सञ्जयः
ततो जनार्दनश्श्रुत्वा तस्य वाक्यं विशाम्पते
रथेनापययौ क्षिप्रं सङ्ग्रामादिति भारत
प्रत्यनीकमवस्थाप्य भीमं भीमपराक्रमम्
अलं विषहितुं ह्येष कुरूणां सम्प्रपद्यताम्
कर्णं च समरे राजन्ग्राहयिष्यञ्श्रमं प्रति
विश्रमार्थं च कौरव्य पार्थस्य च महात्मनः
अपयातो रणाद्वीरो राजानं द्रष्टुमेव च
अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः
तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि
ततो धनञ्जयश्श्रुत्वा राजानं शल्यपीडितम्
याहियाहिति बहुशो वासुदेवमचोदयत्
अर्जुनः
राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः
सञ्जयः
स चोद्यमानः पार्थेन केशिघ्नो वृष्णिनन्दनः
रथेनापययौ क्षिप्रं सङ्ग्रामाद्घोरदर्शनात्
गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया
सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम्
युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत
दुस्सहं मन्त्रिणं सङ्ख्ये पराजित्य गुरोस्सुतम्
द्रौणिं पराजित्य ततोग्रधन्वा कृत्वा महद्दुष्करमार्यकर्म
आलोकयामास ततस्स्वसैन्यं धनञ्जयश्शत्रुभिरप्रधृष्यः
संयुध्यमानान्पृतनामुखस्थांस्तान् वै शूरान्हर्षयन्सव्यसाची
पूर्वापदानैः प्रथितैः प्रशंसन्स्थिरांश्चकारात्मरथाननीके
अपश्यमानस्तु ततं किरीटी युधे स्थितं भ्रातरमाजमीढम्
उवाच भीमं तरसाऽभ्युपेत्य राज्ञः प्रवृत्तिस्त्विह कुत्र चेति
भीमः
अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः
कर्णबाणविभिन्नाङ्गो यदि जीवेत्कथञ्चन
अर्जुनः
तस्माद्भवाञ्शीघ्रमितः प्रयातु ज्ञातुं प्रवृत्तिं पुरुषर्षभस्य
नूनं स विद्धोऽतिभृशं पृषत्कैः कर्णेन राजा शिबिरं गतोऽसौ
यस्सम्प्रहारे युधि सम्प्रवृत्ते द्रोणेन विद्धोऽतिभृशं तरस्वी
तस्थौ च तत्रापि जयं प्रतीक्षन् द्रोणेन यावन्न हतः किलासीत्
स संशयं गमितः पाण्डवाग्र्यस्सङ्ख्येऽद्य कर्णेन महानुभावः
ज्ञातुं प्रयाह्याशु तमद्य भीम स्थास्याम्यहं शत्रुगणान्निरुध्य
भीमः
त्वमेव जानीहि महानुभाव राज्ञः प्रवृत्तिं पुरुषर्षभस्य
अहं हि यद्यर्जुन यामि तत्र वक्ष्यन्ति मां भीत इति प्रवीराः
सञ्जयः
ततोऽब्रवीदर्जुनो भीमसेनं संशप्तकाः प्रत्यनीके स्थिता मे
एतानहत्वाऽद्य मया न शक्यमितोऽपयातुं रिपुसङ्घमध्यात्
अथाब्रवीदर्जुनं भीमसेनस्स्ववीर्यमासाद्य कुरुप्रवीर
संशप्तकान्प्रतियोत्स्यामि सङ्ख्ये सर्वानहं याहि धनञ्जयेति
तद्भीमसेनस्य वचो निशम्य जिष्णुस्तदा भ्रातुरमित्रमध्ये
द्रष्टुं कुरुश्रेष्ठमितःप्रयातः प्रोवाच वृष्णिप्रवरं तदानीम्
अर्जुनः
राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः
चोदयाश्वान्हृषीकेश विहायैनं रणार्णवम्
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव
सञ्जयः
तं रथं चोदयामास बीभत्सोर्वचनाद्धरिः
ततो हयाग्र्यान्स दशार्हमुख्यः प्रचोदयन्भीममुवाच चेदम्
श्रीभगवान्
नैतच्चित्रं तव कर्माद्य भीम यास्यावहे जहि पार्थारिसङ्घान्
सञ्जयः
ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः
शीघ्राच्छीघ्रतरै राजन्वाजिभिर्गरुडोपमैः
प्रत्यनीकमवस्थाप्य भीमसेनमरिन्दमम्
सन्दिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम्
ततस्तु गत्वा पुरुषप्रवीरौ राजानमासाद्य शयानमेकम्
रथादुभौ प्रत्यवरुह्य तस्माद्ववन्दतुर्धर्मराजस्य पादौ
इत्येवमभिसङ्गृह्य तावुभौ प्राञ्जली स्थितौ
शस्त्रक्षतौ महाराज रुधिरेण समुक्षितौ
निहत्य वाहिनीं तुभ्यं त्वपयातौ रणाजिरात्
तं दृष्ट्वा पुरुषव्याघ्रं क्षेमिणं पुरुषर्षभौ
मुदा ननन्दतुः कृष्णावश्विनाविव वासवम्
तावभ्यनन्दद्राजाऽपि विवस्वानश्विनाविव
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः
मन्यमानो हतं कर्णं प्रीतः परपुरञ्जयः
स भूत्वा पुरुषव्याघ्रो राजा तत्र युधिष्ठिरः
हर्षगद्गदया वाचा प्रीतः प्राह परन्तपः