सञ्जयः
इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम्
बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम्
ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम्
श्रीभगवान्
कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम्
असिना तीक्ष्णधारेण हन्या धर्मे व्यस्थितम्
त्वमित्युक्त्वा तु राजानमेवं कश्मलमाविशः
हत्वा तु नृपतिं पार्थ करिष्यसि किमुत्तरम्
एवं हि दुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः
स भवान्धर्मभीरुत्वाद्ध्रुवं यायान्महत्तमः
नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात्
स त्वं धर्मभृतां श्रेष्ठं राजानं संश्रितव्रतम्
प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम
प्रसाद्य भक्त्या राजानं प्रीते चैव युधिष्ठिरे
प्रयावस्त्वरया योद्धुं सूतपुत्रवधं प्रति
हत्वाऽद्य समरे कर्णं त्वं पार्थ निशितैश्शरैः
विपुलां प्रीतिमाधत्स्व धर्मपुत्राय मानद
एतदत्र महाबाहो प्राप्तकालं मतं मम
एवं कृते कृतं चैव तव कार्यं भविष्यति
सञ्जयः
ततोऽर्जुनो महाराज लज्जया वै समन्वितः
धर्मराजस्य चरणौ प्रपीड्य शिरसाऽनघः
उवाच भरतश्रेष्ठं प्रसीदेति पुनः पुनः
अर्जुनः
क्षमस्व राजन्यत्प्रोक्तस्त्वं मया धर्मभीरुणा
सञ्जयः
पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः
धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभः
उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम्
समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः
रुदित्वा सुचिरं कालं भ्रातरौ तौ महाद्युती
कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ बभूवतुः
समाश्लिष्य च बाहुभ्यां मूर्ध्न्युपाघ्राय पाण्डवम्
प्रीत्या परमया युक्तः प्रस्मयंश्चाब्रवीद्वचः
युधिष्ठिरः
कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः
हतस्सूतो धनुश्चैव रथश्शक्तिश्शरा ध्वजः
शरैः कृत्ता महेष्वास यतमानस्य संयुगे
सोऽहं दृष्ट्वा रणे तस्य कर्म कर्णस्य फल्गुन
व्यवसीदामि दुःखेन न तु मे जीवितं प्रियम्
त्वमद्य यदि वै वीरं न हनिष्यसि संयुगे
प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम
सञ्जयः
एवमुक्तः प्रत्युवाच विजयो भरतर्षभ
अर्जुनः
सत्येन ते शपे राजंस्त्वत्पादेन तथैव च
भीमेन च नरव्याघ्र यमाभ्यां च महीपते
अहमेनं नरश्रेष्ठ सामात्यं च महीपते
यथाऽद्य समरे कर्णं हनिष्यामि हतोऽपि वा
महीतले पतिष्यामि सत्येनैव च ते शपे
सञ्जयः
एवमाभाष्य राजानमब्रवीन्माधवं वचः
अर्जुनः
सञ्जयः
अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः
त्वमनुध्याहि भद्रं ते वधं तस्य दुरात्मनः
एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम
श्रीभगवान्
शक्तोऽसि भरतश्रेष्ठ यत्नं कर्तुं यदात्थ माम्
सञ्जयः
एष चापि हि मे कामो नित्यमेव महाबल
कथं भवान्रणे कर्णं निहन्यादिति फल्गुन
एवमुक्तस्ततो राजन्पार्थो वचनमब्रवीत्
अर्जुनः
हन्यते द्वैरथे भूयो युज्यन्तां वै हयोत्तमाः
उपावृत्ताश्च तुरगाश्शिक्षिताश्चैव सादिभिः
आयुधानि च सर्वाणि सज्जय त्वं महारथे
रथोपकरणैस्सर्वैस्सत्वरं यातु मे रथः
सञ्जयः
एवमुक्तो महाराज फल्गुनेन महात्मना
उवाच दारुकं कृष्णः कुरु सर्वं यदब्रवीत्
अर्जुनो भारतश्रेष्ठश्श्रेष्ठस्सर्वधनुष्मताम्
आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम
योजयामास च रथं वैयाघ्रं शत्रुतापनम्
युक्तं तु रथमास्थाय दारुकेण महात्मना
उपस्थितं रथं दृष्ट्वा पद्मनाभो रणान्तकृत्
भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम्
श्रीभगवान्
युधिष्ठिरेह बीभत्सुं त्वं सान्त्वयितुमर्हसि
अनुज्ञातुं च कर्णस्य वधायाशु दुरात्मनः
श्रुत्वा ह्यावां महासङ्ख्ये त्वां कर्णशरपीडितम्
प्रवृत्तिं ज्ञातुमायाताविह पाण्डवनन्दन
दिष्ट्याऽसि राजन्विरुजो दिष्ट्या न ग्रहणं गतः
परिसान्त्वय बीभत्सुं जयमाशास्व चानघ
युधिष्ठिरः
एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव
वक्तव्यमुक्तोऽस्म्यहितं त्वया क्षान्तं च तन्मया
अहं त्वामनुजानामि जहि कर्णं धनञ्जय
मन्युञ्च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम्
सञ्जयः
ततो धनञ्जयो राजञ्शिरसा प्रणतः पुनः
पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष
तमुत्थाप्य ततो राजा परिष्वज्य च पीडितम्
मूर्ध्न्युपाघ्राय चैवैनमिदं पुनरुवाच ह
युधिष्ठिरः
धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया
माहात्म्यं विजयं चापि भूयः प्राप्नुहि शाश्वतम्
अर्जुनः
अद्य तं पापकर्माणं सानुबन्धं रणे शरैः
नयाम्यन्तं समासाद्य राधेयं बलगर्वितम्
येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम्
तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम्
अद्य त्वामुपयास्यामि कर्णं हत्वा महीपते
सभाजये त्वामाक्रन्दादिति सत्यं ब्रवीमि ते
नाहत्वा विनिवर्तिष्ये कर्णमद्य रणाजिरात्
इति सत्येन ते पादौ स्पृशामि जगतीपते
सञ्जयः
इति ब्रुवाणं सुमनाः किरीटिनं युधिष्ठिरः प्राह वचो बृहत्तदा
यशोऽक्षयं जीवितमीप्सितं जयं सदाबलं वीर्यमरिक्षयं सुखम्
प्रयाहि वृद्धिं च दिशन्तु देवता यथाऽहमिच्छामि तथाऽस्तु तच्च ते
प्रयाहि कर्णं जहि शीघ्रमाहवे पुरन्दरो वृत्रमिवात्मवृद्धये