सञ्जयः
द्रौणिस्तु रथवंशेन महता परिवारितः
अपतत्सहसा राजन्यत्र पार्थो व्यवस्थितः
तमापतन्तं सहसा शूरः शौरिसहायवान्
दधार समरे पार्थो वेलेव मकरालयम्
ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान्
अर्जुनं वासुदेवं च च्छादयामास सायकैः
अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा
अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव
तदस्त्रं वारयामास ब्राह्मणो युधि भारत
यद्यद्धि व्याक्षिपद्युद्धे फल्गुनोऽस्त्रं जिघांसया
तत्तदस्त्रैर्महेष्वासो द्रोणपुत्रो जघान ह
अस्त्रयुद्धे महाराज वर्तमाने महाभये
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम्
स दिशः प्रदिशश्चैव च्छादयित्वा ह्यजिह्मगैः
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे
ततोऽर्जुनो रथान्सर्वान्हत्वा तस्य पदानुगान्
स चकार महीं घोरां शोणितौघतरङ्गिणीम्
सरथा रथिनः पेतुः पार्थचापच्युतैश्शरैः
हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः
अवाकिरद्रणे कृष्णौ समन्तात्त्रिभिश्शरैः
ततोऽर्जुनो रणे राजन्द्रौणिरायम्य पत्रिणा
वक्षोदेशं समासाद्य ताडयामास संयुगे
सोऽतिविद्धो रणे तेन द्रोणपुत्रः प्रतापवान्
आदत्त परिघं घोरं पार्थायैनमथाक्षिपत्
तमापन्ततं परिघं कार्तस्वरविभूषितम्
पार्थश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः
सोऽतिविद्धोऽपतद्भूमौ रणे पार्थस्य सायकैः
विशीर्णः पर्वतो राजन्यथा स्याद्वज्रताडितः
ततोऽर्जुनो रणे द्रौणिं विव्याध निशितैश्शरैः
सारथिं चास्य भल्लेन रथनीडादपातयत्
स सङ्गृह्य स्वयं वाहान्कृष्णौ प्राच्छदयच्छरैः
तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम्
संयच्छंस्तुरगान्यच्च फल्गुनं चाप्ययोधयत्
तदस्य समरे राजन्सर्वभूतान्यपूजयन्
तेनास्य समरे योधास्तुष्टुवुस्सर्वसैनिकाः
यदा तु गृह्यते पार्थो द्रोणपुत्रेण धन्विना
तदा रश्मीन्रथाश्वानां क्षुरप्रेणाशु चिच्छिदे
द्रुद्रुवुस्तुरगास्तस्य शरवेगप्रपीडिताः
ततोऽभून्निनदो घोरस्तव सैन्यस्य भारत
पाण्डवास्तु जयं लब्ध्वा तव सैन्यमभिद्रवन्
समस्तान्निशितान्बाणान्पातयन्तो जयैषिणः
तावकी चतुरङ्गैषा पाण्डवैस्तु महाचमूः
पुनःपुनरथो वीरैः प्रभग्ना जितकाशिभिः
पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम्
शकुनेस्सौबलेयस्य कर्णस्य च विशाम्पते
वार्यमाणा महासेना पुत्रैस्तव जनेश्वर
नावतिष्ठति सङ्ग्रामे ताड्यमाना शितैश्शरैः
ततो योधैर्महाराज पलायद्भिस्समन्ततः
अभवद्व्याकुलं भीतं पुत्राणां ते महद्बलम्
तिष्ठतिष्ठेति सततं सूतपुत्रस्य जल्पतः
नावातिष्ठत सा सेना वध्यमाना महात्मभिः
अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः
धार्तराष्ट्रबलं दृष्ट्वा विद्रुतं सर्वतो दिशम्
ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव
दुर्योधनः
पश्य कर्ण महासेनां पाण्डवैरर्दितां भृशम्
त्वयि तिष्ठति सन्त्रासात्समन्तात्प्रपलायते
एतज्ज्ञत्वा महाराज कुरु प्राप्तमरिन्दम
सहस्राणि च योधानां त्वामेव पुरुषोत्तम
क्रोशन्ते समरे वीर वध्यमानास्समन्ततः
सञ्जयः
एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत्
मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः
कर्णः
पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर
अद्य हन्मि रणे पार्थान्पाञ्चालान्केकयैस्सह
वाहयाश्वान्नरव्याघ्र मद्राधीश न संशयः
सञ्जयः
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान्
प्रगृह्य विजयं वीरो धनुश्श्रेष्ठं पुरातनम्
सज्यं कृत्वा महाराज प्रमृज्य च पुनःपुनः
सन्निवार्य तु तान्योधान्सत्येन शपथेन च
प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः
तस्माद्राजन्सहस्राणि प्रयुतान्यर्बुदानि च
कोटिशश्च शरा घोरा निर्गच्छन्ति महामृधे
ज्वलितैस्तैश्शरैर्घोरैः कङ्कबर्हिणवाजितैः
सञ्छन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन
हाहाकारो महानासीत्पाण्डवानां विशाम्पते
पीडितानां बलवता भार्गवास्त्रेण संयुगे
निपतद्भिर्गजै राजन्नरैश्चापि सहस्रशः
रथैश्चापि नरश्रेष्ठ हयैश्चापि समन्ततः
प्राकम्पत मही राजन्निपतद्भिर्गतासुभिः
व्याकुलं सर्वमभवत्पाण्डवानां बलं महत्
कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः
दहञ्शत्रून्नरव्याघ्रश्शुशुभे स परन्तपः
ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिस्सह
तत्र तत्रैव मुह्यन्ते दावदाहे गजा इव
क्रोशन्तीव महाराज यथाप्राणं नरोत्तमाः
तेषां तु क्रोशतां दीनं भीतानां रणमूर्धनि
धावतां च दिशो राजन्वित्रस्तानां समन्ततः
आर्तनादो महानासीत्प्रेतानामिव सम्प्लवे
वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष
वित्रेसुस्सर्वभूतानि तिर्यग्योनिगतान्यपि
ते वध्यमानास्समरे सूतपुत्रेण सृञ्जयाः
अर्जुनं वासुदेवं च विक्रोशन्ति मुहुर्मुहुः
प्रेतराजपुरे यद्वत्प्रेतानां वै विचेतसाम्
श्रुत्वा तु निनदं तेषां वध्यतां कर्णसायकैः
अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनञ्जयः
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र समीरितम्
अर्जुनः
पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम्
नैतदस्त्रं तु समरे शक्यं हन्तुं कथञ्चन
सूतपुत्रं च संरब्धं पश्य कृष्ण महारथम्
अन्तकप्रतिमं वीर्ये कुर्वाणं कर्म दुष्करम्
अभीक्ष्णं चोदयंश्चाश्वान्प्रेक्षते मां मुहुर्मुहुः
न च शक्ष्यामि कर्णस्य संयुगे वै पलायितुम्
जीवन्प्राप्नोति पुरुषस्सङ्ख्ये जयपराजयौ
मृतस्य हि हृषीकेश वध एव जयः कुतः
एष कर्णो रणे भाति मध्याह्न इव भास्करः
निवर्तय रथं कृष्ण जीवन्भद्राणि पश्यति