सञ्जयः
इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृद्वचस्तत्
ततोऽब्रवीदर्जुनो धर्मराजमनुक्तपूर्वं परुषं प्रसह्य
अर्जुनः
मा त्वं राजन्व्याहरस्वाद्य वाक्यं त्वं तिष्ठसे क्रोशमात्रादपेत्य
भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वलोकप्रवीरैः
काले हि शत्रूनतिपीड्य वीरो हत्वा प्रवीरान्वसुधाधिपानाम्
रथप्रधानोत्तमनागमुख्यान् सादिप्रवीरानहतांश्च शूरान्
सुदुष्करं कर्म करोति भीमः कर्तुं यथा नार्हति कश्चिदन्यः
रथादवस्कन्द्य गदां परामृशंस्ततो रणे चापि निहन्ति वारणान्
स कुञ्जराणामधिकं सहस्रं हत्वाऽनदत्तुमुलं सिंहनादम्
काम्भोजवानायुजपार्वतीयानीहामृगाभान्विनिहत्य वाजिनः
महाबलान्द्विरदाञ्भीमवेगान्सहेत कः कुञ्जरान्युध्यमानः
असौ भीमो धार्तराष्ट्रेषु मग्नस्स मामुपालब्धुमरिन्दमोऽर्हति
वरासिना चाथ नराश्वकुञ्जरांस्तथा रथाङ्गैर्धनुषा च हन्त्यरीन्
प्रमृद्य पद्भ्यामहितान्निहन्ति पुनश्च दोर्भ्यां शतमन्युविक्रमः
महाबलो वैश्रवणान्तकोपमः प्रसह्य हर्ता द्विषतां शिरांसि
सन्त्रासयानस्समरे शत्रुसङ्घान्काम्भोजवानायुजपार्वतीयान्
स भीमसेनोऽर्हति गर्हणाय न त्वं नित्यं रक्ष्यमाणस्सुहृद्भिः
कलिङ्गवङ्गाङ्गनिषादमागधान्सदा महाशैलवलाहकोपमान्
निहन्ति यश्शत्रुगणाननेकशस्स मां हि वक्तुं प्रभवत्यमानगसम्
सुयुक्तमास्थाय रथं हि काले धनुर्विधून्वञ्छरपूर्णमुष्टिभिः
सृजेच्च यो बाणसङ्घान्परेषु महाबलो मेघ इवाम्बुधाराः
शतान्यष्टौ वारणानामशातयद्विशातितैः कुम्भकटाग्रहस्तैः
यो भीमसेनो निहतारिसङ्घस्स मामुपालब्धुमरिन्दमोऽर्हति
रथाश्च नागाश्च हयाश्च राजन्भीमेनाजौ निहतास्सङ्घशोऽद्य
राजानश्च बहवो महाबलास्स मामुपालब्धुमरिन्दमोऽर्हति
धृतराष्ट्रपुत्रा बलिना च येन महाबला निहताः प्रायशो वै
शूरो युद्धेष्वप्रतिवार्यवीर्यस्स मामुपालब्धुमरिन्दमोऽर्हति
प्रतापयंस्तद्बलमुग्ररूपं योऽसौ रणे धार्तराष्ट्रस्य वीरः
एकस्सहेताप्रतिसृष्टपौरुषस्तेनास्मि वाच्यो न त्वया वै कदाचित्
महारथा यत्र यत्रैव युद्धे भिन्दन्ति सैन्यं तव कामतोऽद्य
स तत्र तत्रैव रणे महात्मा दृढं भीमः परसङ्घानमृद्नात्
तेनास्मि वाच्यो न त्वयाऽहं कदाचिन्मा मा वोचः क्रूरमिहाद्य पार्थ
नास्मद्विधो वै भवता तु वाच्यो यथा भवान्सर्वलोकस्य वाच्यः
एवं हि मां ते ब्रुवतो नरेन्द्र कथं न शीर्येच्छतधाऽद्य जिह्वा
अहो बतेदं सुनृशंसरूपं कामादवोचस्त्वमिहाद्य यद्वै
बलं तु वाचि द्विजसत्तमानां यत्क्षत्रियाणां बाहुबलं वदन्ति
त्वं चाबलो भारत निष्ठुरोऽसि त्वमेव मां वेत्सि यथाविधोऽहम्
नकुलेन राजन्गजवाजियोधा हताश्च शूरास्सहसा समेत्य
त्यक्त्वा प्राणान्समरे युद्धकाङ्क्षी स मामुपालब्धुमरिन्दमोऽर्हति
कृतं कर्म सहदेवेन दुष्करं यो युध्यते परसैन्यावमर्दी
न चाब्रवीत्किञ्चिदिहागतो बली पश्यान्तरं तस्य चैवात्मनश्च
धृष्टद्युम्नस्सात्यकिर्द्रौपदेया युधामन्युश्चोत्तमौजाश्शिखण्डी
एते च सर्वे युधि सम्प्रपीडितास्ते मामुलपालब्धुमर्हन्ति न त्वम्
त्वन्मूलमस्माभिरिदं हि वैरं प्राप्तं तथा व्यसनं चातिघोरम्
द्यूतप्रमत्तेन कृतं त्वयाऽसकृत्कस्मादुपालब्धुमिहार्हसि त्वम्
त्वमेव राजन्सततं प्रमत्तस्त्वमेव मूढो भारतानामसाधुः
त्वां प्राप्य राज्यं च विनष्टमेतत्प्राप्ता महत्पाण्डवाश्चापि दास्यम्
त्वत्तः कृतोऽस्मकद्वनवासदुःखं राज्यस्य नाशो ह्यभिमन्योश्च घोरः
आत्मानमेवं सुनृशंसरूपं ज्ञात्वा किमर्थं गर्हसे माऽद्य वीरम्
लज्जस्व राजन्यदि तेऽस्ति लज्जा तूष्णीम्भूतः पश्य सर्वं कृतं नः
भीमो नित्यं समरस्य कर्ता दर्पस्य भेत्ता पुनरेव नित्यम्
स्वयं ह्यशक्तेन नरेन्द्र युद्धे नरेण कार्या सततं क्षमैव
बलं हि वाचि द्विजसत्तमानां क्षत्रं द्विजा बाहुबलं वदन्ति
त्वं वाग्बलो भारत निष्ठुरोऽसि त्वमेव मां वेत्सि यथाविधोऽहम्
घटामि नित्यं तव कर्तुमिष्टं दारैस्सुतैर्जीवितेनात्मना च
एवञ्च मां वाक्छलाकैर्भिनत्सि त्वत्तस्सुखं न वयं विद्म किञ्चित्
मामवंस्था द्रौपदीतल्पसंस्थो महारथान्प्रतिहन्मि त्वदर्थे
सर्वातिशङ्की भारत निष्ठुरोऽसि त्वत्तस्सुखं नाभिजानामि किञ्चित्
प्रोक्तस्त्वयं सत्यसन्धेन मृत्युस्तव प्रियार्थं नरदेव युद्धे
शिखण्डिनाम्ना प्रधने तवार्थे मयाऽभिगुप्तेन हतश्च भीष्मः
द्रोणो हतो यस्सततोपकारी धृष्टद्युम्नेन स्यन्दनाद्विप्रकृष्य
द्रौणिश्च रुद्धस्सगणो महात्मा तथाऽपि ते वै वचनं नृशंसवत्
दुःखं प्रियं ते नरदेव कर्तुं यस्य प्रियं ते न करोम्यहं वै
न मुच्यते वै दिवि चेह यः पुमान्यस्ते मदन्योऽप्रियमारभेत
न चाभिनन्दामि तवाधिराज्यं यतस्त्वमक्षेषु दृढं प्रसक्तः
स्वयं कृत्वा पापमनार्यजुष्टमस्माभिराजौ व्यसनं तितीर्षसि
अक्षेषु दोषा बहवो विधर्माश्श्रुतास्त्वया सहदेवोऽब्रवीद्यान्
तान्नैच्छसि त्यक्तुमनार्यजुष्टांस्तेन स्म सर्वे निरये त्वयाऽस्ताः
त्वं देविता त्वत्कृते राज्यनाशस्त्वत्सम्भवं व्यसनं नो नरेन्द्र
मास्मान्क्रूरैर्वाक्प्रतोदैस्तुदंस्त्वं भूयो राजन्कोपयस्यल्पबुद्ध्या
सञ्जयः
एता वाचः परुषास्सव्यसाची स्थिरप्रतिज्ञश्श्रावयित्वा नरेन्द्रम्
बभूवासौ विमना धर्मभीरुः कृत्वा प्राज्ञः पातकं किञ्चिदेवम्
विनिश्श्वसञ्ज्येष्ठमनिष्टमुक्त्वा ततस्तु कोशादसिमुद्बबर्ह
तमाह कृष्णः किमिदं पुनर्भवान्विकोशमाकाशनिभं करोत्यसिम्
प्रब्रूहि सत्यं पुनरुत्तरं सखे वचः प्रवक्ष्यामि तवार्थसिद्धये
इतीव पृष्टः पुरुषोत्तमेन सुदुःखितः केशवमाह पार्थः
अर्जुनः
सञ्जयः
अहं हनिष्ये स्वशरीरमेतत्प्रसह्य येनाहितमुक्तवान्गुरुम्
निशम्य तत्पार्थवचोऽब्रवीदिदं जनार्दनो धर्मभृतां वरिष्ठः
श्रीभगवान्
प्रब्रूहि पार्थ स्वगुणानिहात्मनस्ततो हतात्मा भवसीति निश्चयः
सञ्जयः
तथा तु कृष्णस्य वचो निशम्य ततोऽर्जुनः प्राह धनुः प्रगृह्य
युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजन्निति दुर्वचस्स्वयम्
अर्जुनः
न मादृशोऽन्यो नरदेव विद्यते धनुर्धरो देवमृते पिनाकिनम्
अहं हि तेनानुमतो महौजसा क्षणेन हन्यां सचराचरं जगत्
मया हि राजन्सदिगीश्वरा दिशो विजित्य सर्वा भवतः कृता वशे
स राजसूयश्च समाप्तदक्षिणस्सभा च दिव्या भवतो ममौजसा
पाणी पृषत्कालिखिताविमौ पुनर्धनुश्च सव्ये विततं सबाणम्
पादौ च मे लक्षणतः प्रशस्तौ न मादृशं युद्धगतं जयन्ति
हता उदीच्या निहताः प्रतीच्याः प्राच्या हता दाक्षिणात्या निरस्ताः
संशप्तकानां किञ्चिदेवावशिष्टं सर्वस्य लोकस्य हतं मयाऽर्धम्
शेते मया निहता शत्रुसेना छिन्नैर्गात्रैर्भूमितले स्खलन्ती
येऽनस्त्रज्ञास्तान्न निहन्मि चास्त्रैस्तस्मान्न भस्मैव करोमि लोकान्
सञ्जयः
अर्जुनः
इत्येवमुक्त्वा पुनरेव पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम्
राजा प्रसीद राजन्क्षम यन्मयोक्तं काले भवान्वेत्स्यति तन्नमस्ते
सञ्जयः
ततस्तु पादावुपगृह्य पार्थस्समुत्थितो दीप्ततेजाः किरीटी
प्रसाद्य राजानममित्रसाहं स्थितोऽब्रवीच्चैनमभिप्रतप्तम्
अर्जुनः
याम्येष भीमं समराद्विमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम्
भवत्प्रियार्थं मम जीवितं हि ब्रवीमि सत्यं तदवैहि राजन्
नेदं चिरात्क्षिप्रमिदं भविष्यदावर्ततेऽसावभियामि चैनम्
अद्याप्यपुत्रा तेन हतेन राधा कुन्ती मया वा तदिदं विद्धि राजन्