सञ्जय
ततो युधिष्ठिरो दृष्ट्वा सहितौ केशवार्जुनौ
हतमातिरथिं मेने युद्धे गाण्डीवधन्वना
तावभ्यनन्दत्कौन्तेयस्साम्ना परमवल्गुना
स्मितपूर्वममित्रघ्नं पूजयन्भरतर्षभ
उवाच राजा कौन्तेयमुपेन्द्रमिव वासवः
युधिष्ठिरः
स्वागतं देवकीपुत्र स्वागतं ते धनञ्जय
प्रियं मे दर्शनं बाढं युवयोर्नरसिंहयोः
अरिष्टयोरक्षतयोः कर्णं हत्वा महारथम्
आशीविषसमं युद्धे सर्वशस्त्रविशारदम्
अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च
रक्षितं वृषसेनेन सुषेणेन च संयुगे
रामेण जामदग्न्येन त्वनुज्ञातं यशस्विना
त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे
हन्तारमरिसैन्यानाममित्रगणमर्दनम्
अनलानिलयोस्तुल्यं तेजसा च बलेन च
पातालमिव गम्भीरं सुहृदानन्दवर्धनम्
दुर्योधनहिते युक्तमस्मद्दुःखाय चोद्यतम्
अप्रधृष्यं महारङ्गे देवैरपि सवासवैः
अन्तकाभममित्राणां कर्णं हत्वा महाहवे
दिष्ट्या युवामिह प्राप्तौ हत्वा वृत्रमिवामरौ
तेन युद्धमभीतेन मयाऽद्याप्यच्युतार्जुनौ
कृतं घोरं महाबाहू धृष्टद्युम्नस्य पश्यतः
अन्तकेनेव क्रुद्धेन प्रजास्सर्वा जिघांसता
तेन केतुश्च मे च्छिन्नो हतौ च पार्ष्णिसारथी
हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः
वीरयोर्यमयोश्चैव धृष्टद्युम्नशिखण्डिनोः
पश्यतां द्रौपदेयानां शतद्रोश्च महात्मनः
एताञ्जित्वा महाबाहुः कर्णश्शत्रुगणान्बहून्
जितवान्मां महाबाहो यतमानं महारणे
अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु
तत्र तत्र युधां श्रेष्ठः परिभूय धनञ्जय
बहुनाऽत्र किमुक्तेन नाहं तं सोढुमुत्सहे
त्रयोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय
न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित्
तस्य द्वेषेण संयुक्तः परिदह्ये धनञ्जय
आत्मनो मरणं जानन्वार्ध्राणस इव द्विजैः
यस्यसोऽयङ्गतःकालश्चिन्तयानस्य भारत
कथं कर्णो मया शक्यो युद्धे क्षपयितुं भवेत्
जाग्रत्स्वपंश्च कौन्तेय कर्णमेव स्मराम्यहम्
पश्यामि तत्रतत्रैव कर्णभूतमिदं जगत्
यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय
तत्र तत्र हि पश्यामि कर्णमेवाग्रतस्स्थितम्
सोऽहं तेनैव वीरेण संयुगेष्वपलायिना
सरथस्सहयः पार्थ सर्वतश्शकलीकृतः
को हि मे जीवितेनार्थो राज्येनार्थेन वा पुनः
ममैवं निकृतस्येह कर्णेनाहवशोभिना
तत्र तत्र हि पश्यामि कर्णमेवाग्रतस्स्थितम्
सोऽहं तेनैव वीरेण संयुगेष्वपलायिना
सरथस्सहयः पार्थ जित्वा जीवन् विसर्जितः
भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय
न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे
तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात्
स त्वां पृच्छामि बीभत्सो यथा नः कुशलं तथा
तन्ममाचक्ष्व कौन्तेय यथा कर्णस्त्वया हतः
शक्रतुल्यबलो युद्धे यमतुल्यपराक्रमः
रामतुल्यस्तथाऽस्त्रेषु स कथं ते निषूदितः
महारथसमाख्यातस्सर्वयुद्धविशारदः
धनुर्धरेषु प्रवरस्सर्वेष्वेव सदाऽर्जुन
पूजितो धृतराष्ट्रेण सपुत्रेण महारथः
त्वदर्थमेव राधेयस्स कथं निहतो युधि
धार्तराष्ट्रस्य योद्धारस्सर्व एव सदाऽर्जुन
तव मृत्युं रणे कर्णं मन्यन्ते पुरुषोत्तम
स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः
तन्ममाचक्ष्व कौन्तेय यथा कर्णो हतस्त्वया
सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम्
त्वया पुरुषशार्दूल शार्दूलनेव रुरोर्यथा
सर्वा दिशः पर्यपतत्त्वदर्थं त्वां सूतपुत्रस्समरे परीप्सन्
दित्सन्नृणां शकटं रत्नपूर्णं कथं त्वयाऽसौ निहतोऽद्य कर्णः
त्वया रणे निहतसूतपुत्रः कच्चिच्छेते भूमितले दुरात्मा
कच्चित्कृतं मे परमं त्वयाऽद्य प्रियं रणे सूतपुत्रं निहत्य
सर्वा दिशः पर्यचरत्त्वदर्थं मुदान्वितो गर्वितस्सूतपुत्रः
स शूरमानी समरे समेत्य कच्चित्त्वया निहतः पापबुद्धिः
रौक्मं परं हस्तिगवाश्वयुक्तं रथं दित्सन्यः परेभ्यस्त्वदर्थे
त्वया रणे स्पर्धते यस्स पापःकच्चित्त्वया निहतः पापबुद्धिः
योऽसौ नित्यं शौर्यमदेन मत्तो विकत्थते संसदि कौरवाणाम्
सम्प्रीत्यर्थं तात सुयोधनस्य कच्चित्स कर्णो निहतस्त्वयाऽद्य
कच्चित्समागम्य धनुःप्रमुक्तैस्त्वत्प्रेषितैर्लोहमयैर्विहङ्गैः
शेते भिन्नः पांसुषु सूतपुत्रः कच्चिद्भग्नौ धार्तराष्ट्रस्य बाहू
यश्श्लाघते राजमध्ये सदा हि दुर्योधनं हर्षयन्दर्पपूर्णः
हन्तास्मि सर्वानिति पाण्डुपुत्रानहं हन्ता फल्गुनस्येति मोहात्
कच्चिद्वचोऽस्य वितथं कृतं त्वया यत्तत्प्रियामवदत्तात कर्णः
सभामध्ये रूक्षमनेकरूपं धिक्पाण्डवानपतिस्त्वं हि कृष्णे
कच्चिद्ध्रुवं शत्रुमथावधीस्त्वमधारयद्द्वादश यस्समास्तु
कर्णो व्रतं घोरममित्रसाहो दुर्योधनस्यार्थनिविष्टबुद्धिः
पादौ न धावे यावदहं न हन्मि धनञ्जयं समरेषूग्रवेगम्
इत्युक्तवान् यस्समरे निहत्य कच्चिद्व्रतं तस्य भग्नं त्वयाऽद्य
योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः कर्णस्सभायां कुरुमध्ये दुरात्मा
किं पाण्डवांस्त्वं न जहासि कृष्णे सुदुर्बलान्पतितान्हीनसत्त्वान्
यत्तत् कर्णः प्रत्यजानात्त्वदर्थे नाहं हत्वा सह कृष्णेन पार्थम्
इहोपयातेति स पापबुद्धिः कच्चिच्छेते शरसञ्धिन्नगात्रः
कच्चित्सङ्ग्रामो विदितो वा त्वयाऽयं महाहवे पाण्डसृञ्जयानाम्
येनावस्थामीदृशीं प्रापितोऽहं कच्चित्त्वया सोऽद्य हतस्समेत्य
कच्चित्त्वया तस्य सुमन्दबुद्धेर्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः
सकुण्डलं भानुमदुत्तमाङ्गं कायात्प्रविद्धं वद सव्यसाचिन्
यत्त्वं मया बाणसमर्पितेन ध्यातोऽसि कर्णस्य वधाय वीर
तन्मे त्वया कच्चिदमोघमद्य ध्यानं कृतं कर्णनिपातनेन
यद्दर्पपूर्णस्तु सुयोधनोऽस्मान्दिधक्षते कर्णसमाश्रयेण
कच्चित्त्वया सोऽस्य समाश्रयोऽद्य भग्नः पराक्रम्य सुयोधनस्य
यो नः पराशंसति लोभदोषात्सभामध्ये कौरवाणां समक्षम्
स दुर्मतिः कच्चिदुपेत्य सङ्ख्ये त्वया हतस्सूतपुत्रोऽत्यमर्षी
यः प्राहिणोत्सूतपुत्रो दुरात्मा कृष्णां जितां सौबलेहानयेति
स मन्दबुद्धिर्निहतः प्रसह्य वैकर्तनस्त्वद्य कच्चिन्महात्मन्
अनवाप्यं प्राप्तुमिच्छन्नचिन्त्यं शिशुर्यथा बालचन्द्रमसङ्ग्रहीतुम्
स पापात्मा स तु नो विद्विषाणः कच्चित् कर्णो निहतो वा त्वयाऽऽसीत्
अस्मिन् सङ्ग्रामे भीमरूपे त्वयाऽद्य व्रतं भग्नं सूतपुत्रस्य पार्थ
कच्चित्पापं वचनं द्यूतकाले यच्चाप्यसौ समितौ वासुदेवम्
तथोक्तवान् परुषं सोऽतिकामं हितं चरन् यस्सततं कुरूणाम्
कच्चित्स कर्णो निहतोऽद्य सङ्ख्ये यो धार्तराष्ट्रं परिपालयन्रणे
एकस्सदा शोषयन् मामकं बलं सपाञ्चालान् केकयांश्चैव सर्वान्
श्रियं दित्सन् धार्तराष्ट्रस्य कर्णः कच्चिद्वेगं प्रत्यवधीस्त्वद्य
अप्येतस्य श्वसृगालाश्च गृध्रा हतस्य मांसान्युद्धरन्ति स कायात्
यश्शत्रुजिच्छ्रेष्ठतमः पृथिव्यां पितामहं चाक्षिपदल्पचेतः
सङ्ख्यायमानोऽर्धरथस्स कच्चित्त्वया हतोऽद्यातिरथिर्दुरात्मा
यत्तत्त्वया संश्रुतं मे किरीटिन् सभामध्ये द्वैरथेनेह भूयः
अहं कर्णं सूदयिष्ये सपुत्रं तत्कर्म कृत्वा ह्यनृणोऽसि कच्चित्
अमर्षाग्निं निकृतिसमीरणेरितं हृदा धृतं शूलमिदं सदा मम
हतो मया सोऽद्य समेत्य मन्दधीरिति ब्रुवन्प्रशमय मेऽद्य फल्गुन