सञ्जयः
प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना
सम्पूज्य देवतास्सर्व ब्राह्मणान्स्वस्ति वाच्य च
कृतमङ्गलकल्याण आरुरोह रथोत्तमम्
तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः
आशिषः परमा युङ्क्त युक्तः कर्णवधं प्रति
प्रयान्तं तं महेष्वासं दृष्ट्वा भूतानि भारत
निहतं मेनिरे कर्णं पाण्डवेन महात्मना
बभूवुर्विमला राजन् दिशस्सर्वास्समन्ततः
चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर
प्रदक्षिणमकुर्वन्त पाण्डवं पाण्डुपूर्वज
बहवः पक्षिणो राजन्पुन्नामानश्शिवाश्शुभाः
त्वरयन्तोऽर्जुनं सङ्ख्ये सम्प्रहृष्टा ववाशिरे
कङ्का गृध्रा बलाश्चैव वायसाश्च विशाम्पते
अगच्छन्नग्रतस्तस्य भक्ष्यहेतोर्भयानकाः
धन्यानि च निमित्तानि पाण्डवस्य शशंसिरे
विनाशमरिसेनायाः कर्णस्य च वधं तथा
निमित्तानि च शुभ्राणि रुतं च मृगपक्षिणाम्
प्रयातस्य हि पार्थस्य महान्स्वेदोऽभ्यजायत
चिन्ता च विपुला तीव्रा कथमेतद्भविष्यति
विषण्णं तु ततो ज्ञात्वा सव्यसाचिनमच्युतः
सञ्चोदयति तेजस्वी मधुहा वानरध्वजम्
ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः
दृष्ट्वा पार्थं तथायान्तं चिन्तापरिगतं तदा
श्रीभगवान्
गाण्डीवधन्वन्सङ्ग्रामे ये त्वया धनुषा जिताः
न तेषां मानुषो जेता त्वदन्य इह विद्यते
एते हि बहवश्शूराश्शक्रतुल्यपराक्रमाः
त्वां प्राप्य समरे पार्थ प्रयाताः परमां गतिम्
को हि द्रोणं तथा भीष्मं भगदत्तं जयद्रथम्
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम्
श्रुतायुं चाश्रुतायुं च शतायुं च महारथम्
प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वद्विधः प्रभुः
अस्त्राणि तव दिव्यानि लाघवं बलमेव च
वेधः पातश्च लक्षस्य लघुता च तवार्जुन
असम्मोहस्तथा युद्धे धनुषोऽस्य च सन्नतिः
भवान्देवान्सगन्धर्वान्हन्यात्सर्वांश्च राक्षसान्
पृथिव्यां हि रणे पार्थ त्वत्समो नास्ति विक्रमे
धनुर्गृह्णन्ति ये केचित्क्षत्रिया भुवि भारत
आत्मनस्तु समं तेषां न पश्यामि शृणोमि वा
ब्रह्मणा हि प्रजास्सृष्टा गाण्डीवं च धनुर्वरम्
तेन त्वं युध्यसे सेनां तस्मान्नास्ति समस्त्वया
न च प्रमुखतो वाच्यो भवानेतद्वचो मया
मानितस्य महादर्पो भविष्यति रणेऽर्जुन
अवश्यमेतद्वाच्यं मे तेन त्वां प्रब्रवीम्यहम्
अतिमानाच्च ते नात्मा मन्तव्यो वै कथञ्चन
जीवमाने रणे कर्णे सूतपुत्रे महारथे
त्वत्समं त्वद्विशिष्टं वा कर्णं मन्ये परन्तप
अवश्यं यत्नमास्थाय त्वया वध्यो महाहवे
तेजसा ह्यग्निसदृशो वायुवेगसमो जवे
अन्तकप्रतिमः कोपे वज्रसंहननो बले
अष्टारत्निर्महाबाहुर्व्यूढोरस्कस्सुदुर्जयः
अभिमानी च शूरश्च प्रवीरः प्रियदर्शनः
सर्वैर्योधगुणैर्युक्तो मित्राणामभयङ्करः
सततं पाण्डवद्वेष्टा धार्तराष्ट्रहिते रतः
सर्वैरवध्यो राधेयो देवैरपि सवासवैः
ऋते त्वयेति मे बुद्धिस्तमद्य जहि भारत
कर्णो हि बलवान् धृष्टः कृतास्त्रश्च महाबलः
कृती च चित्रयोधी च देशकालस्य कोविदः
न हि कर्णं समासाद्य शक्तो हि स्यात्पुरन्दरः
क्षेमी प्रत्यागमेत् पार्थ तादृशोऽस्य पराक्रमः
त्वान्तु प्राप्य महारङ्गे यत्नवानपि भारत
निवर्तेत रणात्कर्ण इति मे धीयते मतिः
देवैरपि हि संरब्धैर्स्सर्वलोकेश्वरैरपि
अशक्यं तं रणे मन्ये जेतुं प्रतियुयुत्सुभिः
दुरात्मानं पापवृत्तं नृशंसं दुष्टात्मानं पाण्डवेयेषु नित्यम्
सुयोधनार्थं पाण्डवेयैर्विरुद्धं हत्वा कर्णं निश्चितार्थो भवाद्य
अधिकं मन्यतेऽत्मानं येन पापस्सुयोधनः
तमद्य मूलं पापानां जहि कर्णमरिन्दम