सञ्जयः
कर्णोऽथ शरजालेन केकयानां पदानुगान्
व्यधमत्परमेष्वासानग्रानीके व्यवस्थितान्
तेषां प्रयतमानानां राधेयस्य निवारणे
रथान्पञ्चशतं कर्णः प्राहिणोद्यमसादनम्
अविषह्यमतो दृष्ट्वा राधेयं युधि योधिनः
भीमसेनमुपागच्छन्कर्णबाणप्रपीडिताः
रथानीकं विदार्यैवं शरै राजन्ननेकधा
कर्ण एकरथेनैव युधिष्ठिरमुपाद्रवत्
सेनानिवेशं गच्छन्तं मार्गणैर्भृशविक्षतम्
यमयोर्मध्यगं वीरं शनैर्यान्तं विचेतसम्
स समासाद्य राजानं तथा यान्तं युधिष्ठिरम्
सूतपुत्रस्त्रिभिस्तीक्ष्णैर्विव्याध परमेषुभिः
तथैव राजा राधेयं प्रत्यविध्यत्स्तनान्तरे
शरैस्त्रिभिश्च यन्तारं चतुर्भिश्चतुरो हयान्
चक्ररक्षौ नृपसुतौ माद्रीपुत्रौ परन्तपौ
तावभ्यधावतां कर्णं राजानं मा वधीदिति
तौ पृथक्शरवर्षाभ्यां राधेयं समवर्षताम्
नकुलस्सहदेवश्च परं यत्नं समास्थितौ
तथैव तौ प्रत्यविध्यत्सूतपुत्रः प्रतापवान्
भल्लाभ्यां भृशतीक्ष्णाभ्यां महात्मानावरिन्दमौ
दन्तवर्णांस्तु राधेयो निजघान महाजवान्
युधिष्ठिरस्य सङ्ग्रामे कालवालान्हयोत्तमान्
ततोऽपरेण भल्लेन शिरस्त्राणमपातयत्
कौन्तेयस्य महेष्वासः प्रहसन्निव सूतजः
तथैव नकुलस्यापि हयान्हत्वा महारथः
ततोऽपरेण भल्लेन शिरस्त्राणमपातयत्
ईषां धनुश्च चिच्छेद माद्रीपुत्रस्य धीमतः
तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ
भ्रातरावारुरुहतुस्सहदेवरथं तदा
तौ दृष्ट्वा विरथौ तत्र मातुलः परवीरहा
अभ्यभाषत राधेयं मद्रराजोऽनुकम्पया
शल्यः
मार्गितव्यस्त्वया कर्ण कुन्तीपुत्रो धनञ्जयः
अतस्त्वं धर्मराजेन किमर्थमिह युध्यसे
सञ्जयः
तथाऽपि कर्णस्संरब्धो युधिष्ठिरमपीडयत्
शरैस्तीक्ष्णैर्भृशं तीक्ष्णो र्माद्रीपुत्रौ च पाण्डवौ
ततः कर्णः प्रहस्यैनं शल्यं पुनरुवाच ह
रथस्थमतिसंरब्धं युधिष्ठिरवधे स्थितम्
शल्यः
यदर्थं धार्तराष्ट्रेण सततं मानितो भवान्
तं पार्थं जहि राधेय किं ते हत्वा युधिष्ठिरम्
हते ह्यस्मिन्ध्रुवं पार्थस्सर्वाञ्जेष्यति नो रथान्
तस्मिन्हि धार्तराष्ट्रस्य निहते तु ध्रुवो जयः
ध्वजोऽसौ दृश्यते तस्य रोचमानोंऽशुमानिव
साधुर्ह्येष महाबाहो किं ते हत्वा युधिष्ठिरम्
शङ्खयोर्ध्मातयोश्शब्दस्सुमहानेष कृष्णयोः
श्रूयते चापघोषश्च मेघस्येव महास्वनः
असौ निघ्नन्रथोदारानर्जुनश्शरवृष्टिभिः
सर्वां ग्रसति ते सेनां कर्ण पश्यैनमाहवे
पृष्ठगोपौ हि शूरस्य युधामन्यूत्तमौजसौ
उत्तरं चास्य शैनेयश्चक्रं रक्षति सात्यकिः
धृष्टद्युम्नस्तु पार्थस्य चक्रं रक्षति दक्षिणम्
भीमसेनस्तु राज्ञा वै धार्तराष्ट्रेण युध्यति
यथा न हन्यात्तं भीमस्सर्वेषां नोऽद्य पश्यताम्
कुरु राधेय वै राजा यथा मुच्येत तत्तथा
पश्यैनं भीमसेनेन ग्रस्तमाहवशोभिना
यदि नामाद्य मुच्येत विस्मयस्सुमहान्भवेत्
परित्राह्येनमभ्येत्य संशयं परमं गतम्
किं ते माद्रीसुतौ हत्वा राजानं वा युधिष्ठिरम्
सञ्जयः
इति शल्यवचश्श्रुत्वा राधेयः पृथिवीपते
दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे
राजगृध्नुर्भृशं चैव शल्यवाक्यप्रचोदितः
अजातशत्रुमुत्सृज्य माद्रीपुत्रौ च पाण्डवौ
तव पुत्रं परित्रातुमभ्यधावत वीर्यवान्
मद्रराजप्रचुदितैरश्वैराकाशगैरिव
गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः
अपायाज्जवनैरश्वैस्सहदेवस्य मारिष
ताभ्यां स सहितस्तूर्णं व्रीडन्निव नरेश्वरः
प्राप्य सेनानिवेशं स्वं मार्गणैर्भृशविक्षतः
अवतीर्य रथात्तूर्णमाविशच्छयनं शुभम्
युधिष्ठिरः
अपनीय तु तं शल्यं हृच्छल्येनाभिपीडितः
सोऽब्रवीद्भ्रातरौ राजा माद्रीपुत्रौ परन्तपौ
गच्छन्तं त्वरितौ वीरौ यत्र भीमो व्यवस्थितः
सञ्जयः
ततस्ते पाण्डवास्सर्वे समाभाष्य परस्परम्
कौरवाणाञ्च सङ्ग्रामे कर्णस्य च महात्मनः
समीपं भीमसेनस्य पाण्डवावन्वगच्छताम्
जीमूत इव गर्जन्वै युध्यतेऽसौ वृकोदरः
ततोऽन्यं रथमास्थाय नकुलो रथपुङ्गवः
सहदेवश्च तेजस्वी भ्रातरौ शत्रुकर्शनौ
तुरगैर्वातरंहोभिर्यत्र भीमस्तरस्विनौ
अनीकैस्सहितौ तत्र भ्रातरौ समवस्थितौ