सञ्जयः
युधिष्ठिरश्चित्रसेनं शरवर्षैरवाकिरत्
चित्रसेनोऽपि कौन्तेयं सङ्क्रुद्धस्समवारयत्
मुहूर्ताद्विमुखीकृत्य चित्रसेनं स धर्मराट्
तावकं सैन्यमभ्यघ्नत्समन्तान्निशितैश्शरैः
तावका हि महाबाहो दुर्योधनपुरोगमाः
युधिष्ठिरं जिघृक्षन्तस्सर्वसैन्यमवाक्षिपन्
दृष्टप्रभावांस्तु तान्मत्वा समवेतान्महारथान्
आजग्मुस्सम्परीप्सन्तः पाण्डवेयं युधिष्ठिरम्
नकुलस्सहदेवश्च धृष्टद्युम्नश्च पार्षतः
अक्षौहिण्या परिवृतास्त्वभ्यधावन्युधिष्टिरम्
भीमसेनश्च नाराचैर्मृद्नंस्तव महारथान्
अभ्यधावदभिप्रेप्सू राजानं शत्रुभिर्वृतम्
तांस्तु सर्वान्महेष्वासान्कर्णो वैकर्तनो वृषा
महता शरवर्षेण प्रत्यवारयदागतान्
शरौघान्विसृजन्तस्ते प्रेरयन्तश्च कुञ्जरान्
न शेकुर्यत्नवन्तोऽपि राधेयं प्रतिवीक्षितुम्
तान्हि सर्वान्महेष्वासान्सर्वशस्त्रविशारदान्
महता शरवर्षेण राधेयः प्रत्यवारयत्
दुर्योधनं तु विंशत्या नाराचानां कृती बली
अविध्यत्तूर्णमभ्येत्य सहदेवो जनाधिपम्
सोऽतिविद्धो बलवता रराज बलसन्निधौ
प्रभिन्न इव मातङ्गो रुधिरौघपरिप्लुतः
दृष्ट्वा तव तथा पुत्रं गाढविद्धं सुतेजनैः
अभ्यधावद्दृढं क्रुद्धो राधेयो रथिनां वरः
दुर्योधनं तथा दृष्ट्वा शीघ्रमस्त्रमुदीर्य सः
पाञ्चालांश्चावधीद्वीरो राजानीकं च भारत
ततो यौधिष्ठिरं सैन्यं वध्यमानं महात्मना
सहसा प्राद्रावद्राजन्सूतपुत्रभयार्दितम्
विविधा विशिखास्तत्र सम्पतन्तः परस्परम्
भल्लाः पुङ्खसमाश्लिष्टास्सूतपुत्रधनुश्च्युताः
अन्तरिक्षे शरौघाणां पततां च परस्परम्
सङ्घर्षेणैव महता पावकस्समजायत
ततो दश दिशश्शीघ्रैश्शलभैरिव घोषिभिः
अभ्यघ्नत्तरसा कर्णश्शरैः परशरीरगैः
रक्तचन्दनसम्पृक्तौ मणिहेमविभूषितौ
बाहू च व्याक्षिपत्कर्णः परमास्त्रं विदर्शयन्
ततस्सर्वा दिशो राजन्सायकैर्विप्रमोहयन्
अपीडयद्भृशं कर्णो कुन्तीपुत्रं युधिष्ठिरम्
ततः क्रुद्धो महाराज पाण्डुपुत्रो युधिष्ठिरः
निशितैरिषुभिः कर्णं बाह्वोरुरसि चार्पयत्
प्रहसन्निव तं कर्णः कङ्कपत्रैश्शिलाशितैः
उरस्यविध्यद्राजानं कुन्तीपुत्रं युधिष्ठिरम्
स पीडितो भृशं तेन धर्मराजो युधिष्ठिरः
उपविश्य रथोपस्थे सूतं याहीत्यचोदयत्
प्राक्रोशन्त ततस्सर्वे धार्तराष्ट्रास्सराजकाः
गृह्णीध्वमिति राजानमभ्यधावंश्च सर्वशः
ततश्शरशतै राजन् केकयानां महारथाः
पाञ्चालसहिता राजन्धार्तराष्ट्रानवारयन्
तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके
दुर्योधनश्च भीमश्च समेयातां महाबलौ