सञ्जयः
एतच्छ्रुत्वा पाण्डवो धर्मराजो भ्रातुर्वाक्यं परुषं चार्जुनस्य
उत्थाय तस्माच्छयनादुवाच पार्थं ततो दुःखपरीतचेताः
युधिष्ठिरः
कृतं मया पार्थ न साधु कर्म येन प्राप्तं व्यसनं वस्सुघोरम्
तस्माच्छिरश्छिन्धि ममैतदद्य कुलान्तकस्याधमपूरुषस्य
पापस्य पापव्यसनान्वितस्य विमूढबुद्धेरलसस्य भीरोः
वृद्धावमन्तुः परुषत्य चैव किं ते चिरं मामनुसृत्य रूक्षम्
गच्छाम्यहं वनमद्यैव पापस्सुखं भवान्वर्ततां मद्विहीनः
योग्यो राजा भीमसेनो महात्मा क्लीबस्य वा किं मम राज्यकृत्यम्
न चास्मि शक्तः परुषाणि सोढुं पुनस्तवेमानि रुषाऽन्वितस्य
भीमोऽस्तु राजा मम जीवितेन न कार्यमस्तत्र महानुभाव
सञ्जयः
इत्येवमुक्त्वा सहसोत्पपात रुषाऽन्वितस्तच्छयनं विहाय
इयेष निर्गन्तुमितो वनाय तं वासुदेवः प्रणतोऽभ्युवाच
श्रीभगवान्
राजन्नविदितं तत्ते यथा गाण्डीवधन्वनः
प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता
ब्रूयाद्य एनं गाण्डीवं देह्यन्यस्मै त्वमित्युत
स वध्यस्स्यात्पुमाल्ँलोके त्वया ह्युक्तोऽयमीदृशम्
ततस्सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता
मच्छन्दादवमानोऽयं कृतस्तव महीपते
गुरूणामवमानो हि वध इत्यभिधीयते
तस्मात्क्षम महासत्त्व मम पार्थस्य चोभयोः
व्यतिक्रममिमं राजन्सत्यसंरक्षणं प्रति
शरणं त्वां महाराज प्रतिपन्नौ स्व उभावपि
क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः
राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम्
सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम्
यस्येच्छसि वधं तस्य गतमेवाद्य जिवीतम्
सञ्जयः
इति कृष्णवचश्श्रुत्वा धर्मराजो युधिष्ठिरः
ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा
कृताञ्जलिमुवाचेदं वाक्यं यत्समनन्तरम्
युधिष्ठिरः
एवमेतद्यथाऽऽत्थ त्वमस्त्वेषोऽतिक्रमो मम
अनुनीतोऽस्मि गोविन्द तारितश्चास्मि माधव
मोक्षिता आपदो घोराद्वयमद्य त्वयाऽच्युत
भवन्तं नावमासाद्य ह्यावां व्यसनसागरात्
घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ
त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम्
समुत्तीर्णास्सहामात्यास्सनाथास्स्म त्वयाऽच्युत