सञ्जयः
ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत्
कृतसङ्कल्पमायान्तं वधे कर्णस्य भारत
श्रीभगवान्
अद्य सप्तदशाहानि वर्तमानस्य नित्यशः
विनाशस्यास्य घोरस्य नरवारणवाजिनाम्
भूत्वा च विपुला सेना तावकानां परैस्सह
अन्योन्यं समरे प्राप्य किञ्चिच्छेषा महाहवे
भूत्वा हि कौरवाः पार्थ प्रभूतगजवाजिनः
विनष्टास्त्वां समासाद्य विक्षिपन्तं महद्धनुः
एते वे पृथिवीपालास्सृञ्जयाश्च सहान्वयाः
त्वां समासाद्य वर्धन्ते पाण्डवाश्च व्यवस्थिताः
पाञ्चालैः पाण्डवैर्मात्स्यैः कारूशैश्चेदिकाशिभिः
मगधैः पार्वतीयैश्च दाक्षिणात्यैस्सकेरलैः
त्वया गुप्तैरमित्रघ्न कृतश्शत्रुगणक्षयः
को हि शक्तो रणे जेतुं कौरवान्पार्थ सङ्गतान्
अन्यत्र पाण्डवाद्युद्धे श्वेताश्वाद्वानरध्वजात्
त्वं हि शक्तो रणे जेतुं ससुरासुरमानुषम्
लोकत्रयं समद्युक्तं किं पुनः कौरवं बलम्
भगदत्तं हि राजानं कोऽन्यश्शक्तस्त्वया विना
जेतुं भरतशार्दूल योऽपि स्याद्वासवोपमः
तथेमां विपुलां सेनां गुप्तां पार्थ त्वयाऽनघ
न शेक्ताः पार्थिवास्सर्वे चक्षुर्भ्यामपि वीक्षितुम्
तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे
धृष्टद्युम्नशिखण्डिभ्यां द्रोणभीष्मौ निपातितौ
को हि शक्तो रणे पार्थ पाञ्चालानां महात्मनाम्
भीष्मद्रोणौ रणे जेतुं शक्रतुल्यपराक्रमौ
को हि शान्तनवं भीष्मं द्रोणं वैकर्तनं कृपम्
द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च
सैन्धवं मद्रराजं च राजानं च सुयोधनम्
वीरान्कृतास्त्रान्समरे सर्वानेवानिवर्तिनः
अक्षौहिणीपतीन्सर्वान्संरब्धान्युद्धदुर्मदान्
श्रेण्यश्च बहुला राजन्नुदीर्णाश्वरथद्विपाः
नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम्
गणाश्च दाशमीयानां वसातीनां च भारत
नानादेशसमुत्थाश्च नानादेशसमुद्भवाः
त्वां समासाद्य बीभत्सो हता नागाश्च संयुगे
प्राच्यानां मागधानां च भोजानामनिवर्तिनाम्
उदीर्णाश्वगजा सेना सर्वक्षत्रस्य भारत
त्वां समासाद्य विलयं गता साश्वरथद्विपा
उग्राश्च बहुलाः क्रूरास्तुषारा यवनाश्शकाः
दर्पाभिसारा दरदाः खषा परमतङ्कणाः
आन्ध्रजाश्च कुणिन्दाश्च किराताश्चोग्रविक्रमाः
म्लेच्छाश्च पार्वतीयाश्च सागरानूपवासिनः
संरम्भिणो युद्धशौण्डा बलिनोऽथास्त्रपाणयः
एते सुयोधनस्यार्थे संरब्धाः कुरुभिस्सह
न शक्या युधि निर्जेतुं त्वदन्येन परन्तप
धार्तराष्ट्रमुदग्रं हि दृष्ट्वा व्यूढं महद्बलम्
यस्य त्वं न भवेस्त्राता कः प्रतीपमभिव्रजेत्
तं सागरमिवोद्धूतं सैन्यसागरमक्षयम्
विदार्य पाण्डवैर्युद्धे त्वया गुप्तैर्हताः परे
मागधानामधिपतिर्जयत्सेनो महाबलः
अद्य सप्त दिने नष्टस्स च सङ्ख्येऽभिमन्युना
ततो दशसहस्राणि गजानां भीमकर्मणाम्
जघान गदया भीमस्तस्य राज्ञः परिच्छदम्
तथान्ये निहता नागा योधाश्च शतशो हताः
भीमेन सहसा पार्थ वर्तमाने महाहवे
भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः
सवाजिनरनागाश्च मृत्युलोकमितो गताः
ततस्सेनामुखे तस्मिन्निहते तत्र पाण्डवैः
भीष्मः प्रासृजदुग्राणि शरतालानि सङ्घशः
सचेदिकान्सपाञ्चालान्करूशान्मत्स्यकेकयान्
शरैः प्रच्छादयाञ्चक्रे प्रवरस्सर्वधन्विनाम्
तस्य चापाच्च्युतैर्बाणैः परदेहविदारणैः
पूर्णमाकाशमभवद्रुक्मपुङ्खैरजिह्मगैः
गत्या दशम्या ते गत्वा जघ्नुर्वाजिनरद्विपान्
हित्वा भवद्गतिं दुष्टां स बाणैर्वा यतोऽचरन्
दिनानि दश भीष्मेण हतं यौभिष्ठिरं बलम्
शून्याः कृता रथोपस्था हताश्च गजवाजिनः
दशमेऽहनि सम्प्राप्ते कृत्वा घोरं पराक्रमम्
दर्शयित्वाऽऽत्मनो वीर्यं रुद्रोपेन्द्रसमं भुवि
पाण्डवानामनीकानि प्रविगाह्य विशाम्पते
विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान्
अहनत्पाण्डवीं सेनां गजाश्वरथसङ्कुलाम्
मज्जन्तमप्लवे मन्दमुज्जिहीर्षुस्सुयोधनम्
तथा चरन्तं सङ्ग्रामे तपन्तमिव भास्करम्
पदातिकोटिसाहस्राः प्रवरायुधपाणयः
न शेकुस्सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः
विचरन्तं तथा तं तु सङ्ग्रामे जितसाध्वरम्
सर्वोद्योगेन सहसा पाण्डवास्समभिद्रवन्
स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि
एक एव रणे भीष्म एकवीरत्वमागतः
तं शिखण्डी समासाद्य त्वया गुप्तो महाव्रतम्
मृत्युर्जातोऽवधीद्भीष्मं शरौघैः पातयन्रथात्
स एष पतितश्शेते शरतल्पे पितामहः
त्वां प्राप्य पुरुषव्याघ्रं वृत्रः प्राप्येव वज्रिणम्
द्रोणः पञ्च दिनान्युग्रो विधम्य रिपुवाहिनीम्
कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान्
जयद्रथस्य समरे कृत्वा रक्षां महारथः
अन्तकप्रतिमश्चोग्रो रात्रियुद्धेऽदहत्प्रजाः
पञ्चमे दिवसे वीरो भारद्वाजः प्रतापवान्
धृष्टद्युम्नं समासाद्य गतस्स परमां गतिम्
यदि चैव भवान्युद्धे सूतपुत्रमुखान्रथान्
न वारयति सङ्ग्रामे कस्माद्द्रोणमसौ जयेत्
भवता तद्बलं सर्वं धार्तराष्ट्रस्य वारितम्
ततो द्रोणो हतो युद्धे पार्षतेन धनञ्जय
कश्च शक्तो रणे कर्तुं त्वदन्यः पुरुषर्षभ
यादृशं ते कृतं पार्थ जयद्रथवधं प्रति
विदार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान्
निहतस्सैन्धवो राजा त्वयाऽस्त्रबलतेजसा
आश्चर्यं सिन्धुराजस्य मन्यन्ते क्षत्रिया वधम्
अनाश्चर्यमहं मन्ये त्वं तु पार्थ महारथः
त्वां हि प्राप्य रणे क्षत्रमेकाह्ना पुरुषोत्तम
नश्यमानमिदं युद्धे मन्ये जानन्बलं तव
सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे
हतसर्वस्वभूयिष्ठा भीष्मद्रोणौ यदा हतौ
शीर्णप्रवरयोधाढ्या हतवाजिरथद्विपा
हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती
विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमैः
आसुरीव महासेना देवराजपराक्रमैः
तेषां हतावशिष्टास्तु सन्ति पञ्च महारथाः
द्रौणिश्च कृतवर्मा च कर्णो मद्राधिपः कृपः
तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान्
हतामित्रां प्रयच्छोर्वी राज्ञे सद्वीपपत्तनाम्
द्रोणपुत्रं कृपं शल्यं भोजमातिरथिं तथा
एतांस्तु वै नरव्याघ्र हत्वा वीरान् महारथान्
साकाशजलपातालां सपर्वतमहावनाम्
प्रयच्छामितवीर्याय पार्थायाद्य वसुन्धराम्
एतान्हत्वा महाबाहो पुरा विष्णुरिवासुरान्
प्रयच्छ मेदिनीं राज्ञे शक्रायेव पुरा हरिः
अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया
विष्णुना निहतेष्वेव दानवेषु दिवौकसः
यदि वा द्विपदां श्रेष्ठं द्रोणं मानयतो गुरुम्
अश्वत्थाम्नि कृपा तेऽस्ति कृपे च भरतर्षभ
अत्यन्तसम्मतान्बन्धून्मानयन्मातृबान्धवान्
कृतवर्माणमासाद्य प्रेषयैनं यमक्षयम्
भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम्
यदि त्वमरविन्दाक्ष न जिघांससि मानयन्
एतत्ते सुकृतं कर्म नात्र किञ्चन विद्यते
वयमप्यनुजानीमो नात्र दोषोऽस्ति कश्चन
इमं पापमतिं दुष्टमत्यन्तं पाण्डवान्प्रति
कर्णमद्य युधां श्रेष्ठ जहि पार्थ शितैश्शरैः
दहनं यत्सपुत्राया निशि मातुस्तवानघ
द्यूतं यच्चैव युष्माकं प्रावर्तत सुयोधनात्
तत्र सर्वत्र दुष्टात्मा कर्णः पापकृतां वरः
प्रोत्साहयद्दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः
समितौ नर्दते कर्णस्तमद्य जहि भारत
यश्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान्
तस्य सर्वस्य दुर्बुद्धिः कर्णो मूलमिहार्जुन
कर्णं हि मन्यते त्राणं नित्यमेव सुयोधनः
ततो मामपि संरब्धो निग्रहीतुं पराक्रमात्
स्थिता बुद्धिर्नरेन्द्राणां धार्तराष्ट्रस्य चाभि भो
कर्णः पार्थान्रणे सर्वान्नाशयिष्यति सायकैः
कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रस्य विग्रहः
रुचितो भवता सार्धं जानतोऽपि बलं तव
कर्णो जल्पति वै नित्यमहं पार्थान्समागतान्
वासुदेवं च दाशार्हं विजेष्यामि महारणे
समितौ वल्गते कर्णस्तमद्य जहि भारत