सञ्जयः
युधिष्ठिरः
वैकर्तनं कुशलिनं निशम्य क्रुद्धः पार्थः फल्गुनस्यामितौजाः
धनञ्जयं वाक्यमुवाच राजा युधिष्ठिरः कर्णशराभितप्तः
इमां च वसतिं प्राप्तो भवान् कर्णेन बाधितः
अहं त्वं भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ
वासुदेवेन सहिता वयं कर्णेन निर्जिताः
पुनरेव वनं गत्वा तपश्चर्यां च कुर्महे
अथवा धार्तराष्ट्राणां परिचर्यां चरामहे
सञ्जयः
इत्येवमुक्त्वा बीभत्सुं रोषात्संरक्तलोचनः
अब्रवीत्पुनरेवात्र धर्मराजो युधिष्ठिरः
युधिष्ठिरः
एवं यदि द्वैतवने तु सूक्तं कर्णेन योद्धुं न सहे नृपेति
वयं ततः प्राप्तकालं यथावत्कृत्वाऽभ्युपेक्षाम तथैव राज्यम्
मयि प्रतिश्रुत्य वधं हि तस्य बलस्य चार्धस्य तथैव युद्धे
आनीय मां शत्रुमध्ये स कस्मात्समुन्नाम्य स्थण्डिले प्रत्यपिङ्क्षः
अन्वास्य सत्येन यदात्थ पार्थ सत्यं शपन्वासुदेवेन सार्धम्
तन्नस्सत्यं विफलं ह्यकार्षीः फलस्य काले वाच्छिन्नः पुष्पवृक्षः
प्रच्छादितस्त्वं बालिश दुर्यशोभिरनर्थवाक्योऽस्यर्जुन नैव साधुः
त्यक्त्वा भीमं सर्वभीमेषु भीमं त्वं योजितस्सूतपुत्रं निहन्तुम्
यत्तत्पृथां वागुवाचान्तरिक्षे सप्ताह्नि जाते त्वयि मन्दबुद्धौ
अपापीयान्वासवात्कुन्ति जातो बहून्सङ्ग्रामानयमेको विजेता
अयं जेता पाण्डवो देवसङ्घान्सर्वाणि भूतान्यपि चोत्तमौजाः
अयं जेता मद्रकलिङ्गजातान्दैत्यांश्च रक्षांसि समागतानि
भूमिं च सर्वां निखिलेन जेता कुरूंश्च सर्वान् स्वगणांश्च जेता
अस्मात्परो नो भविता धनुर्धरो नैष्यन्न भूतः कश्चिदेनं विजेता
इच्छन्नयं सर्वभूतानि हन्यात्कुर्याद्वशे सर्वसमाप्तविद्यः
कान्त्या शशाङ्कस्य जवेन वायोस्स्थैर्येण मेरोः क्षमया पृथिव्याः
अग्नेश्च तापाद्धनदस्य लक्ष्म्या शौर्येण शक्रस्य जयेन विष्णोः
तुल्यो महात्मा तव कुन्ति पुत्रो जातोऽदितेर्विष्णुरिवामितौजाः
स्वेषां जयाय द्विषतां वधाय ख्यातो महात्मा तव नन्दकर्ता
इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि तपस्विनां शृण्वतां वागुवाच
एवंविधस्त्वं न च भूतस्तथाऽद्य देवाश्च नूनमनृतं वदन्ति
तथा परेषामृषिसत्तमानां श्रुत्वा गिरः पूजयतां सदा त्वाम्
न सन्नतिं यामि सुयोधनस्य न त्वां जानाम्यातिरथेर्भयार्तम्
त्वष्ट्रा कृतं वाहमकूजनाक्षं शुभं समास्थाय कपिध्वजं तम्
खड्गं गृहीत्वा हेमचित्रावनद्धं धनुर्वरं गाण्डिवं तालमात्रम्
वासुदेवेनोह्यमानः कथं नु कर्णाद्भीतो व्यपयातोऽसि पार्थ
पूर्वं यदुक्तं हि सुयोधनेन न फल्गुनः प्रमुखे स्थास्यतीति
कर्णस्य युद्धे हि महाबलस्य मौर्ख्यात्तु तन्नावबुद्धं मयाऽऽसीत्
तेनाद्य तप्ये भृशमप्रमेयो यन्मित्रवर्गो नरकं प्रविष्टः
तदैव वाच्योऽस्मि ननु त्वयाऽहं न योत्स्येऽहं सूतपुत्रं कथञ्चित्
ततो नाहं केकयान् सृञ्जयांश्च समानयेयं सुहृदो रणाय
एवं गते किं च मयाऽद्य शक्यं कार्यं कर्तुं निग्रहे सूतजस्य
तथैव राज्ञश्च सुयोधनस्य ये चापि मां योद्धुकामास्समेताः
धिगस्तु मे जीवितमद्य कृष्ण योऽहं वशं सूतपुत्रस्य यातः
मध्ये कुरूणां ससुयोधनानां ये चाप्यन्ये योद्धुकामास्समेताः
एकस्तु मे भीमसेनोऽद्यं नाथो येनाभिपन्नोऽस्मि रणे महाभये
विमोच्य मां चापि रुषान्वितस्ततश्शरेण तीक्ष्णेन बिभेद कर्णम्
त्यक्त्वा प्राणान्समरे भीमसेनश्चक्रे युद्धं कुरुभिस्समेतैः
गदाग्रहस्तो रुधिरोक्षिताङ्गश्चरन्रणे काल इवान्तकाले
असौ हि भीमस्य महान्निनादो मुहुर्महुश्श्रूयते धार्तराष्ट्रैः
यदि स्म जीवेत्समरे निहन्ता महारथानां प्रवरो नरोत्तमः
तवाभिमन्युस्तनयोऽद्य पार्थ न चास्मि गन्ता समरे पराभवम्
अथापि जीवेत्समरे घटोत्कचस्तथाऽपि नाहं समरे पराङ्मुखः
भीमस्य पुत्रस्समराग्रयायी महास्त्रविच्चापि तवानुरूपः
यत्नं समासाद्य रिपोर्बलं नो निमीलिताक्षं भयविप्लुतं भवेत्
चकार योऽसौ निशि युद्धमेकस्त्यक्त्वा रणं यस्य भयाद्द्रवन्ते
स चेत्समासाद्य महानुभावः कर्णं रणे बाणगणैः प्रमोह्य
धैर्ये स्थितेनापि च सूतजेन शक्या हतो वासवदत्तया तया
ममैव भोग्यानि पुरा कृतानि पापानि नूनं फलवन्ति युद्धे
तृणं च कृत्वा समरे भवन्तं ततोऽहमेवं निकृतो दुरात्मना
वैकर्तनेनेह तथा कृतोऽहं यथा ह्यशक्तः क्रियते ह्यबान्धवः
आपद्गतं यश्च नरं विमोक्षयेत्स बान्धवस्स्नेहयुतस्सुहृच्च
एवं पुराणा ऋषयो वदन्ति धर्मस्सदा सद्भिरनुष्ठितश्च
खड्गं बिभ्रज्जातरूपत्सरुं च धनुश्चेदं गाण्डिवं तालमात्रम्
स केशवेनोह्यमानः कथं नु कर्णात्पार्थ त्वमपैतुं समैषीः
स गाण्डीवं केशवाय प्रदाय यन्ता भवेस्त्वं यदि केशवस्य
ततस्तरेत्केशवः कर्णमुग्रं मरुत्सखो वृत्रमिवात्तवज्रः
मासेऽपतिष्यो यदि पञ्चमे त्वं न वा गर्भो यद्यभवः पृथायाः
मत्तश्श्रेयान्राजपुत्रोऽभविष्यन्न ते यशः फल्गुन इत्यपेयात्