सञ्जयः
युधिष्ठिरेणैवमुक्तः कौन्तेयश्श्वेतवाहनः
असिं जग्राह सङ्क्रुद्धो जिघांसुर्भरतर्षभम्
तस्य कोपं समाज्ञाय चित्तज्ञः केशवस्तदा
उवाच किमिदं खड्गं गृह्णास्यर्जुन शंस मे
नेह पश्यामि योद्धव्यं त्वया किञ्चिद्धनञ्जय
नेहागता धार्तराष्ट्रास्सर्वे भीमेन वारिताः
उपागतोऽसि कौन्तेय राजा द्रष्टव्य इत्यसौ
स राजा भवता दृष्टः कुशली च युधिष्ठिरः
तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम्
हर्षकाले तु सम्प्राप्ते कस्मात्त्वां मन्युराविशत्
न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह
कस्माद्भवान्महाखड्गं परिगृह्णात्यकारणात्
तस्मात् पृच्छामि कौन्तेय किमिदं भरतर्षभ
परामृशसि यत्क्रुद्धः खड्गमद्भुतदर्शनम्
एवमुक्तः कटाक्षेण प्रेक्षमाणो युधिष्ठिरम्
अर्जुनः प्राह गोविन्दं क्रुद्धस्सर्प इव श्वसन्
अर्जुनः
अन्यस्मै देहि गाण्डीवमिति मां यः प्रचोदयेत्
भिन्द्यामहं शिरस्तस्य इत्युपांशु व्रतं मम
युधिष्ठिरेण तेनाहमुक्तश्चास्मि जनार्दन
यदुक्तोऽहमदीनार्थे राज्ञाऽनेन यशस्विना
समक्षं तव गोविन्द तन्न क्षन्तुमिहोत्सहे
तस्मादेनं वधिष्यामि राजानं धर्मचारिणाम्
प्रतिज्ञां पालयिष्यामि हत्वैनं नरसत्तमम्
एतदर्थं मया खड्गो गृहीतो यदुनन्दन
सोऽहं युधिष्ठिरं हत्वा सत्यस्यानृण्यतां गतः
विशोको विज्वरश्चैव भविष्यामि जनार्दन
किं च त्वं मन्यसे प्राप्तमस्मिन्कार्ये समुत्थिते
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम्
सञ्जयः
जातस्त्वत्तो हि धर्मश्चाधर्मश्चेति परा श्रुतिः
तत्तथाऽद्य करिष्यामि यथा मां वक्ष्यते भवान्
धिग्धिगित्येव गोविन्दः पार्थमुक्त्वाब्रवीत्पुनः
श्रीभगवान्
इदानीं पार्थ जानामि न वृद्धास्सेवितास्त्वया
अकाले पुरुषव्याघ्र संरम्भक्रिययाऽनया
न हि धर्मविभागज्ञैरेवं कार्यं धनञ्जय
योऽकार्याणां क्रियायाश्च संयोगं नावबुध्यते
कार्याणामक्रियायाश्च स पार्थ पुरुषाधमः
अनुसृत्य तु ये धर्मं कवयस्समुपस्थिताः
समासविस्तरविदां न तेषां वेत्सि निश्चयम्
अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये
एवं स मुह्यत्यवशो यथा त्वं पार्थ मुह्यसि
न हि कार्यमकार्यं वा सुखं ज्ञातुं कथञ्चन
श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे
अविज्ञानादिह भवान्सत्यं रक्षति धर्मवित्
प्राणिनां हि वधात्पार्थ धार्मिको नावबुध्यसे
प्राणिनां हि वधात्तात मृतो धर्मो मतो मम
अनृतं तु भवेद्वाच्यं न तु हिंसा कदाचन
स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम्
हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव
अयुध्यमानस्य गुरोस्तथाऽशस्त्रस्य भारत
पराङ्मुखस्य द्रवतश्शरणं वाऽपि गच्छतः
कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः
त्वया चैतद्व्रतं पार्थ बालेनैव कृतं पुरा
तस्मादधर्मसंयुक्तं मौर्ख्यादेवं व्यवस्यसि
स्वगुरुं पार्थ कस्मात्त्वं हन्तुकामोऽभिधावसि
असम्प्रधार्य धर्माणां गतिं सूक्ष्मां दुरत्ययाम्
इदं धर्मरहस्यं तु तव वक्ष्यामि भारत
यद्ब्रूयात्तव भीष्मो वा राजा वाऽपि युधिष्ठिरः
विदुरो वा पुनः क्षत्ता गान्धारी वा यशस्विनी
कुन्ती वा भरतश्रेष्ठ द्रौपदी वा यशस्विनी
तत्ते वक्ष्यामि कौन्तेय तन्निबोध धनञ्जय
सत्यस्य वचनं साधु न सत्याद्विद्यते परम्
सुदुर्विदं हि तत्त्वेन तत्सत्यमिति मे मतिः
भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत्
तत्रानृतं भवेत्सत्यं सत्यं यत्रानृतं भवेत्
प्राणात्यये विवाहे वा वक्तव्यमनृतं भवेत्
तच्चानृतं भवेत्सत्यं सत्यं यत्रानृतं भवेत्
सर्वस्वहरणे वाऽपि वक्तव्यमनृतं भवेत्
तत्रानृतं भवेत्सत्यं सत्यमत्रानृतं भवेत्
त्वादृशो हन्यते बालो यस्य सत्यमनिश्चितम्
सत्यानृते विनिश्चित्य ततो भवति धर्मवित्
किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्डवधादिव
अनाश्चर्यं पुनर्मोहाद्धर्मकामो ह्यपण्डितः
सुमहत्प्राप्नुयात्पापमापगास्विव कौशिकः
अर्जुनः
आचक्ष्व भगवन्नेतद्यथा विद्याम्यहं तथा
बलाकाण्डाभिसम्बन्धं नदीनां कौशिकस्य च
श्रीभगवान्
मृगव्याधोऽभवत्कश्चिद्बलाको नाम नामतः
यात्रार्थं पुत्रदाराणां मृगान्हन्ति न कामतः
सोऽन्धौ च मातापितरौ बभारान्यांश्च संश्रितान्
स्वधर्मनिरतो नित्यं संविभज्यानसूयकः
स कदाचिन्मृगान्लिप्सुर्नान्वविन्दच्च यत्नवान्
अथापश्यत्सुपीवानं श्वापदं घ्राणचक्षुषम्
अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा
अन्वगेव पुनर्व्योम्नः पुष्पवर्षं पपात ह
अप्सरोगीतवादित्रैर्नादितं च मनोरमम्
विमानमागतं स्वर्गान्मृगव्याधनिनीषया
तद्भूतं सर्वभूतानामभावाय किलार्जुन
तपस्तप्त्वा वरं प्राप्य कृतमन्यत् स्वयम्भुवा
तद्धत्वा सर्वभूतानामभावे कृतनिश्चयम्
बलाकोऽगात्स्वर्गलोकं तस्माद्धर्मस्सुदुर्विदः
कौशिकाश्चाभवद्विप्रस्तपस्वी सुबहुश्रुतः
नदीनां सङ्गमे ग्रामाददूरे स किलावसत्
सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम्
सत्यवादीति विख्यातस्तपस्वी च धनञ्जय
ततो दस्युभयात्केचित्कदाचित्तत्र संश्रिताः
ततस्ते दस्यवः क्रूरास्तान्स्म मार्गन्ति यत्नतः
अथ कौशिकमभ्येत्य प्रोचुस्ते सत्यवादिनम्
दस्यवः
कतरेण पथा याता भगवन्निह वै जनाः
सत्येन पृष्टः प्रब्रूहि यदि तद्वेत्सि शंस नः
श्रीभगवान्
कौशिकः
सत्यस्य त्वविभागज्ञस्सत्यं तेभ्यश्शशंस सः
बहुवृक्षलतागुल्ममेतद्गहनमाश्रिताः
श्रीभगवान्
ततस्ते तान्समासाद्य समाजघ्नुरिति श्रुतिः
तेनाधर्मेण महतां वाग्दुरुक्तेन कौशिकः
गतस्सुकष्टं निरयं धर्मसूक्ष्मेष्वतत्त्ववित्
दृढपूर्वश्रुतो मूर्खो धर्माणामविशारदः
वृद्धानपृच्छन्सन्देहानन्धश्श्वभ्रमिवर्च्छति
तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति
दुष्करं प्रतिसङ्ख्यानं कार्त्स्न्येनात्र व्यवस्यति
सत्यं धर्म इति ह्येके वदन्ति बहवो जनाः
न च पार्थाभ्यसूयामि नैतत्सर्वत्र शिष्यते
श्रुतिस्तु धर्म इत्येके वदन्ति बहवो जनाः
न त्वेतत्प्रत्यसूयामि नात्र सर्वं विधीयते
यस्स्यादहिंसासंयुक्तस्स धर्म इति निश्चयः
अहिंसार्थञ्च भूतानां धर्मप्रवचनं कृतम्
प्रभवार्थञ्च भूतानां धर्मप्रवचनं कृतम्
यस्स्यात्प्रभवसंयुक्तस्स धर्म इति निश्चयः
धारणाद्धर्ममित्याहुर्धर्मो धारयते प्रजाः
यस्स्याद्धारणसंयुक्तस्स धर्म इति निश्चयः
येऽन्यायेन जिगीषन्तो धर्मं पृच्छन्ति मानवाः
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन
अवश्यं कूजितव्ये हि शङ्केरन्वाऽप्यकूजनात्
येऽन्यायेन जिहीर्षन्तो धनं पृच्छन्ति कस्यचित्
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विनिश्चितम्
प्राणात्यये विवाहे वा सर्वजात्या महाभये
सर्वस्वस्य च लोपे वा वक्तव्यमनृतं भवेत्
अधर्मं हि न पश्यन्ति मृषोद्यं तत्र पण्डिताः
सर्वदाऽपि वदेत्तत्तु नानृतं स्याद्विचक्षण
यस्स्तेनैस्सह सम्बन्धो मुच्येत शपथादपि
भवेत्तत्रानृतं श्रेयस्सत्यादिति विचारितम्
न च तेभ्यो धनं देयं सत्यादिति कथञ्चन
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्
तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत्
एष ते लक्षणोद्देशस्समुद्दिष्टो यथाविधि
एवं ज्ञात्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः
अर्जुनः
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महायशाः
सुहृद्ब्रूयाद्यथाऽस्माकं तथोक्तं वचनं त्वया
भवान्पितृसमो मह्यं भवान्मातृसमोऽपि च
गतिश्च परमा त्वं हि त्वमेव च परायणम्
न हि ते त्रिषु लोकेषु अज्ञातं विद्यते क्वचित्
तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम्
अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम्
अस्मिन्समयसंयोगे ब्रूहि किञ्चिदनुग्रहम्
इदं चापरमत्रैव ब्रूहि तत्त्वं विवक्षितम्
जानासि दाशार्ह मम व्रतं त्वं यो मां ब्रूयात्कश्चन मानुषेषु
अन्यस्मै त्वं गाण्डिवं देहि पार्थ यो मत्तोऽस्त्रे वीर्यतो वा विशिष्टः
हन्यामहं केशव तं प्रसह्य भीमो हन्यात्तूबरकेति चोक्तः
तन्मां राजा ह्युक्तवांस्ते समक्षं धनुर्देहीत्यसकृद्वृष्णिसिंह
न तं हन्यां चेत्केशव जीवलोके स्थाता नाहं कालमप्यल्पमात्रम्
सा च प्रतिज्ञा मम लोकेषु नित्या यथा सत्या धर्मभृतां वरिष्ठ
यथा जीवेत्पाण्डवेयो हि कृष्ण तथा बुद्धिं दातुमर्हार्हसि त्वम्
श्रीभगवान्
राजा श्रान्तस्ताडितो विक्षतश्च कर्णेन सङ्ख्ये निशितैर्बाणसङ्घैः
तस्मात्पार्थ त्वां परुषाण्यवोचत् कर्णे द्यूतं ह्यद्य रणे निबद्धम्
तस्मिन्हते कुरवो निर्जितास्स्युरेवं बुद्धिः पार्थिवो धर्मबुद्धिः
ततो वधं नार्हति धर्मपुत्रस्त्वया प्रतिज्ञाऽर्जुन पालनीया
जीवन्नयं येन मृतो भवेद्धि तन्मे निबोधेह तवानुरूपम्
यदा मानं लभते माननार्हस्तदा स वै जीवति जीवलोके
यदाऽवमानं लभते महान्तं तदा जातो मृत इत्युच्यते सः
सम्मानितः पार्थिवोऽयं सदैव तथैव भीमेन तथा यमाभ्याम्
वृद्धैश्च लोके पुरुषैश्च सद्भिस्तस्यावमानं कलया प्रयुङ्क्ष्व
शृणु पार्थ यया वृत्त्या हतस्स्याद्भवता गुरुः
हतो भवत्येवमुक्तो गुरुश्शस्त्रभृतां वरः
त्वमित्यत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम्
यदिदं धर्मशास्त्रार्थं वेदेषु च निदर्शनम्
त्वमित्येवं हि वचनं ब्रूहि पार्थ युधिष्ठिरम्
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत
एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे
अधर्मयुक्तं संयोगं कुरुष्वैनं कुरूद्वह
अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः
अविचार्या च कार्या च श्रेयस्कामैर्नरैस्सदा
अवधेन वधः प्रोक्तो यद्ग्रहस्यमिति प्रभो
हतो भव त्वमित्युक्तो हतो भवति भारत
एकमाचक्ष्व कौन्तेय धर्मराजं युधिष्ठिरम्
यदा ह्ययं पाण्डव धर्मराजस्त्वत्तोऽयुक्तं लप्स्यते चैव साधु
ततोऽस्य पादावभिवाद्य पश्चाच्छ्रमं ब्रूयास्सान्त्वपूर्वञ्च पार्थ
भ्राता प्राज्ञस्तव कोपं न जातु कुर्याद्राजा धर्ममार्गानुसारी
मुक्तोऽनृताद्भ्रातृवधाच्च पापाद्धृष्टः कर्णं त्वं जहि पार्थ पश्चात्