद्वर्मच्छिदश्शराः
अद्य कर्ण महावेगाः प्रहिण्वन्ति यमक्षयम्
हस्तिकक्ष्योऽद्य भल्लेन न चेदुन्मथितस्त्वया
प्रकम्पमानः पतति महानातिरथेर्ध्वजः
न चेच्छरशतैश्छिन्नं रथं हेमपरिष्कृतम्
हतयूथं परित्यज्य भीतश्शल्यः पलायते
न चेत्कर्णसुतं पार्थ सूतपुत्रस्य पश्यतः
प्रतिज्ञापालनार्थाय निहनिष्यसि सायकैः
न चेत्सुयोधनो दृष्ट्वा हतमातिरथिं त्वया
निराशो जीवितस्याद्य सानुबन्धो भविष्यति
असौ हि तावकान्पार्थ कर्णो निघ्नति संयुगे
शक्रतुल्यबलो वीर्याच्छङ्करप्रतिमोऽथवा
पाञ्चालान्द्रौपदेयांश्च धृष्टद्युम्नशिखणडिनौ
नकुलं सहदेवं च दौर्मुखिं जनमेजयम्
धृष्टद्युम्नतनूजांश्च शतानीकं च भारत
सुशर्माणं सात्यकिं च विद्धि कर्णवशङ्गतान्
अभ्याहतानां कर्णेन पाञ्चालानामसौ रणे
श्रूयते निनदो घोरस्त्वद्बन्धूनामनाथवत्
न चैव भीताः पाञ्चालाः कथञ्चित्स्युः पराङ्मुखाः
न हि मृत्युं महेष्वासा जानन्ति युधि दुर्जयाः
य एकः पाण्डवीं सेनां शरौघैस्समपीडयत्
तमप्यासाद्य समरे भीष्मं नासन् पराङ्मुखाः
ते कथं कर्णमासाद्य विद्रवेयुर्महाबलाः
यस्त्वेकस्सर्वपाञ्चालानहन्यहनि नाशयन्
कालवच्चरते वीरः पाञ्चालानां रथव्रजे
तमप्यासाद्य समरे मित्रार्थे मित्रवत्सल
तथा ज्वलन्तमस्त्रैश्च वरं सर्वधनुष्मताम्
निर्दहन्तञ्च समरे दुर्धर्षं द्रोणमञ्जसा
ते नित्यमुद्यता जेतुं युधि शत्रुमरिन्दमाः
न चेदातिरथेर्भीताः पाञ्चालास्स्युः पराङ्मुखाः
तेषामपि ततश्शूराः पाञ्चालानां तरस्विनाम्
प्राणानभ्याददे वीरः पतङ्गानामिवानलः
एते द्रवन्ति पाञ्चाला द्राव्यन्ते योधिभिर्ध्रुवम्
कर्णेन भरतश्रेष्ठ पश्य पश्य तथा कृतान्
तान् भारत महेष्वासानगाधे मज्जतोऽप्लवे
कर्णार्णवे प्लवो भूत्वा पाञ्चालांस्त्रातुमर्हसि
तान्समारोहतश्शूरान्मित्रार्थे त्यक्तजीवितान्
निस्तारय महाबाहो कर्णास्त्रात्पावकोपमात्
अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात्
यदवाप्तं तदा घोरं तस्य रूपमुदीर्यते
तापनं सर्वभूतानां घोरमस्त्रं भयानकम्
यमाश्रित्य महासेनां दहते स्वेन तेजसा
एते चरन्ति सङ्ग्रामे कर्णचापच्युताश्शराः
भ्रमरा इव शत्रूणां तापयाना जनान्प्रभो
एते भ्रमन्ति पाञ्चाला उत्भ्रमन्ति च मारिष
कर्णास्त्रं समरे प्राप्य दुर्निवार्यं महात्मभिः
एष भीमो दृढक्रोधी वृतः पार्थ समन्ततः
सृञ्जयैर्योधयन्कर्णं पीडयन्निशितैश्शरैः
पाञ्चालान्सृञ्जयांश्चैव पाण्डवांश्चैव भारत
उपेक्षितो दहेत्कर्णो रोगो देहमिवागतः
नान्यं त्वत्तो हि पश्यामि योधं यौधिष्ठिरे बले
यस्समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहान्
तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ
यथाप्रतिज्ञं पार्थ त्वं तीर्त्वा कीर्तिमवाप्नुहि
त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान्
नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते
एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम्
कृतार्थस्सफलः पार्थ सुखी भव नरोत्तम